摩诃婆罗多 · 章 6.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.20.1
सूर्योदये सञ्जय के नु पूर्वं ।
युयुत्सवो हृष्यमाणा इवासन्।
मामका वा भीष्मनेत्राः समीपे ।
पाण्डवा वा भीमनेत्रास्तदानीम् ॥ ६.२०.१ ॥
桑贾耶,日出之时,渴望战斗的人们先前是否欢欣?那时,以毗湿摩为首的我方之人,或以怖军为首的般度之子,是否就在近旁?
6.20.2
केषां जघन्यौ समसूर्यौ सवायू ।
केषां सेनां श्वापदाश्चाभषन्त ।
केषां यूनां मुखवर्णाः प्रसन्नाः ।
सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ ६.२०.२ ॥
谁的后军如太阳般明亮,伴随着风?谁的军队中猛兽嚎叫?谁的年轻人面容欢喜?请如实地把这一切告诉我。
6.20.3
उभे सेने तुल्यमिवोपयाते ।
उभे व्यूहे हृष्टरूपे नरेन्द्र।
उभे चित्रे वनराजिप्रकाशे ।
तथैवोभे नागरथाश्वपूर्णे ॥ ६.२०.३ ॥
人主啊,两军仿佛同样地逼近。两阵都呈现欢欣的模样。两阵皆色彩斑斓,如林木成行般闪耀;同样,两军都充满了象、车与马。
6.20.4
उभे सेने बृहत्यौ भीमरूपे ।
तथैवोभे भारत दुर्विषह्ये ।
तथैवोभे स्वर्गजयाय सृष्टे ।
तथैवोभे सत्पुरुषोपजुष्टे ॥ ६.२०.४ ॥
两军都宏大而形貌可怖。婆罗多的后裔啊,同样两军都难以抵挡。同样两军都被创造来赢得天界;同样两军都为善人所亲近。
6.20.5
पश्चान्मुखाः कुरवो धार्तराष्ट्राः ।
स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः ।
दैत्येन्द्रसेनेव च कौरवाणां ।
देवेन्द्रसेनेव च पाण्डवानाम् ॥ ६.२०.५ ॥
持国之子俱卢族人面朝西方而立;普利塔之子般度族人面朝东方而立,准备战斗。俱卢族的军队如同阿修罗之王的军队,般度族的军队如同众神之王因陀罗的军队。
6.20.6
शीतो वायुः पृष्ठतः पाण्डवानां ।
धार्तराष्ट्राञ्श्वापदा व्याहरन्त ।
गजेन्द्राणां मदगन्धांश्च तीव्रा-
न्न सेहिरे तव पुत्रस्य नागाः ॥ ६.२०.६ ॥
寒风从般度之子背后吹来,猛兽对持国之子怒吼。你儿子的象群无法忍受那些大象强烈的麝香气味。
6.20.7
दुर्योधनो हस्तिनं पद्मवर्णं ।
सुवर्णकक्षं जालवन्तं प्रभिन्नम् ।
समास्थितो मध्यगतः कुरूणां ।
संस्तूयमानो बन्दिभिर्मागधैश्च ॥ ६.२०.७ ॥
难敌骑在一头莲花色、披着金饰网罩、情欲发作的大象上,身处俱卢族中央,受到乐师与颂歌者的赞美。
6.20.8
चन्द्रप्रभं श्वेतमथातपत्रं ।
सौवर्णस्रग्भ्राजति चोत्तमाङ्गे ।
तं सर्वतः शकुनिः पार्वतीयैः ।
सार्धं गान्धारैर्याति गान्धारराजः ॥ ६.२०.८ ॥
一顶如月光般明亮的白伞在他头顶闪耀,饰有金色花环。四周,乾陀罗国王沙恭尼与山地诸族和乾陀罗人一同前行。
6.20.9
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः ।
श्वेतच्छत्रः श्वेतधनुः सखङ्गः ।
श्वेतोष्णीषः पाण्डुरेण ध्वजेन ।
श्वेतैरश्वैः श्वेतशैलप्रकाशैः ॥ ६.२०.९ ॥
整个军队的前方是年迈的毗湿摩,他有白伞、白弓和宝剑;头巾洁白,旗帜苍白,他的白马如同白色的山峰般闪耀。
6.20.10
तस्य सैन्ये धार्तराष्ट्राश्च सर्वे ।
बाह्लीकानामेकदेशः शलश्च।
