摩诃婆罗多 · 章 6.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.47.1
गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे ।
वर्तमाने तथा रौद्रे महावीरवरक्षये ॥ ६.४७.१ ॥
那可怕的一天上午大部分已经过去,那场残酷的战斗,即伟大英雄中最杰出者的毁灭,仍在进行。
6.47.2
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः ।
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ ६.४७.२ ॥
杜尔穆卡、克里塔瓦尔曼、克里帕、沙利耶和维温希蒂,受你儿子的驱使,来到毗湿摩身边保护了他。
6.47.3
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः ।
पाण्डवानामनीकानि विजगाहे महारथः ॥ ६.४७.३ ॥
在这五位大车战士的护卫下,婆罗多族的雄牛、大车御者毗湿摩,冲入了般度之子的军队。
6.47.4
चेदिकाशिकरूषेषु पञ्चालेषु च भारत ।
भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ॥ ६.४७.४ ॥
婆罗多啊,在车底、迦尸、卢湿与般遮罗之间,毗湿摩的棕榈旗迎风飘扬,多处可见。
6.47.5
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् ।
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ॥ ६.४७.५ ॥
他在战场上以极迅猛的、带弯曲节的婆罗箭,斩断敌人的头颅以及带轭与旗的战车。
6.47.6
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।
भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ ६.४७.६ ॥
婆罗多的雄牛啊,毗湿摩在战车道上疾速往来,大象被击中要害,发出极其悲痛的嘶鸣。
6.47.7
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः ।
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ ६.४७.७ ॥
阿毗曼尤极为愤怒,登上由黄褐色良马驾驭的战车,朝毗湿摩的战车驶去。
6.47.8
जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।
अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ॥ ६.४७.८ ॥
他的旗帜以黄金装饰,绘有卡尼迦罗树图案,他冲向毗湿摩和那些最优秀的车战者。
6.47.9
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।
भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ॥ ६.४७.९ ॥
这位英雄以利箭射中毗湿摩的多罗树旗,并与毗湿摩及其副车战士交战。
6.47.10
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः ।
विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम् ॥ ६.४७.१० ॥
他以一箭射穿迦尔塔瓦尔曼,以五支疾箭射穿沙利耶,随后以九支利尖箭击中普拉提帕玛哈。
6.47.11
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।
ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ॥ ६.४७.११ ॥
他以一支从满弦弓上精准射出的箭,射穿了饰以黄金的旗帜。
6.47.12
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।
जहार सारथेः कायाच्छिरः सन्नतपर्वणा ॥ ६.४७.१२ ॥
他以一支能穿透一切甲胄、带弯曲节的婆罗箭,斩下了杜尔穆卡御者的头颅。
6.47.13
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् ।
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ ६.४७.१३ ॥
他用一支阔刃箭斩断了克里帕那镶金的弓,并以锐利箭头的箭矢也将它们斩断。
6.47.14
जघान परमक्रुद्धो नृत्यन्निव महारथः ।
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ ६.४७.१४ ॥
这位大车将极度愤怒,击打时仿佛在舞蹈;看见他的敏捷,连诸神也感到欣喜。
6.47.15
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः ।
सत्ववन्तममन्यन्त साक्षादिव धनंजयम् ॥ ६.४७.१५ ॥
众车将以毗湿摩为首,见卡尔希所中之目标,便认为他与达南闍耶本人一样英勇。
6.47.16
तस्य लाघवमार्गस्थमलातसदृशप्रभम् ।
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ ६.४७.१६ ॥
他的弓行于敏捷之道,光辉如火把,飞舞于四方,发出如同甘狄瓦弓的鸣响。
6.47.17
तमासाद्य महावेगैर्भीष्मो नव्रभिराशुगैः ।
विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ ६.४७.१७ ॥
毗湿摩以极大的力量逼近他,这位杀敌英雄的摧毁者,在战斗中迅速用九支疾箭射穿了阿周那之子。
6.47.18
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः ।
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ ६.४७.१८ ॥
他以三支阔刃箭斩断了那位极其强大者的旗帜,而坚守誓愿者又以三支箭射中了他的御者。
6.47.19
तथैव कृतवर्मा च कृपः शल्यश्च मारिष ।
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ ६.४७.१९ ॥
同样,钩多、克利巴与沙利亚,哦尊者,虽射中了黑公主之子(阿周那),却未能使他动摇,犹如无法撼动摩那迦山。
6.47.20
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः ।
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ ६.४७.२० ॥
那位英雄,黑公主之子,被德罗陀罗斯特罗的众子这些大车将所围,向那五位车将倾泻箭雨。
6.47.21
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः ।
ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान् ॥ ६.४७.२१ ॥
随后,他以箭雨遮蔽了他们的千军,那强大的黑公主之子一边向毗湿摩放箭,一边吼叫。
6.47.22
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत ।
यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ ६.४७.२२ ॥
大王啊,在那里,可见他双臂的巨大力量,他在战斗中奋力作战,以箭射击毗湿摩,使其痛苦。
