摩诃婆罗多 · 章 6.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.19.1
अर्क्षांहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः ।
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ ६.१९.१ ॥
般度之子坚战见到十一支阿刹substitute军团已排成阵势,他以少量军队如何布下对阵之阵?
6.19.2
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
कथं भीष्मं स कौन्तेयः प्रत्ययूहत सञ्जय ॥ ६.१९.२ ॥
精通人、天、乾闼婆与阿修罗阵法的那位贡蒂之子,如何对阵毗湿摩?桑迦亚啊?
6.19.3
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः ।
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ॥ ६.१९.३ ॥
见到持国之子的军队已排成阵势,正直的般度之子法王对财主(阿周那)说道。
6.19.4
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः ।
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥ ६.१९.४ ॥
亲爱的,依大仙人毗诃娑帕蒂之言,智者宣称:以少数兵力应当结成紧密之阵作战,而以多数兵力则可随意展开。
6.19.5
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ ६.१९.५ ॥
对于少数兵力,适宜以针尖之阵,与众相连而立;而我军比敌军更为弱小。
6.19.6
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव ।
एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः ॥ ६.१९.६ ॥
般度之子领悟并听闻了大仙人此言,便回答法王。
6.19.7
एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम् ।
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ ६.१९.७ ॥
最优秀的君王啊,我将为你布下这一不可战胜的阵形,名为不动,又名金刚,由持金刚杵者(因陀罗)所制定。
6.19.8
यः स वात इवोद्भूतः समरे दुःसहः परैः ।
स नः पुरो योत्सयते वै भीमः प्रहरतां वरः ॥ ६.१९.८ ॥
那在战场上如风般奋起、令敌人无法忍受的毗摩,正是出击者中最杰出的,他必定会在我们前面作战。
6.19.9
तेजांसि रिपुसैन्यानां मृद्गन्पुरुषसत्तमः ।
अग्नेऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः ॥ ६.१९.९ ॥
那粉碎敌军光辉的人中之最、火神的先锋、精通作战方略的,他将为我们而战。
6.19.10
यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः ।
निवर्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा ॥ ६.१९.१० ॥
众俱卢人以难敌为首,见到他便惊恐地退却,正如小鹿见到狮子而逃避一样。
6.19.11
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः ।
भीमं प्रहरतां श्रेष्ठं देवाराजमिवामराः ॥ ६.१९.११ ॥
我们无所畏惧,都将依靠他如依靠城墙,依靠毗摩——出击者中最优秀的——正如诸天依靠天王因陀罗一样。
6.19.12
न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम् ।
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ ६.१९.१२ ॥
世上没有任何人能忍受看一眼愤怒的狼腹(毗摩),那位行事极为凶猛的人中之牛。
6.19.13
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् ।
चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ ६.१९.१३ ॥
持着由金刚之精所造的坚固狼牙棒、以巨大速度前行的毗摩世那,甚至能使大海干涸。
6.19.14
भीमसेनं तदा राजन्दर्शयस्व महाबलम् ।
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ॥ ६.१९.१४ ॥
大王啊,那时请展示大力的毗摩世那;让俱睒弥王族、持胜者(Dhṛṣṭaketu)与勇猛的遮企陀那也一同上前。
6.19.15
एते गच्छन्तु सामात्याः प्रकर्षन्तो जनाधिप ।
धृतराष्ट्रस्य दायादानिति बीभत्सुरब्रवीत् ॥ ६.१९.१५ ॥
人主啊,让他们与大臣一同前去,把持国的子嗣拖出来——毗卑特苏(阿周那)如此说道。
6.19.16
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत ।
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ ६.१९.१६ ॥
婆罗多啊,阿周那(普利塔之子)如此说话时,全军在战阵中以顺耳之语向他致敬。
6.19.17
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः ।
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा ॥ ६.१९.१७ ॥
大臂的财胜(阿周那)如此说罢便照做了;他将那些军队布成阵列,俱生(阿周那)随即迅速向前进发。
6.19.18
संप्रयातान्कुरून्दृष्ट्वा पाण्डंवानां महाचमूः ।
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत ॥ ६.१९.१८ ॥
看到俱卢人前进,般度之子的大军显得像涨满的恒河,静止却又在微微荡漾。
6.19.19
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान् ।
नकुलः सहदेवश्च धृष्टकेतुश्च पार्थिवः ॥ ६.१९.१९ ॥
毗摩先那是他们的首领,还有勇猛的德里湿陀衍那、那古罗、萨哈德瓦,以及国王德里湿多刻杜。
6.19.20
विराटश्च ततः पश्चाद्राजाथाक्षौहिणीवृतः ।
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ ६.१९.२० ॥
随后,国王毗罗吒率一个阿克绍诃尼军,与兄弟和儿子一同守护后方。
6.19.21
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती ।
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥ ६.१९.२१ ॥
毗摩的车轮护卫是摩德利的两个大光明之子;德罗波蒂的诸子与苏跋陀罗之子同为迅捷的后卫。
6.19.22
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः ।
सहितः पृतनाशूरैः रथमुख्यैः प्रभद्रकैः ॥ ६.१९.२२ ॥
般遮罗的德里湿陀衍那是他们的大车将与守护者,并有军中勇士、上等车将以及普拉跋陀迦一同随行。
6.19.23
