Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.43.1

गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः ।
या स्वयं पद्मनाभस्य सुखपद्माद्विनिःसृता ॥ ६.४३.१ ॥

善诵《薄伽梵歌》即已足够,何必他种经典汇编?它正是由莲花妙口的毗湿奴(Padmanābha)亲口宣说。

6.43.2

सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः ।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः ॥ ६.४३.२ ॥

《薄伽梵歌》包含一切经典;哈里(Hari)包含一切神灵;恒河包含一切圣渡口;摩奴包含一切神灵。

6.43.3

गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते ।
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥ ६.४३.३ ॥

若心中安住《薄伽梵歌》、恒河、《加亚特利》以及由四个“ga”音组成的“哥文达”之名,便不再有轮回。

6.43.4

षट्शतानि सविंशानि श्लोकानां प्राह केशवः ।
अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः ॥ ६.४३.४ ॥

克舍婆说了六百二十颂,阿周那说了五十七颂,桑贾耶说了六十七颂。

6.43.5

धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते ।
भारतामृतसर्वस्वगीताया मथितस्य च।
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ॥ ६.४३.५ ॥

持国说一颂即是《薄伽梵歌》的标准。克里希那搅动《薄伽梵歌》——这部摩诃婆罗多的甘露精华,抽取其精要,注入阿周那的口中。

6.43.6

ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।
पुनरेव महानादं व्यसृजन्त महारथाःक ॥ ६.४३.६ ॥

此时,望见手持箭矢与甘提婆弓的阿周那,诸大战车武士再次发出巨大的吼声。

6.43.7

पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥ ६.४३.७ ॥

般度之子与索摩迦人,以及追随他们的勇士,欢喜地吹响了生于大海的海螺。

6.43.8

ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ ६.४३.८ ॥

随即,鼓、潘纳瓦鼓、克拉恰锯与牛角号骤然响起,于是大声喧起。

6.43.9

तथा देवाः सगन्धर्वाः पितरश्च जनाधिप ।
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ॥ ६.४३.९ ॥

同样,人主啊,诸天与乾达婆、祖灵,以及悉陀与遮罗那的众群,都为了观看而聚集在那里。

6.43.10

ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।
समीयुस्तत्र सहिता द्रुष्टुं तद्वैशसं महत् ॥ ६.४३.१० ॥

诸位大福的仙人也推举百祭主因陀罗居前,共聚于此,要目睹那场大屠杀。

6.43.11

ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् ।
गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम् ॥ ६.४३.११ ॥

那两支军队在阵列中静止不动,彼此相视,宛如恒河与阎牟那河的水流相会而凝住。

6.43.12

एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि ।
चित्रे पट इवालेख्ये दर्शनीयतरे शुभे ॥ ६.४३.१२ ॥

如此,那两支军队在人群之中寂然不动,宛如画在图布上,极其值得观看,且庄严美好。

6.43.13

ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते ।
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप ॥ ६.४३.१३ ॥

那时,坚战看见两支已为战斗布阵的大军,如同大海,一再燃烧,啊,国王:

6.43.14

विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।
अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः ॥ ६.४३.१४ ॥

英雄脱下铠甲,放下精良的武器,迅速从战车下来,合掌徒步前行。

6.43.15

पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः ।
वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम् ॥ ६.४३.१५ ॥

坚战注视着祖父,法王沉稳地保持沉默,面向东方,朝敌军走去。

6.43.16

तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः ।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ ६.४३.१६ ॥

看到他前行,贡蒂之子阿周那迅速从战车下来,与兄弟们一同跟随在他身后。

6.43.17

वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् ।
तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ॥ ६.४३.१७ ॥

世尊婆苏提婆也在他身后跟随,同样,诸位主要国王心念系于他身,急切地前往。

6.43.18

किं ते व्यवसितं राजन्यदस्मानपहाय वै ।
प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ ६.४३.१८ ॥

啊,国王,您这是什么决定?抛下我们,徒步面向东方,朝敌军而去?

