Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.18.1

ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः ।
अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥ ६.१८.१ ॥

片刻之后,一阵令人心颤的喧嚣响起,大王啊,那是渴望交战的战士们发出的。

6.18.2

शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः ।
नोमिघोषै रथानां च दीर्यतीव वसुन्धरा ॥ ६.१८.२ ॥

螺号与大鼓的轰鸣、象群的嘶吼和战车轮子的隆隆声,仿佛大地都要裂开。

6.18.3

हयानां हेषमाणानां योधानां चैव गर्जताम् ।
क्षणेनैव नभो भूमिः शब्देनापूरितं तदा ॥ ६.१८.३ ॥

转瞬之间,马匹的嘶鸣与战士的吼声充满了天空与大地。

6.18.4

पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च ।
समकम्पन्त सैन्यानि परस्परसमागमे ॥ ६.१८.४ ॥

啊,不可战胜者!你的儿子们的军队与般度之子们的军队相遇时,一同战栗起来。

6.18.5

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥ ६.१८.५ ॥

那里,饰以黄金的象与战车闪闪发光,宛如伴着闪电的云朵。

6.18.6

ध्वजा बहुविधाकारास्तावकानां नराधिप ।
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ ६.१८.६ ॥

人主啊,你的战士们那些形状各异的旗幡,佩戴着金臂钏,如同熊熊燃烧的火焰般闪耀。

6.18.7

स्वेषां चैव परेषां च समदृश्यन्त भारत ।
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ ६.१८.७ ॥

婆罗多之子啊,我方与敌方那如因陀罗旗般洁白的旗帜看上去一样,仿佛置于因陀罗的殿堂之中。

6.18.8

काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः ।
सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः ॥ ६.१८.८ ॥

身披金甲的勇士,光辉如火与日,披甲待战,看上去同样地闪耀着火与日的光芒。

6.18.9

कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः ।
उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः ॥ ६.१८.९ ॥

大王啊,库鲁勇士中的翘楚,持着各色兵器与弓,高举着斑斓的武器,手腕缚着护具,旗帜飘扬。

6.18.10

ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ।
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप ।
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ ६.१८.१० ॥

眼如公牛的大弓手,来到军阵前方,光彩夺目。人主啊,守护毗湿摩后方的你的诸子——难降、难受、恶面、难忍——也在那里。

6.18.11

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ ६.१८.११ ॥

毗卫婆提、citrasena、大车将毗迦尔纳、萨耶夫拉陀、补鲁弥多罗、阇耶、婆利室罗婆与沙罗。

6.18.12

रथा विंशतिसाहस्रास्तथैषामनुयायिनः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ६.१८.१२ ॥

随从他们的战车同样有二万乘;阿毗沙诃、舒罗森那、尸毗与婆萨提人也在那里。

6.18.13

शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा ।
सौवीराः कैतवाः प्राच्याः प्रतीच्येदीच्यवासिनः ॥ ६.१८.१३ ॥

沙尔瓦人、摩差人、安跋史陀人与三伽陀人,以及俱伽耶人、索维罗人、开跋人,东方、西方和北方的居民。

6.18.14

द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः ।
महता रथवंशेन ते ररक्षुः पितामहम् ॥ ६.१८.१४ ॥

这十二个国家的勇士,皆愿舍身,以大批战车护卫祖父。

6.18.15

अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।
मागधो यत्र नृपतिस्तद्रथानीकमन्वयात् ॥ ६.१८.१५ ॥

有一万头迅捷的象军,摩揭陀王所在之处,便跟随那支战车军而行。

6.18.16

रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् ।
अभवन्वाहिनीमध्ये शतानामयुतानि षट् ॥ ६.१८.१६ ॥

战车的车轮护卫与象的足部护卫在军队中央,共六阿由多(以百计)。

6.18.17

पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः ।
अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ ६.१८.१७ ॥

步兵走在前面,手持弓、盾与剑;成百上千的战士以爪与投枪作战。

6.18.18

अक्षौहिण्यो दशैका च तव पुत्रस्य भारत ।
अदृश्यत महाराज गङ्गेव यमुनान्तरा ॥ ६.१८.१८ ॥

婆罗多啊,你儿子的十一支阿科希尼军出现了,大王,如同恒河流于亚穆纳河之中。