Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.33.1

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ६.३३.१ ॥

我将向你这不嫉妒者宣说这最秘密的知识及其证悟;知晓它,你将脱离恶。

6.33.2

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ६.३३.२ ॥

这是王者之学、王者之秘,清净而至上;可直接领悟,合于法,极易修行,且不坏灭。

6.33.3

अश्रद्दधानां पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ६.३३.३ ॥

降伏敌人者啊,那些对此法缺乏信心的人,不能证得我,便又回到死亡与轮回的路上。

6.33.4

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितःक ॥ ६.३३.४ ॥

以我无形之体,这整个世界都被遍布;一切众生皆住于我中,而我并不住于其中。

6.33.5

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ६.३३.५ ॥

众生并不住于我中——请看我的主宰之瑜伽。维持众生、使众生产生的我的自我,并不住于众生之中。

6.33.6

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६.३३.६ ॥

正如那无所不往的大风,常住于虚空之中,一切众生也同样住于我中——你应当这样了解。

6.33.7

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ६.३३.७ ॥

俱蘇提之子啊!劫末时,一切众生归入我的本性;劫初时,我又将它们再次放出。

6.33.8

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ६.३३.८ ॥

依托我自己的本性,我一再放出这整个众生群体;它在自然的力量之下无能为力。

6.33.9

न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ६.३३.९ ॥

达南迦耶啊,那些业不束缚我;我如同漠然者安住,于那些行为无所执着。

6.33.10

मयाऽऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ ६.३३.१० ॥

在我的监督之下,自然产生动与静的万物;俱蘇提之子啊,因此世界不停地运转。

6.33.11

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ६.३३.११ ॥

愚昧者在我取了人身时轻视我,不知我之至高本性乃众生之大自在者。

6.33.12

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ६.३३.१२ ॥

希望落空、行为落空、知识落空、心志迷乱的人,皈依罗刹与阿修罗式的迷惑之本性。

6.33.13

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ६.३३.१३ ॥

阿周那啊,那些依托神圣本性的伟大灵魂,以专一之心崇拜我,因为他们知道我是万物的根源,是不灭者。

6.33.14

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ६.३३.१४ ॥

他们不断赞颂我,精进努力,坚守誓愿,以虔诚礼敬我,常年专注,崇拜我。

6.33.15

ज्ञानयज्ञेन चाप्यन्ते यजन्तो मामुपासते ।
एकत्वेन पृथक्त्कवेन बहुधा विश्वतोमुम् ॥ ६.३३.१५ ॥

另有人以智慧祭祀,将我视为一体、分立,并以多种方式崇拜我,我的面容遍向一切方向。

6.33.16

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ६.३३.१६ ॥

我是祭仪,我是祭祀,我是献给祖先的供物,我是草药;我是咒语,我是酥油,我是火,我也是祭品。

6.33.17

पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च ॥ ६.३३.१७ ॥

我是这世界的父、母、持者与祖父;我是可知者、清净者、唵字、梨俱、娑摩与夜柔。

6.33.18

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ६.३३.१८ ॥

我是归宿、支持者、主宰、见证者、居所、庇护与朋友;我是生起、灭尽、所依、宝藏与不灭的种子。

6.33.19

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ६.३३.१९ ॥

我施放热力;我止住雨水,又释放雨水。阿周那啊,不死与死亡、有与无,都是我。

6.33.20

त्रैविद्या मां सोमपाः पूतपापा ।
यज्ञेरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्रन्ति दिव्यान्दिवि देवभोगान् ॥ ६.३३.२० ॥

通晓三吠陀、饮用苏摩、洗净罪恶的人,以祭祀供奉我,祈求通往天界之路。他们获得功德后到达因陀罗之界,在天上享受诸神的神圣乐事。

6.33.21

ते तं भुक्त्वा स्वर्गलोकं विशालं ।
क्षीणो पुण्ये पर्त्यलोकं विशन्ति।
एवं त्रयीधर्ममनुप्रपन्ना ।
गतागतं कामकामा लभन्ते ॥ ६.३३.२१ ॥

享受过那广大的天界之后,功德耗尽,便进入凡人世界。如此,遵循三吠陀之法、追求欲望的人,便获得往来轮回。

6.33.22

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ६.३३.२२ ॥

那些不分心地思念我、崇拜我、常常与我相应的人,我为他们承担所得与守护。

6.33.23

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ६.३३.२३ ॥

即使那些信奉其他神祇、怀着信心向他们献祭的人,阿周那啊,他们也是在崇拜我,只是不依照规则。

6.33.24

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ६.३३.२४ ॥

我确实是一切祭祀的享受者和主宰;然而他们并不如实地认识我,因此他们坠落了。

6.33.25

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् ॥ ६.३३.२५ ॥

敬奉诸神者归于诸神,敬奉祖先者归于祖先,敬奉众生者归于众生,而祭祀我的人,也归于我。

6.33.26

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ६.३३.२६ ॥

凡以虔诚献给我一片叶、一朵花、一枚果或一捧水的人,我便接受那心地清净者以虔诚所献之物。

6.33.27

यत्करोषि यदश्रासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ६.३३.२७ ॥

无论你做什么、吃什么、向火中供奉什么、布施什么、修什么苦行,俱之于我而作,孔提之子啊。

6.33.28

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ६.३३.२८ ॥

如此,你将脱离那带来善恶果报的业缚;心与舍离瑜伽相合,得解脱后,你将来到我这里。

6.33.29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ६.३३.२९ ॥

我对一切众生平等,对我而言无可憎者,亦无可爱者。然而那以虔诚敬奉我的人在我之中,我也在他们之中。

6.33.30

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ६.३३.३० ॥

即便行为极为恶劣之人,若专一地敬奉我,也应当被视为善人,因为他已正确地立定了志向。

6.33.31

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति । ॥ ६.३३.३१ ॥

他很快成为正义之人,并永远获得平安。昆提之子啊,你要确知:我的虔信者不会毁灭。

6.33.32

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिं ॥ ६.३३.३२ ॥

普利塔之子啊,即使出身罪恶,依靠于我的人——妇女、商人和仆人——也能达到至高的归宿。

6.33.33

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ६.३३.३३ ॥

更何况那些清净的婆罗门和作为我信徒的王仙呢!既然得到了这无常而无乐的世界,你就应当侍奉我。

6.33.34

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ६.३३.३४ ॥

将你的心专注于我,成为我的信徒,向我献祭,向我礼拜。这样使你的自我与我相合,以我为至高归依,你必定来到我这里。