6.43.19

क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः ।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥ ६.४३.१९ ॥

王中之王啊,你放下铠甲与武器,在披甲的敌军之中抛下兄弟,将去往何处?

6.43.20

एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत ।
भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥ ६.४३.२० ॥

婆罗多啊,我的兄长,你这样离去,我的心为毗摩而痛苦。请告诉我,你将去往何处?

6.43.21

अस्मिन्रणसमूहे वै वर्तमाने महाभये ।
उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ ६.४३.२१ ॥

在这战阵之中大难临头之际,国王啊,你背对此地、面向敌人,将去往何处?

6.43.22

एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः ।
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ॥ ६.४३.२२ ॥

虽然兄弟们如此呼唤,俱卢之喜的坚战仍克制言语,什么也没说,继续前行。

6.43.23

तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ ६.४३.२३ ॥

极其智慧、胸怀宽广的婆苏提婆仿佛带着笑意对他们说:“我已明白他的意图。”

6.43.24

एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च ।
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ ६.४३.२४ ॥

这位国王向毗湿摩、德罗纳、乔达摩、沙利耶以及所有长者告别之后,将与敌人作战。

6.43.25

श्रूयते हि पुराकल्पे गुरूनननुमान्य यः ।
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ ६.४३.२५ ॥

据闻古时,不征得长辈许可而参战者,必为尊长所诅咒。

6.43.26

अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ ६.४३.२६ ॥

我认为,依照经典征得尊长许可而参战者,在战争中必定获胜。

6.43.27

एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति ।
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ ६.४३.२७ ॥

克里希那如此说时,向持国之子的军队传来一片巨大的哀号,其他人则寂然无声。

6.43.28

दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।
मिथः संकथयांचक्रुरेषो हि कुलपांसनः ॥ ६.४३.२८ ॥

远远望见坚战,持国之子的士兵们彼此议论道:“这正是玷污家族之人。”

6.43.29

व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् ।
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ ६.४३.२९ ॥

显然,国王坚战仿佛心怀恐惧,与兄弟们一同走近毗湿摩,寻求庇护。

6.43.30

धनञ्जये कथं नाथे पाण्डवे च वृकोदरे ।
नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ॥ ६.४३.३० ॥

既有阿周那、怖狼、无种、偕天这些保护者,为何恐惧竟降临到般度之子身上?

6.43.31

न नूनं क्षत्रियकुले जातः संप्रथिते भुवि ।
यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे ॥ ६.४३.३१ ॥

诚然,在大地上显赫的刹帝利族中,没有人生来如他这般在战斗中心怀恐惧、气力微弱。

6.43.32

ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् ।
हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह ॥ ६.४३.३२ ॥

于是那些士兵都赞美俱卢族,心中欢喜,挥动着衣裳。

6.43.33

व्यनिन्दंश्च तथा सर्वे योधास्तव विशांपते ।
युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि ॥ ६.४३.३३ ॥

君主啊,你的所有战士也一同辱骂了坚战,连同他的兄弟和克舍婆。

6.43.34

ततस्तत्कौरवं सैन्यं धिक्वृत्वा तु युधिष्ठिरम् ।
निःशब्दमभवत्तूर्णं पुनरेव विशांपते ॥ ६.४३.३४ ॥

于是,那俱卢军队辱骂坚战之后,很快又重归寂静,君主啊。

6.43.35

किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति ।
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ ६.४३.३५ ॥

“那位君王将说什么?毗湿摩将如何回答?在战场上自负的怖军会说什么?黑天与阿周那又会说什么?”——他们这样思忖着。

6.43.36

विवक्षितं किमस्येति संशयः सुमहानभूत् ।
उभयो सेनयो राजन्युधिष्ठिरकृते तदा ॥ ६.४३.३६ ॥

“他想说什么?”——于是产生了极大的疑虑。君主啊,那时两军之中,因为坚战之故,都有这样巨大的疑惑。

6.43.37

सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।
भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः ॥ ६.४३.३७ ॥