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धो-
स्तथा सौवीराः पञ्चनदाश्च शूराः ॥ ६.२०.१० ॥
他的军中有持国的所有儿子、一部分巴赫利卡人、沙罗、安跋世刹帝利、信度人、索维罗人,以及勇猛的五河地区人。
6.20.11
शोणैर्हयै रुक्मरथो महात्मा ।
द्रोणो धनुष्पाणिरदीनसत्वः ।
आप्तो गुरुः प्रथितः सर्वराज्ञां ।
पश्चाच्चमूमिन्द्र इवाभियाति ॥ ६.२०.११ ॥
高尚的德罗纳乘着金车,驾着红马,手持弓箭,意志坚定,是诸王信赖而著名的老师,如因陀罗一般从军后向前推进。
6.20.12
वार्धक्षत्रिः सर्वसैन्यस्य मध्ये ।
भूरिश्रवाः पुरुमित्रो जयश्च।
साल्वा मत्स्याः केकयाश्चेति सर्वे ।
गजानीकैर्भ्रातरो योत्स्यमानाः ॥ ६.२०.१२ ॥
在整个军队的中央,伐尔达克沙特利(胜车)、布利施罗婆、补鲁弥多罗与胜,以及娑利婆人、摩蹉人和迦迦耶人,诸兄弟皆率象军准备作战。
6.20.13
शारद्वतश्चोत्तरधूर्महात्मा ।
महेष्वासो गौतमश्चित्रयोधी।
शकैः किरातैर्यवनैः पह्लवैश्च ।
सार्धं चमूमुत्तरतोऽभियाति ॥ ६.२०.१३ ॥
高尚的沙罗陀婆之子(克利巴)作为北方先锋,伟大的弓手乔答摩,以及精通多种战技的勇士,与塞人、吉罗多人、希腊人和帕拉瓦人一起,从北方推进军队。
6.20.14
महारथैर्वष्णिभोजैः सुगुप्तं ।
सुराष्ट्रकैर्विदितैरात्तशस्त्रैः ।
बृहद्बलं कृतवर्माभिगुप्तं ।
बलं त्वदीयं दक्षिणेनाभियाति ॥ ६.२०.१४ ॥
由伟大的车战勇士毗瑟尼族与波闍族严密护卫,连同著名的持械苏罗湿陀迦人,你的庞大军队在Kṛtavarman守护下从南方前进。
6.20.15
संशप्तकानामयुतं रथानां ।
मृत्युर्जयो वार्जुनस्येति सृष्टाः।
येनार्जुनस्तेन राजन्कृतास्त्राः ।
प्रयातारस्ते त्रिगर्ताश्च शूराः ॥ ६.२०.१५ ॥
数以万计的三摩舍波伽战车,他们发誓说:“能胜阿周那者,便能战胜死亡”;大王啊,与能击败阿周那的人一同,你那精通武艺的特里迦尔塔勇士也在前进。
6.20.16
साग्रं शतसहस्रं तु नागानां तव भारत ।
नागेनागे रथशतं शतमश्वा रथेरथे ॥ ६.२०.१६ ॥
婆罗多啊,你的象军超过十万头:每头象配一百辆战车,每辆战车配一百匹马。
6.20.17
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः ।
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ ६.२०.१७ ॥
每匹马配十名弓箭手,每名弓箭手配一百名持盾者。婆罗多啊,就这样,毗湿摩布置了你军中的各个部队。
6.20.18
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥ ६.२०.१८ ॥
毗湿摩,即婆罗多之子,在每一个到来的战斗日都是首领,他布置了人类、神圣、乾闼婆和阿修罗的阵形。
6.20.19
महारथौघविपुलः समुद्र इव घोषवान् ।
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥ ६.२०.१९ ॥
毗湿摩所布置的持国之子的阵形,由众多大车战勇士组成,宏大如海,轰鸣如潮,在战斗中面向西方。
6.20.20
अनन्तरूपा ध्वजिनी नरेन्द्र ।
भीमा त्वदीया न तु पाण्डवानाम्।
तां चैव मन्ये बृहतीं दुष्प्रघर्षां ।
यस्या नेता केशवश्चार्जुनश्च ॥ ६.२०.२० ॥
桑闍耶说:人主啊,你的军队形态无穷而且可怖,而般度之子的军队并非如此。我认为那支由克沙婆与阿周那为统帅的军队才是浩大而难以抵挡的。