Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.15.1

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।
न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि ॥ ६.१५.१ ॥

大王啊,此问由您引发,合乎您的身份。但您不应将此过失归咎于难敌。

6.15.2

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ ६.१५.२ ॥

人若因自己的恶行而得不祥,便因那罪过而不配怀疑他人。

6.15.3

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ ६.१५.३ ॥

大王啊,人中凡行一切可鄙之事者,他行那些可鄙之事,便被全世界所应诛杀。

6.15.4

निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने ॥ ६.१५.४ ॥

等待您的决断,般度诸子与其大臣一同承受了诡计多端之人所施的凌辱,并在森林中长久忍受。

6.15.5

हयानां च गजानां च राज्ञां चामिततेजसाम् ।
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ ६.१५.५ ॥

马匹、象群与具有无量光辉的诸王,我亲眼所见,也以瑜伽之力所见。

6.15.6

शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ।
दिष्टमेतत्पुरा नूनमिदमेव नराधिप ॥ ६.१५.६ ॥

地上的守护者啊,请听此事,不要让心沉溺于忧愁。人主啊,这一切早已注定。

6.15.7

नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते ।
यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम् ॥ ६.१५.७ ॥

我向智慧的波罗奢罗之子(毗耶娑)致敬之后将要讲述;凭着他的恩典,我获得了那神圣而至上的知识。

6.15.8

दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च ।
परचित्तस्य विज्ञानमतीतानागतस्य च ॥ ६.१५.८ ॥

大王,我拥有超越感官的视力、远距离听闻的能力、知晓他人心意的能力,以及知晓过去与未来的能力。

6.15.9

व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा ।
अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ ६.१५.९ ॥

洞悉事物的生灭,在天空中吉祥地飞行,在战斗中不受兵器伤害——这一切都来自那位大德者的恩赐。

6.15.10

श्रृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् ।
भरतानामभूद्युद्धं यथा तद्रोमहर्षणम् ॥ ६.१५.१० ॥

请听我详细讲述:婆罗多族之间的那场战争奇异而极其令人惊叹,令人毛骨悚然。

6.15.11

तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।
दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ ६.१५.११ ॥

大王,当那些军队按规矩列阵、布成阵势之后,难敌对难降说道。

6.15.12

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ ६.१५.१२ ॥

难降啊,快让保护毗湿摩的战车套上马匹;你也要迅速催促所有军队。

6.15.13

अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ ६.१५.१३ ॥

我多年来所思虑的那场相遇已经来到我面前:般度之子与他们的军队和俱卢族在此会合。

6.15.14

नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् ।
हन्युद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ ६.१५.१४ ॥

我认为战场上没有比保护毗湿摩更重要的事了,因为得到保护的他能够杀死般度之子、索摩迦和斯林阁耶。

6.15.15

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनाम् ।
श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम ॥ ६.१५.१५ ॥

纯洁的心灵者说:“我不会杀死湿坎丁,因为听说他从前是女子,所以在战场上他不应被我攻击。”

6.15.16

तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः ।
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ ६.१५.१६ ॥

因此我认为应当特别保护毗湿摩。愿我方所有人坚守,专心于杀死湿坎丁。

6.15.17

तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः ।
सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम् ॥ ६.१५.१७ ॥

同样,东方、西方、南方和北方的战士,个个精通兵器,应当守护祖父。

6.15.18

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ ६.१५.१८ ॥

若无人守护,即使是强大的狮子也会被狼杀死。我们不能像豺狼让狮子倒下那样,让他死于湿坎丁之手。

6.15.19

वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।
गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः । ॥ ६.१५.१९ ॥

左翼为尤陀曼尤,右翼为乌塔玛乌贾;二人前去护卫阿周那,阿周那也走向湿婆坎丁。

6.15.20

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ ६.१५.२० ॥

纵使有阿周那与毗湿摩守护,也要让他远离二人,使他无法杀死恒河之子——杜莎萨那,照此去做。