摩诃婆罗多 · 章 6.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.40.1
अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ ६.४०.१ ॥
无畏,本性清净,安住于知识瑜伽,布施,克制自己,祭祀,研习经典,苦行,正直。
6.40.2
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ ६.४०.२ ॥
不伤害,诚实,不愤怒,舍弃,平静,不诽谤,对众生怀慈悲,不贪婪,温和,知耻,不轻浮。
6.40.3
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥ ६.४०.३ ॥
光辉、宽恕、坚忍、清净、无恶意、不过度骄傲——婆罗多啊,这些是生而具足者的神圣财富。
6.40.4
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ ६.४०.४ ॥
虚伪、傲慢、自负、愤怒、粗暴与无知——般度之子啊,这些是生而具足者的阿修罗财富。
6.40.5
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥ ६.४०.५ ॥
神圣财富被认为导向解脱,阿修罗财富导向束缚。般度之子啊,不要忧伤——你是生而具足神圣财富的人。
6.40.6
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६.४०.६ ॥
世间的众生之创造有两类:神圣的与阿修罗的。神圣的已经详细说明;般度之子啊,请从我这里听阿修罗的。
6.40.7
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ६.४०.७ ॥
阿修罗之人不知进取与止息;其中既无清净,也无正行,更无真实。
6.40.8
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ ६.४०.८ ॥
他们说世界虚妄、无根基、无主宰,由相互而生;此外还有什么?它完全由欲望所致。
6.40.9
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ६.४०.९ ॥
执持此见,丧失自我、见识短浅、行事残暴、与世为敌的人,便为世界的毁灭而强盛起来。
6.40.10
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ ६.४०.१० ॥
依托难以满足的欲望,充满伪善、傲慢与骄狂,因迷惑而执持虚妄之见,以不净的誓愿行事。
6.40.11
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ६.४०.११ ॥
依托无量的忧虑,直至死亡方休;一心追求欲望的享受,便断定“不过如此”。
6.40.12
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्तो कामभोगार्थमन्यायेनार्थसंचयान् ॥ ६.४०.१२ ॥
被无数希望的绳索所缚,沉溺于欲望与愤怒,为享受欲望而不义地积聚财富。
6.40.13
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ ६.४०.१३ ॥
今日我得到了此物;此愿望我也将实现。此物已在我手,此财富也将再次归我。
6.40.14
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ ६.४०.१४ ॥
那个敌人已被我杀死,其他人我也将杀死。我是主宰,我是享受者,我是成就者,我是强者,我是快乐者。
6.40.15
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ ६.४०.१५ ॥
我富有且出身高贵;还有谁能与我相比?我将祭祀,将布施,将欢喜——如此被无知迷惑的人。
6.40.16
अनेकचित्तविभ्रान्त मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ ६.४०.१६ ॥
被众多心念迷乱,为迷惑之网所笼罩,执着于欲望享受,他们堕入不净的地狱。
6.40.17
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ ६.४०.१७ ॥
自负、傲慢,充满财富与名望之醉意的人,只以虚名行祭——出于虚伪,而非依照仪轨。
6.40.18
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ ६.४०.१८ ॥
依凭我慢、力量、骄傲、欲望与愤怒,憎恨住在自身与他人身体中的我,并心怀嫉妒。
6.40.19
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ६.४०.१९ ॥
我总是将那些憎恨他人、残忍、在轮回中最卑劣的人,投入不吉祥的阿修罗胎中。
6.40.20
आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ६.४०.२० ॥
迷妄者堕入阿修罗胎,生生世世不能达到我,贡蒂之子啊,然后便走向最低的道路。
6.40.21
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ ६.४०.२१ ॥
地狱的这三重门毁灭自我:欲望、愤怒与贪婪。因此应当舍弃这三者。
6.40.22
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ ६.४०.२२ ॥
贡蒂之子啊,脱离这三重黑暗之门的人,修行对自我有益之事,然后便达到最高的道路。
6.40.23
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ ६.४०.२३ ॥
若舍弃经典的规定,随欲望而行,便既不得成就,也不得幸福,更不得至高之道。
6.40.24
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ ६.४०.२४ ॥
因此,在决定何者应为、何者不应为时,经典应是你的依据。知道经典规定的行为之后,你应当在此践行它。