他深入充满箭矢与长矛的敌军之中,被兄弟们簇拥着,迅速来到毗湿摩面前。

6.43.38

तमुवाच ततः पादौ कारभ्यां पीड्य पाण्डवः ।
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ॥ ६.४३.३८ ॥

于是般度王用双手按住他的双足,对准备应战的檀奴之子毗湿摩说道。

6.43.39

आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह ।
अनजानीहि मां तात आशिषश्च प्रयोजय ॥ ६.४३.३९ ॥

无敌者啊,我请求您的允许;我们将与您一同作战。亲爱的,请允许我并赐予祝福。

6.43.40

यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते ।
शपेयं त्वां महाराज परीभावाय भारत ॥ ६.४३.४० ॥

若你不这样在战场上来到我面前,大地之主啊,我就会诅咒你,伟大的国王,使你战败,婆罗多之后裔啊。

6.43.41

प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥ ६.४३.४१ ॥

孩子,我很欣慰;般度之子啊,去作战并赢得胜利。你所渴望的其他一切,也在战斗中获得吧。

6.43.42

व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।
एवं गते महाराज न तवास्ति पराजयः ॥ ६.४३.४२ ॥

普利塔之子啊,选择一个恩赐吧;你想从我们这里得到什么?伟大的国王,既然如此,你就不会战败。

6.43.43

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ ६.४३.४३ ॥

人是财富的仆人;他确是仆人,而财富不是任何人的仆人。大王啊,这是真理:我因财富而受缚于俱卢族。

6.43.44

अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।
भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ ६.४३.४४ ॥

因此,俱卢之喜啊,我像对待懦弱之人那样对你说话。俱卢族之子啊,我是靠财富供养的;除了战斗,你还想要什么?

6.43.45

मन्त्रयस्व महाबाहो हितैषी मम नित्यशः ।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ ६.४३.४५ ॥

大力臂的人啊,你总是希望我好,请给我指点。为俱卢族之子而战——这是我始终的愿望。

6.43.46

राजन्किमत्र साह्यं ते करोमि कुरुनन्दन ।
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ ६.४३.४६ ॥

大王啊,我在此能为你做什么,俱卢之喜啊?我愿为他方而战;把你想说的话说出来吧。

6.43.47

कथं जयेयं संग्रामे भवन्तमपराजितम् ।
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ ६.४३.४७ ॥

在战场上,我如何能胜过你这位不可战胜者?如果你看见了善,就把这有益之事教导我吧。

6.43.48

नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे ।
विजयेत पुमान्कश्तित्साक्षादपि शतक्रतुः ॥ ६.४३.४८ ॥

孔蒂之子啊,我看不到任何人能在战场上与我交战而战胜我——即便是百祭之主因陀罗本人也不能。

6.43.49

हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते ।
वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥ ६.४३.४९ ॥

那么,祖父,我请教您;向您致敬。请您亲自告诉我,在战场上敌人杀死我们的方法是什么。

6.43.50

न स्म तं तात पश्यामि समरे यो जयेत माम् ।
न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ॥ ६.४३.५० ॥

亲爱的孩子,我在战场上看不到能战胜我的人。我的死期也尚未到来;你再回来吧。

6.43.51

ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन ।
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ ६.४३.५१ ॥

于是,库鲁之喜啊,坚战俯首领受了毗湿摩的话,并再次向他行礼。

6.43.52

प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति ।
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ ६.४३.५२ ॥

大臂者再次走向师尊的战车,众军皆看着,穿过中间,与兄弟们同行。

6.43.53

स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ ६.४३.५३ ॥

那位国王向德罗纳行礼,然后绕行致敬,对这位难以战胜的人说出关于自身福祉的话。

6.43.54

आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः ।
कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज ॥ ६.४३.५४ ॥

尊贵的大人,我向您告别;我将无罪地作战。婆罗门啊,承蒙您的允许,我如何才能战胜所有的敌人?

