Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.22.1

ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ ६.२२.१ ॥

于是国王坚战驱动自己的军队,将其阵列布置在毗湿摩的各军团之前,婆罗多之牛啊。

6.22.2

यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाःक ।
स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः ॥ ६.२२.२ ॥

按照指定,般度五子将各军团布成对阵之阵,渴望通过光荣的战斗获得至高天界,库鲁的后裔啊。

6.22.3

मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना ।
धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः ॥ ६.२२.३ ॥

中央是尸建陀(Śikhaṇḍin)的军团,由萨维亚萨钦(阿周那)守护;德里斯塔德由在前行进,由毗摩森那守护。

6.22.4

अनीकं दक्षिणं राजन्युयुधानेन पालितम् ।
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ ६.२२.४ ॥

国王啊,右翼之军由尤由陀那(萨蒂亚奇)守护,他是萨特瓦塔中光荣的首领,如同执弓的因陀罗。

6.22.5

महेन्द्रयानप्रतिमं रथं तु ।
सोपस्करं हाटकरत्नचित्रम्।
युधिष्ठिरः काञ्चनभाण्डयोक्रं ।
समास्थितो नागबलस्य मध्ये ॥ ६.२२.५ ॥

坚战站在一辆与因陀罗之车相似的战车上,车具齐备,以金与宝石装饰,金制车辕,立于象军之中。

6.22.6

समुच्छ्रितं दन्तशलाकमस्य ।
सुपाण्डुरं छत्रमतीव भाति।
प्रदक्षिणं चैनमुपाचरन्त ।
महर्षयः संस्तुतिभिर्महेन्द्रम् ॥ ६.२२.६ ॥

他高举的极白华盖,以象牙为骨,光辉耀眼;大仙们以右绕之礼环绕他,以赞颂侍奉他,如同侍奉因陀罗。

6.22.7

पुरोहिताः शत्रुवधं वदन्तो ।
ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम् ।
जप्यैश्च मन्त्रैश्च महौषधीभिः ।
समन्ततः स्वस्त्ययनं ब्रुवन्तः ॥ ६.२२.७ ॥

家庭祭司谈论消灭敌人,闻此的梵仙和成就者则以低声诵念、神圣咒语和大药草,从四面八方诵念吉祥祝福。

6.22.8

ततः स वस्त्राणि तथैव गाश्च ।
फलानि पुष्पाणि तथैव निष्कान् ।
कुरूत्तमो ब्राह्मणसान्महात्मा ।
कुर्वन्ययौ शक्र इवामरेशः ॥ ६.२२.८ ॥

于是这位伟大的、库鲁族中最杰出的人,向婆罗门布施衣物、牛、果实、花朵和金币,像不死者之主因陀罗一样离去。

6.22.9

सहस्रसूर्यः शतकिङ्किणीकः ।
परार्ध्यजाम्बूनदहेमचित्रः।
रथोऽर्जुनस्याग्निरिवार्चिमाली ।
विभ्राजते श्वेतहयः सुचक्रः ॥ ६.२२.९ ॥

阿周那的战车,有千日之光,挂着百个小铃,以最优良的赡部金装饰,像戴着火焰花环的火一样,配着白马和精良的车轮而闪耀。

6.22.10

तमास्थितः केशवसंगृहीतं ।
कपिध्वजो गाण्डिवबाणपाणिः।
धनुर्धरो यस्य समः पृथिव्यां ।
न विद्यते नो भविता कदाचित् ॥ ६.२२.१० ॥

他乘坐那由克沙瓦执缰的战车,旗帜上有猴,手持甘提婆弓与箭;大地上我们找不到与他相等的弓手,也永远不会有。

6.22.11

उद्धर्तयिष्यंस्तव पुत्रसेना-
मतीव रौद्रं स बिभर्ति रूपम् ।
अनायुधो यः सुभुजो भुजाभ्यां ।
नराश्वनागान्युधि भस्म कुर्यात् ॥ ६.२२.११ ॥

他准备连根拔起你的儿子们的军队,呈现出极其可怖的形象;虽无武器,却凭着他那美丽的臂膀,在战斗中把人、马、象化为灰烬。

6.22.12

स भीमसेनः सहितो यमाभ्यां ।
वृकोदरो वीररथस्य गोप्ता ।
तं तत्र सिंहर्षभमत्तखेलं ।
लोके महेन्द्रप्रतिमानकल्पम् ॥ ६.२२.१२ ॥

彼为毗摩森那,与双生的两位阎摩同在,乃英雄战车手的护卫狼腹(Vṛkodara)。他在那里如狮、如公牛、如狂象般嬉戏,在世间与因陀罗相似。

6.22.13

समीक्ष्य सेनाग्रगतं दुरासदं ।
संविव्यथुः पङ्कगता यथा द्विपाः ।
वृकोदरं वारणाजदर्पं ।
योधास्त्वदीया भयविग्नसत्त्वाः ॥ ६.२२.१३ ॥

见狼腹立于军阵前列,难以逼近,你的战士们如陷泥中的象一般痛苦不安;见那如象般傲慢的狼腹,他们的心因恐惧而颤抖。

6.22.14

अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् ।
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ ६.२२.१४ ॥

遍入天(Janārdana)对站在军阵中央、难以接近的王子,对婆罗多中最优秀的古达克舍(Guḍākeśa)说道。

6.22.15

य एष रोषात्प्रतपन्बलस्थो ।
यो नः सेनां सिंह इवेक्षते च।
स एष भीष्मः कुरुवंशकेतु-
र्येनाहृतास्त्रिशतं वाजिमेधाः ॥ ६.२२.१५ ॥

此人怒火炽烈,立于力量之中,如狮子般望着我军,他便是俱卢族之旗帜毗湿摩,曾举行三百次马祭。

6.22.16

एतान्यनीकानि महानुभावं ।
गूहन्ति मेघा इव रश्मिमन्तम्।
एतानि हत्वा पुरुषप्रवीर ।
काङ्क्षस्व युद्धं भरतर्षभेण ॥ ६.२२.१६ ॥

如云遮蔽有光的太阳,这些军队遮蔽着那位大威力者。英雄中的至上者啊,击杀它们之后,便去渴望与婆罗多之牛(毗湿摩)交战吧。