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः ।
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ ६.१९.२३ ॥
随后,受阿周那在后护卫的湿乾丁,一心要毁灭毗湿摩,前进而去,啊,婆罗多族的雄牛。
6.19.24
पृष्ठतोऽप्यर्जुनस्यासीद्युयुधानो महाबलः ।
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ ॥ ६.१९.२४ ॥
阿周那身后还有大力的尤由陀那;车轮护卫则是两位般遮罗,即优陀曼尤与乌答摩阇。
6.19.25
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः ।
बृहद्भीः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ ६.१९.२५ ॥
贡蒂之子国王坚战位于中军,狂暴的象群如移动的山岳,令人极度恐惧。
6.19.26
अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः ।
विराटमन्वयात्पश्चात्पाण्डवार्थं पराक्रमी ॥ ६.१९.२६ ॥
随后,具大心的般遮罗王耶若塞纳以一支十八军团之师,为般度子孙英勇地跟随在毗罗吒身后。
6.19.27
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः ।
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ ६.१९.२७ ॥
大王啊,他们的战车上高悬着大旗,光芒如日月,饰以上好的黄金,绘有种种标志。
6.19.28
समुत्सार्य ततः पश्चाद्धृष्टद्युम्नो महारथः ।
भ्रातृभिः सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ ६.१९.२८ ॥
随后,大车将持律那退至后方,与兄弟和儿子们一同守护坚战。
6.19.29
त्वदीयानां परेषां च रथेषु विपुलान्ध्वजान् ।
अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः ॥ ६.१९.२९ ॥
压过你方与敌方战车上的大旗,唯有大猿(罗摩之友哈奴曼)独自立于阿周那的战车之上。
6.19.30
पदातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः ।
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ ६.१९.३० ॥
然而,数以百千计的步兵,即怖军之护卫,手持刀剑、长矛与铁矛走在前面。
6.19.31
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः ।
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ ६.१९.३१ ॥
万头象,额颞与面部淌着发情之液,英勇地披着金网闪耀,如同山岳矗立。
6.19.32
क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः ।
राजानमन्वयुः यश्चाज्जीमूता इव वार्षिकाः ॥ ६.१९.३२ ॥
如同滴水的云,珍贵而带着莲花香,跟随国王,宛如雨季的云。
6.19.33
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् ।
प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥ ६.१९.३३ ॥
毗摩先那拖着可怖的铁杵般的狼牙棒,推动大军前进;他不可战胜,心胸广大。
6.19.34
तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम् ।
न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके ॥ ६.१९.३४ ॥
他如太阳般难以直视,灼烧着军队,所有战士近距离都无法正视他。
6.19.35
वज्रो नामैष स व्यूहो निर्भयः सर्वतोमुखः ।
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ ६.१९.३५ ॥
此阵名为金刚:无畏,面向四方,旗帜如弓电,可怖,由持甘提婆弓者守护。
6.19.36
यं प्रतिव्यूहय् तिष्ठन्ति पाण्डवास्तव वाहिनीम् ।
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ ६.१९.३६ ॥
般度之子们列阵迎击你军所结的阵,在人间不可战胜,由般度诸子全力守护。
6.19.37
संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति ।
प्रववौ पृष्ठतो वायुर्निरभ्रे स्तनयित्नुमान् ॥ ६.१९.३७ ॥
在黄昏时分军队列阵之际,一阵风从后方朝向太阳升起之处吹来,天空虽无云却如雷鸣般作响。
6.19.38
विष्वग्वाताश्च विववुर्नीचैः शर्करकर्षिणः ।
रजश्चोद्धूयत महत्तम आच्छादयञ्जगत् ॥ ६.१९.३८ ॥
四面八方刮起风来,贴近地面,卷起碎石。尘土扬起,化为巨大的黑暗,遮蔽了世界。
6.19.39
पपात महती चोल्का प्राङ्भुखी भरतर्षभ ।
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥ ६.१९.३९ ॥
薄拉多之雄牛啊!一颗大流星向东坠落,撞上升起的太阳,伴随巨响碎裂。
6.19.40
अथ संनह्यमानेषु सैन्येषु भरतर्षभ ।
निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च ॥ ६.१९.४० ॥
于是,薄拉多之雄牛啊!当军队正在列阵备战时,太阳失去光辉而升起,大地伴随轰鸣而震动。
6.19.41
व्यशीर्यत सनादा च भूस्तदा भरतर्षभ ।
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् ।
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन ॥ ६.१९.४१ ॥
那时,薄拉多之雄牛啊,国王!大地伴随巨响裂开;四面八方响起许多如雷霆般的可怕轰鸣。猛烈的尘土升起,什么也看不清了。
6.19.42
ध्वजानां धूयमानानां सहसा मातरिश्वना ।
किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः ॥ ६.१९.४२ ॥
被风骤然吹动的旗幡,系着小铃铛的网,装饰着金色花环和精美衣饰。
6.19.43
महतां सपताकानामादित्यसमतेजसाम् ।
सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ ६.१९.४३ ॥
那些持大旗、光辉如日的战车全都发出铿锵之声,仿佛棕榈林中的响动。
6.19.44
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ।
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ ६.१९.४४ ॥
如此,人中之虎、乐于战斗的般度五子,列阵迎击你儿子的军队而立。
6.19.45
ग्रसन्त इव मञ्जानो योधानां भरतर्षभ ।
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ ६.१९.४५ ॥
婆罗多族之雄啊,仿佛要吞噬战士的骨髓一般,看到怖军手持铁杵立于前方。