6.43.55

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज परीभावाय सर्वशः ॥ ६.४३.५५ ॥

大王,若你不是决心作战而来见我,我本会诅咒你全面溃败。

6.43.56

तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ ।
अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ ६.४३.५६ ॥

因此,无垢的般遮罗之子坚战啊,我很欣慰,你也尊敬了我。我允许你:去战斗,获得胜利吧。

6.43.57

करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् ।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ ६.४३.५७ ॥

我会满足你的愿望;说出你所想要的吧。大王,既已如此,你除了战斗还想要什么?

6.43.58

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक ॥ ६.४३.५८ ॥

人是财富的奴隶,而财富不是任何人的奴隶——大王,这就是真理。我因财富而被束缚于俱卢人。

6.43.59

ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ।
योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ॥ ६.४३.५९ ॥

我这样对你说,仿佛你是懦夫:除了战斗,你还想要什么?我将为俱卢人而战;你可以期待我为你带来胜利。

6.43.60

जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् ।
युध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥ ६.४३.६० ॥

婆罗门啊,请为我祝愿胜利,为我的利益出谋划策;为俱卢人而战——这就是我所选择的恩惠。

6.43.61

ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव ।
अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि ॥ ६.४३.६१ ॥

大王,胜利必定属于你,因为你的谋臣便是哈里(黑天)。我了解你,你将在战场上战胜敌人。

6.43.62

यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ ६.४३.६२ ॥

哪里有法(dharma),哪里就有黑天;哪里有黑天,哪里就有胜利。俱卢之子啊,作战吧,前进吧。你且问我,我该对你说什么。

6.43.63

पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम् ।
कथं जयेयं संग्रामे भवन्तमपराजितम् ॥ ६.४३.६३ ॥

婆罗门中最优秀的人啊,我请问你;请听我心中所愿。在战场上,你是不可战胜的,我如何才能战胜你?

6.43.64

न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे ।
ममाशु निधने राजन्यतस्व सह सदरैः ॥ ६.४३.६४ ॥

只要我还在战场上作战,你便没有胜利。大王,若我的死亡迅速降临,那时你便会与兄弟们一同获胜。

6.43.65

हन्त तस्मान्महाबाहो वधोपायं वदात्मनः ।
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ ६.४३.६५ ॥

因此,大力者啊,请告诉我,你可以被杀死的方法。我向老师俯首致敬,问你:愿你安好。

6.43.66

न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम् ।
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ ६.४३.६६ ॥

孩子啊,我看不到有谁能杀死我——我站在战车上,怒火中烧地作战,箭如暴雨般倾泻。

6.43.67

ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् ।
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते । ॥ ६.४३.६७ ॥

国王啊,战场上的战士中,除了那濒临死亡、放下武器、失去知觉的人,没有谁能杀我;这是我对你说的真话。

6.43.68

शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम् ।
श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते ॥ ६.४३.६८ ॥

只有当我从某人口中听到这句极不悦耳的话时,我才会在战场上放下武器;凭着值得信任的言辞,一个人如实对你说了这话。

6.43.69

एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः ।
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ ६.४३.६९ ॥

大王啊,他听了智者婆罗堕遮(德罗纳)的这番话,向那位师长辞别后,便朝着沙radvata(克里巴)走去。

6.43.70

सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।
उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ॥ ६.४३.७० ॥

那位国王恭敬地向克里巴致礼,并右绕他行礼,作为善辩者中最优秀的人,说出了这句最难抵挡的话。

6.43.71

अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः ।
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ ॥ ६.४३.७१ ॥

老师啊,我请求您的许可;我将无罪地作战。无瑕者啊,得到您的允许,我将战胜所有敌人。

6.43.72

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज परीभावाय सर्वशः ॥ ६.४३.७२ ॥

如果你不是下定决心来战斗而来到我这里,大王啊,我就会诅咒你在各方面都失败。

6.43.73

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः । ॥ ६.४३.७३ ॥

人是财富的奴隶,财富却不是任何人的奴隶。大王,这是真的:我被考拉瓦的财富所束缚。

6.43.74

तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।
अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत्किमिच्छसि ॥ ६.४३.७४ ॥

大王,我的看法是应当为他们而战。因此我像对待宦官一样对你说:除了战斗,你还想要什么?

