Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.46.1

राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् ।
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ ६.४६.१ ॥

大王啊,这里那里,成千上万的步兵毫无节制地厮杀。婆罗多之子啊,这我要告诉你。

6.46.2

न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् ।
न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः ॥ ६.४६.२ ॥

那里,儿子不认父亲,父亲不认亲生之子;兄弟不认兄弟,外甥不认舅父。

6.46.3

न मातुलं च स्वस्रीयो न सखायं सखा तथा ।
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ ६.४६.३ ॥

外甥不认舅父,朋友不认朋友;般度之子们仿佛中了魔一般,与俱卢人厮杀。

6.46.4

रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः ।
अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ ६.४६.४ ॥

婆罗多的雄牛啊,一些如虎的勇士驾车冲入战车阵,车轭撞碎了车轭。

6.46.5

रथेषाश्च रतेषाभिः कूरा रथकूबरैः ।
संगतैः सहिताः केचित्परस्परजिघांसवः ॥ ६.४६.५ ॥

车杠与车轴撞击战车;一些凶悍之人聚在一起,相互渴望杀戮,展开搏斗。

6.46.6

न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः ।
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ॥ ६.४६.६ ॥

一些战车彼此相撞,竟无法移动;巨大的象群相互冲撞,被撕裂而四散。

6.46.7

बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम् ।
सतोरणपताकैश्च वारणा वरवारणैः ॥ ६.४६.७ ॥

愤怒的象群用象牙彼此多方撕扯;装饰着帷幔与旗帜的象与最优良的象相互冲撞。

6.46.8

अभिसृत्य महाराज वेगवद्भिर्महागजैः ।
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ ६.४६.८ ॥

大王啊,被疾速冲来的巨象的象牙击中,它们在那里极度痛苦地哀嚎。

6.46.9

अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः ।
अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥ ६.४६.९ ॥

在训练的引导下,被驱赶的棍棒与铁钩所催动,未发情的象与发情的象面对面地前进。

6.46.10

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।
क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ॥ ६.४६.१० ॥

那里,一些与发情之象纠缠的巨象发出如鹤鸟(克劳ñca)般的鸣叫,四散奔逃。

6.46.11

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।
ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ ६.४६.११ ॥

受到良好驱使的象,太阳穴流淌着液汁,被长矛、投枪与铁箭射穿——那些最优良的象。

6.46.12

प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ ६.४६.१२ ॥

要害被刺穿,它们嘶吼着倒下,已无生气;有的则发出可怖的吼叫,向四方逃去。

6.46.13

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ॥ ६.४६.१३ ॥

象足护卫,宽胸的攻击者,持长矛、弓和明亮的斧钺。

6.46.14

गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः ।
आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः । ॥ ६.४६.१४ ॥

持棍棒、铁锤、投枪、铁矛、铁杵,以及明亮锋利的剑。

6.46.15

प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः ।
व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ ६.४६.१५ ॥

高举兵器,怒火中烧,四处奔跑,大王啊,他们显得都渴望互相杀戮。

6.46.16

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः ।
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ ६.४६.१६ ॥

当勇士们互相冲杀时,人血浸透的明亮剑刃显现出来。

6.46.17

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।
संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ ६.४६.१७ ॥

勇士手臂挥掷的剑刃落在要害之处,于是爆发出一片喧嚣之声。

6.46.18

गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ ६.४६.१८ ॥

被棍棒和铁锤砸碎者,被上好的剑斩裂者,被象牙刺穿者,以及被大象踩踏者。

6.46.19

तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ ६.४६.१९ ॥

四处传来成群之人彼此呼喊的可怕声音,如同亡灵之声,婆罗多啊。

6.46.20

हयैरपि हयारोहाश्चामरापीडधारिभिः ।
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ॥ ६.४६.२० ॥

佩戴拂尘与头饰的骑士,与其马匹一同,如同迅捷的天鹅,彼此猛扑而去。

6.46.21

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ ६.४६.२१ ॥

他们投出的大枪,饰以黄金,疾飞、明亮而锋利,如蛇般落下。

6.46.22

अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् ।
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ ६.४६.२२ ॥

有些勇士以如火般迅疾的马匹,从大车上跃下,夺取了车战者与骑兵的头颅。

6.46.23

बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः ।
रथी जघान संप्राप्य बाणगोचरमागतान् ॥ ६.४६.२३ ॥

车手在箭程之内击中了许多骑兵,以带弯曲节的婆罗箭将他们射倒。

6.46.24

नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः ।
पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः ॥ ६.४६.२४ ॥

狂暴的象群,黑如新雨云,饰以黄金,将马匹抛开,用它们自己的脚践踏。

6.46.25

पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः ।
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ ६.४६.२५ ॥

象额与两侧被击中,有些大象被长矛所伤,极为痛苦地嘶鸣。

6.46.26

साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः ।
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ॥ ६.४६.२६ ॥

优良的大象将一些马连同骑手挑起,突然抛入那可怖而拥挤的混战之中。

6.46.27

साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः ।
रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः ॥ ६.४६.२७ ॥

象以獠牙之尖挑起连同骑手的马匹,践踏成群的战车,带着旗幡向前推进。

6.46.28

पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः ।
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ ६.४६.२८ ॥

