Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.32.1

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम् ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ६.३२.१ ॥

至上人啊!那梵是什么?自我(adhyātma)是什么?业是什么?所谓增益万物者(adhibhūta)被说为何物,所谓增益神明者(adhidaiva)又被称为何物?

6.32.2

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसीदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ६.३२.२ ॥

摩图苏陀罗啊!在此身中,谁是祭祀之主(adhiyajña),他是怎样的?在临终之时,自制之人如何认识你?

6.32.3

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ६.३२.३ ॥

不灭者即是至上之梵。自性被称为自我(adhyātma)。能使众生生起与存在的施放(visarga),名为业(karma)。

6.32.4

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ६.३२.४ ॥

可灭之境即是增益万物者(adhibhūta),补特伽罗(puruṣa)即是增益神明者(adhidaiva)。具身者中最殊胜的人啊!在此身中,我自己就是祭祀之主(adhiyajña)。

6.32.5

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ६.३२.५ ॥

若在临终之时唯念我而舍弃身体而去,此人便得到我的境界。此中毫无疑问。

6.32.6

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६.३२.६ ॥

贡蒂之子啊!人在临终舍弃身体时所忆念的任何境界,他便前往那一境界,因为他一向专注于那个境界。

6.32.7

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ६.३२.७ ॥

因此,任何时候都要忆念我,并且战斗。将心意与智慧奉献于我,你必无疑地来到我这里。

6.32.8

अभ्यासयोगयुक्तेन चेतसाऽनान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ६.३२.८ ॥

以修习瑜伽所统一的心,不向他处游移,并不断思念,阿周那啊,人便能到达那至高的神圣补鲁沙。

6.32.9

कविं पुराणमनुशासितार-
मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् ॥ ६.३२.९ ॥

凡忆念那位诗人、古老者、统治者、比最小的原子更微小、一切的持有者、形相不可思议、如太阳般光辉、超越黑暗的存在者的人。

6.32.10

प्रयाणकाले मनसाऽचलेन ।
भक्त्या युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्य-
क्स तं परं पुरुषमुपैति दिव्यम् ॥ ६.३२.१० ॥

临终之际,以不动之心,依虔敬与瑜伽之力相结合,将生命气息妥善安置于两眉之间,他便抵达那至高的神圣补鲁沙。

6.32.11

यदक्षरं वेदविदो वदन्ति ।
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति ।
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ६.३२.११ ॥

吠陀的知者称为不灭者,离欲的苦行者所入之处,渴望之而修持梵行者,那个境界我将为你简要宣说。

6.32.12

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणां ॥ ६.३२.१२ ॥

制约一切感官之门,将心收摄于心中,将自己的生气安置于头顶,安住于瑜伽的专注之中。

6.32.13

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्दें स याति परमां गतिम् ॥ ६.३२.१३ ॥

若有人诵念唯一音节"唵"即梵,并忆念我,舍弃身体而去,他便抵达至高之境。

6.32.14

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ६.३२.१४ ॥

对于心无旁骛、日日不断忆念我的瑜伽行者,普利塔之子啊,我是容易获得的,因为他常住于瑜伽。

6.32.15

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ६.३२.१५ ॥

大士们一旦来到我这里,便不再获得那充满苦难、无常的轮回;他们已达到至高的圆满。

6.32.16

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ६.३२.१६ ॥

从梵界以下的诸世界都会重新轮回,阿周那啊;但是,俱卢之子啊,一旦来到我这里,便没有再生。

6.32.17

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥ ६.३२.१७ ॥

通晓昼夜的人知道,梵天的一日延续千个时代,其夜同样长达千个时代。

6.32.18

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यामे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ६.३२.१८ ॥

白昼来临时,一切显现之物都从未显现者中生起;黑夜来临时,它们便消融于那名为未显现者之中。

6.32.19

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यगमेऽवशः पार्थत प्रभवत्यहरागमे ॥ ६.३२.१९ ॥

帕尔塔啊,这同一群生灵反复生起,在夜晚来临时身不由己地消散,又在白昼来临时重新出现。

6.32.20

परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषुक नश्यत्सु न विनश्यति ॥ ६.३२.२० ॥

然而在那未显之上,另有一种永恒的存在,它既非显现,亦非未显;当一切生灵灭尽时,它也不会灭亡。

6.32.21

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ६.३२.२१ ॥

它被称为未显与不灭;人们说它是至高的归宿,到达它的人不再返回;那是我的至高居所。

6.32.22

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ ६.३२.२२ ॥

帕尔塔啊,那至高的神我唯有通过专一的虔诚才能获得;一切众生都安住于他之内,而这一切都被他所遍满。

6.32.23

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ६.३२.२३ ॥

婆罗多的雄牛啊,我将告诉你,在哪个时候离去的瑜伽行者不再返回,在哪个时候他们会返回。

6.32.24

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ६.३२.२४ ॥

火、光明、白昼、白半月、太阳北行的六个月——由此道离去的梵智者,便抵达梵。

6.32.25

धूमो रात्रिस्तथा कृष्णः षण्मसा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ६.३२.२५ ॥

烟、夜,同样还有黑半月和太阳南行的六个月;瑜伽士在那里获得月光之后便返回。

6.32.26

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ ६.३२.२६ ॥

明与暗这两条道路,被认为是世界永恒的途径:一条通向不再返回,另一条则使人再度返回。

6.32.27

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ६.३२.२७ ॥

Pṛthā之子啊,凡知晓此二途的瑜伽士,没有谁会迷惑。所以,阿周那,你应当在一切时候都与瑜伽相应。

6.32.28

वेदेषु यज्ञेषु तपःसु चैव ।
दानेषु यत्पुण्यफलं प्रदिष्टम्।
अत्येति तत्सर्वमिदं विदित्वा ।
योगी परं स्थानमुपैति चाद्यम् ॥ ६.३२.२८ ॥

吠陀、祭祀、苦行与布施中所宣说的功德果报,瑜伽士知晓此理之后,超越这一切,达到至上、本初之境。