6.43.75

हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः ।
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ॥ ६.४३.७५ ॥

唉,我问你:所以,老师,请听我的话。说完这些,悲痛的国王失去了知觉,不再说话。

6.43.76

तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ।
अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि ॥ ६.४३.७६ ॥

高陶摩(克里帕)明白了他的意图,回答他说:大地之主,我是不可被杀的;去战斗,获得胜利吧。

6.43.77

प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप ।
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ ६.४३.७७ ॥

人主啊,因为你的到来我很高兴;我起身,常为你的胜利祝福。这是真的,我对你说的正是这些。

6.43.78

एतच्छ्रुत्वा महाराज गौतमस्य विशांपते ।
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥ ६.४३.७८ ॥

大王,民之主啊,听了高陶摩的这番话,向克里帕告别后,国王便前往摩德罗王所在之处。

6.43.79

स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ ६.४३.७९ ॥

他向沙利耶致敬并右绕之后,国王为了自身的至善,对这位难以战胜者说出了这些话。

6.43.80

अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः ।
जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून् ॥ ६.४३.८० ॥

难以战胜者啊,我请求您的许可。我将无罪地作战。国王啊,在您的允许下,我将击败敌人。

6.43.81

यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज परीभावाय वै रणे ॥ ६.४३.८१ ॥

若你下定决心参战却不来寻我,大王啊,我便会诅咒你在战斗中失败。

6.43.82

तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते ।
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥ ६.४३.८२ ॥

我感到欣慰且受到尊重;愿你所求如愿。我准许你。去作战,获得胜利吧。

6.43.83

ब्रूहि चैष परं वीर केनार्थः किं ददामि ते ।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ ६.४३.८३ ॥

说吧,英雄:还有别的吗?我该给你什么?既然如此,大王啊,除了战斗,你还想要什么?

6.43.84

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ॥ ६.४३.८४ ॥

人是财富的奴隶,而财富不是任何人的奴隶。大王啊,这就是真理;我为库鲁族的财富所束缚。

6.43.85

करिष्यामि हि ते कामं भागिनेय यथेप्सितम् ।
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥ ६.४३.८५ ॥

外甥啊,我会照你的心愿去做。但我要对你说:除了战斗,你还想要什么?这简直像个阉人。

6.43.86

मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् ।
कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ॥ ६.४३.८६ ॥

大王啊,请时常为我的福祉给出最好的建议。依你所愿,为他人之事而战吧——这便是我所选择的恩赐。

6.43.87

किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम ।
कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ॥ ६.४३.८७ ॥

诸王之最,请告诉我你在此需要什么帮助,我会去做。我愿为他人之事而战,因为我因财富而受制于俱卢族。

6.43.88

स एव मे वरः शल्य उद्योगे यस्त्वया कृतः ।
सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ॥ ६.४३.८८ ॥

沙利耶啊,你在备战时所许下的诺言,便是我的恩赐:在战斗中你必须摧毁御者之子的光辉。

6.43.89

संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् ।
गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव ॥ ६.४३.८९ ॥

贡蒂之子啊,你的这个心愿必将如你所愿地实现。去吧,安心地战斗;我保证实现你的话。

6.43.90

अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् ।
निर्जगाम महासैन्याद्भ्रतृभिः परिवारितः ॥ ६.४३.९० ॥

于是贡蒂之子向他的舅舅、摩德罗王告辞,在诸兄弟的簇拥下走出了那支大军。

6.43.91

वासुदेवस्तु राधेयमाहवेऽभिजगाम वै ।
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ ६.४३.९१ ॥

婆苏提婆在战场上走向罗陀之子。随后,伽达的长兄为了般度五子对他说道。

6.43.92

श्रुतं मे कर्ण भीष्मस्य द्वोषात्किल न योत्स्यसे ।
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ ६.४३.९२ ॥