这些大象凭着雄健与极度狂怒,有的以鼻、有的以足击打连同骑手的马匹。

6.46.29

अश्वारोहैश्च समरे हस्तिसादिभिरेव च ।
प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ ६.४६.२९ ॥

战斗中,骑士与象手射出的快速、明亮、锐利的箭,如蛇一般落在象的身体、标记之处和两侧。

6.46.30

नराश्वकायान्निर्भिद्य लौहानि कवचानि च ।
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ॥ ६.४६.३० ॥

英雄们的臂力掷出的明亮长矛,穿透人与马的身体和铁甲,然后坠落。

6.46.31

महोल्ककाप्रतिमा घोरास्तत्र तत्र विशांपते ।
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ॥ ६.४६.३१ ॥

大王啊,这里那里有如大流星般可怕的兵器,缚着豹皮,覆着虎皮。

6.46.32

विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे ।
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ॥ ६.४६.३२ ॥

他们以出鞘的明亮宝剑在战场上击杀敌人;那个扑上来、满怀愤怒的人被从一侧劈开。

6.46.33

विदर्शयन्तः संपेतुः खङ्गचर्मपरश्वथैः ।
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ॥ ६.४६.३३ ॥

他们手持刀、盾、斧显露身形,猛扑上去;有些人徒手抓起大象,连同马匹一起举起战车。

6.46.34

विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ।
शङ्कुभिर्दारिताः केचित्संभिन्नाश्च परश्वथैः ॥ ६.४६.३४ ॥

被拖向四面八方,他们倒下了,各处都响起哭喊;有些人被木桩刺穿,有些人被战斧劈开。

6.46.35

हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः ।
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ॥ ६.४६.३५ ॥

有些人被象群践踏,另一些被马匹踩碎;有些被战车轮缘割断,有些被战斧砍断。

6.46.36

व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान् ।
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ॥ ६.४६.३६ ॥

大王啊,这里那里的人们都呼唤着亲族而哭喊:有人呼唤儿子,有人呼唤父亲,有人呼唤兄弟及其亲属。

6.46.37

मातुलान्भागिनेयांश्च परानपि च संयुगे ।
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ॥ ६.४६.३७ ॥

婆罗多的后裔啊,战场上许多人肠子散落、大腿折断地躺着——母舅、外甥以及其他人也都在其中。

6.46.38

बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः ।
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ ६.४६.३८ ॥

另一些人手臂被斩断、两侧被撕裂,可以看到他们在哭喊——口渴难耐,渴望活下去。

6.46.39

तृषापरिगताः केचिदल्पसत्वा विशांपते ।
भूमौ निपतिताः सङ्ख्ये मृगयांचक्रिरे जलम् ॥ ६.४६.३९ ॥

人主啊,一些被渴困扰、气力虚弱的人在战场上倒在地上,寻找水。

6.46.40

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ॥ ६.४६.४० ॥

婆罗多的后裔啊,浑身浸透血流、痛苦不堪的人痛斥自己,也痛斥聚集在此的你的儿子们。

6.46.41

अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् ।
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ।
तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ॥ ६.४६.४१ ॥

其他相互结下仇怨的英勇刹帝利,啊,尊者,既不放下武器,也不哭喊;他们欣喜地在各处彼此挑衅恫吓。

6.46.42

आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् ।
भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम् ॥ ६.४६.४२ ॥

他们怒气冲冲地用牙齿咬着自己的嘴唇,皱着弯曲的眉头,斜眼彼此怒视。

6.46.43

अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः ।
निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ॥ ६.४६.४३ ॥

其他人被箭所伤、为创伤所苦,意志坚定、力量强大,却不发出一声呻吟。

6.46.44

अन्ये च विरथाः शूरा रथमन्यस्य संयुगे ।
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः ।
अशोभन्त महाराज सपुष्पा इव किंशुकाः ॥ ६.४६.४४ ॥

其他勇士失去战车,在战斗中寻求他人的战车,被上好的象群踩碎而倒下;大王啊,他们闪耀如同开花的金合欢树。

6.46.45

संबभूवुरनीकेषु बहवो भैरवस्वनाः ।
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ॥ ६.४६.४५ ॥

当那可怕至极的勇士精英被大量杀戮之时,军队中响起了许多骇人的声音。

6.46.46

निजघान पिता पुत्रं पुत्रश्च पितरं रणे ।
स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ ६.४६.४६ ॥

在战场上,父亲杀死了儿子,儿子杀死了父亲;外甥杀死了舅父,舅父也杀死了外甥。

6.46.47

सखा सखायं च तथा संबन्धी बान्धवं तथा ।
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ ६.४६.४७ ॥

朋友杀死朋友,亲属杀死亲属,也是如此;就这样,库鲁人在那里与般度人激战。

6.46.48

वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके ।
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ ६.४६.४८ ॥

当这场无边无际、令人恐怖的战斗如此激烈地进行时,般度之子(Pārtha)的军队接近毗湿摩,全军都震颤起来。

6.46.49

केतुना पञ्चतारेण तालेन भारतर्षभ ।
राजतेन महाबाहुरुच्छ्रितेन महारथे ।
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ ६.४६.४९ ॥

婆罗多族的雄牛啊,大车战士、大臂的毗湿摩,他那面高扬的银色旗帜上有棕榈树的标记和五颗星。国王啊,那时毗湿摩光辉耀目,如同傍着须弥山的月亮。