迦尔纳,我听说你因憎恨毗湿摩而不愿作战。罗陀之子啊,在毗湿摩被杀之前,请选择我们。

6.43.93

हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् ।
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ ६.४३.९३ ॥

毗湿摩被杀之后,罗陀之子啊,如果你认为应当协助持国之子,你将再次投入战斗。

6.43.94

न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव ।
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥ ६.४३.९४ ॥

啊,羯舍婆,我不会做令持国之子不快的事。请知道我已舍弃性命,一心为难敌谋求福祉。

6.43.95

तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत ।
युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः ॥ ६.४३.९५ ॥

婆罗多之子啊,黑天听了这话便折返,与以坚战为首的般度五子会合。

6.43.96

अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।
योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ॥ ६.४३.९६ ॥

随后在军队中央,般度五子的长兄高声呼喊:谁选择我们,我便为求助而选择谁。

6.43.97

अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् ।
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ ६.४३.९७ ॥

于是युयुत्सु望着他们,心中欢喜,对法王、昆提之子坚战说道:

6.43.98

अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् ।
युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ॥ ६.४३.९८ ॥

大王啊,无过者,若您选择我,我将为您在战场上与持国之子们作战。

6.43.99

एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् ।
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥ ६.४३.९९ ॥

来吧,来吧,我们都将与你那些愚昧的兄弟作战。啊,युयुत्सु,वासुदेव和我们大家都全面地这样说。

6.43.100

वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् ।
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ ६.४३.१०० ॥

啊,大臂者,我选择你。为了我而作战;在你身上可见持国的供饭团与血脉之线。

6.43.101

भजस्वास्मान्राजपुत्र भजमानान्महाद्युते ।
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥ ६.४३.१०१ ॥

王子啊,光辉者,请与我们这些仰慕你的人同在。持国的儿子心怀恶念又极易愤怒,不会允许这样的事。

6.43.102

ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव ।
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिं ॥ ६.४३.१०२ ॥

于是युयुत्सु舍弃了俱卢族——即您的儿子们,敲响战鼓宣告之后,投奔了般度之子的军队。

6.43.103

ततो युधिष्ठिरो राजा संप्रहृष्टःक सहानुजः ।
जग्राह कवचं भूयो दीप्तिमत्कनकोञ्ज्वलम् ॥ ६.४३.१०३ ॥

于是国王坚战心中大喜,与众幼弟再次披上那身闪耀着煌煌金光的铠甲。

6.43.104

प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः ।
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ ६.४३.१०४ ॥

众位人中雄牛再次登上各自战车,随后又如先前一般重新布下战阵。

6.43.105

अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् ।
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ ६.४३.१०५ ॥

那些人中雄牛敲响了成百上千的战鼓与铜鼓,并发出种种狮吼之声。

6.43.106

रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः ।
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ॥ ६.४३.१०६ ॥

众王见般度诸子——人中猛虎——立于战车之上,以驸马提为首,皆再次欢喜。

6.43.107

गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् ।
दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम् ॥ ६.४३.१०७ ॥

诸王见般度诸子之威仪,以及对可尊敬者的礼遇,便极为敬重地尊奉他们。

6.43.108

सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।
दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः ॥ ६.४३.१०८ ॥

诸王在那里表达了大德之人适时的友情与慈悲,以及对亲族的至高怜悯。

6.43.109

साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः ।
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ॥ ६.४३.१०९ ॥

“善哉,善哉!”——四方皆有赞叹之纯净之声响起,令名人之心意欢喜。

6.43.110

म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा ।
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ ६.४३.११० ॥

彼处所见所闻之蛮夷与雅利安人,闻般度诸子之行,皆哽咽而哭。

6.43.111

ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः ।
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ ६.४३.१११ ॥

于是心志高远之人欢喜,击打成百上千面大鼓,并吹响洁白如牛乳的螺号。