6.47.23
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ ६.४७.२३ ॥
毗湿摩也向那位勇士射箭,而他在战斗中切断了从毗湿摩弓上射出的箭。
6.47.24
ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः ।
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ ६.४७.२४ ॥
随后,那位箭从不落空的英雄,在战斗中以九支箭射断了毗湿摩的旗帜;于是众人大声呼喊起来。
6.47.25
स राजतो महास्कन्धस्तालो हेमविभूषितः ।
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ ६.४७.२५ ॥
那棵银色、树干粗壮、饰以黄金的棕榈树,被妙贤(Saubhadra)的箭射断,倒在地上,婆罗多啊。
6.47.26
तं तु सौभद्रविशिखैः पातितं भरतर्षभ ।
दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ॥ ६.४७.२६ ॥
婆罗多之雄啊,见那棵树被妙贤的箭射倒,毗摩大声吼叫,使妙贤欢喜。
6.47.27
अथ भीष्मो महास्राणि दिव्यानि सुबहूनि च ।
प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः ॥ ६.४७.२७ ॥
于是大力的毗湿摩在那可怖的战场上,显现了许多神圣的大兵器。
6.47.28
ततः शरसहस्रेण सौभद्रं प्रतितामहः ।
अवाकिरदमेयात्मा तदद्भुतमिवाभवत् ॥ ६.४७.२८ ॥
于是不可量度之心的祖父毗湿摩,以千支箭覆盖妙贤,那景象仿佛奇迹一般。
6.47.29
ततो दश महेष्वासाः पाण्डवानां महारथाः ।
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ ६.४७.२९ ॥
于是般度之子的十位大弓手、大战车武士,急忙乘车向妙贤奔去以保护他。
6.47.30
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।
भीमश्च केकयाश्चैव सात्यकिश्च विशांपते ॥ ६.४७.३० ॥
毗罗吒与他的儿子、补利沙塔之子猎获增(Dhṛṣṭadyumna)、毗摩、俱吉耶王子们,还有萨蒂亚吉,人民之主啊。
6.47.31
तेषां जवेनापततां भीष्मः शान्तनवो रणे ।
पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः । ॥ ६.४७.३१ ॥
当他们迅猛冲来时,檀努之子毗湿摩在战场上以三箭射中般遮罗王子,以九箭射中萨谛奇。
6.47.32
पूर्णायतविसृष्टेन क्षुरेण निशितेन च ।
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ ६.४७.३२ ॥
他以满弓射出的锐利剃刀箭,只用一箭便斩断了毗摩森那的旗帜。
6.47.33
जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम ।
पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥ ६.४७.३३ ॥
人中之雄啊,那面金制的威严狮子旗被毗湿摩击落,从毗摩森那的战车上坠下。
6.47.34
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे ।
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ ६.४७.३४ ॥
随后毗摩在战中以三箭射中檀努之子毗湿摩,以一箭射伤慈悲,以八箭射伤功德甲。
6.47.35
प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना ।
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ ६.४७.३५ ॥
毗罗吒之子鬱多罗也骑在象上,紧握手掌前部,向摩德罗国之主的国王冲去。
6.47.36
तस्य वारणराजस्य जवेनापततो रथे ।
शल्यो निवारयामास वेगमप्रतिमं शरैः । ॥ ६.४७.३६ ॥
当那象王以无比的速度冲来时,沙利耶从战车上以箭矢遏止了它的冲势。
6.47.37
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।
पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ ६.४७.३७ ॥
那头被激怒的象王,巨大而训练有素,以足踏上轭木,将四匹马踩死。
6.47.38
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् ।
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ ६.४७.३८ ॥
马匹已被杀死,站在车上的摩德罗王投出一支铁矛,能致敌人于死地,形如毒蛇。
6.47.39
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः ।
स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः ॥ ६.४७.३९ ॥
他的铠甲与身体被它刺穿,他进入了广大的黑暗,从象背上坠落,钩杖与长矛也脱手了。
6.47.40
असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात् ।
तस्य वारणराजस्य चिच्छेदाथ महाकरम् ॥ ६.४७.४० ॥
沙利耶也拿起剑,从良车上跳下,斩断了那象王的大鼻。
6.47.41
भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः ।
भीममार्तस्वरं कृत्वा पपात च ममार च ॥ ६.४७.४१ ॥
象身被数百支箭射中要害,鼻子被斩断,发出可怕的哀嚎,倒地而死。
6.47.42
एतदीदृशकं कृत्वा मद्रराजो नराधिप ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ ६.४७.४२ ॥
人主啊,摩德罗王做完这些,迅速登上了克里塔瓦尔曼那辉煌的战车。
6.47.43
उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ ६.४७.४३ ॥
维拉塔之子见乌塔拉已被杀,便看见他的兄弟,以及与克里塔瓦尔曼站在一起的沙利耶。
6.47.44
श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ ६.४७.४४ ॥
白色因愤怒而燃烧,犹如以酥油浇灌的祭火。那位强者拉开如同因陀罗之弓般的大弓……
6.47.45
अभ्यधावञ्जिघांसन्वै शल्यं मद्राधिपं बली ।
महता रथवंशेन समन्तात्परिवारितः ॥ ६.४७.४५ ॥
他想要杀死他,那位强者冲向摩德罗国王沙利耶,四面被大批战车所包围。
6.47.46
मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥ ६.४७.४६ ॥
他射出如雨的箭矢,向沙利耶的战车前进。看到那人带着疯象般的威势向自己冲来……
6.47.47
तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।
मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ ६.४७.४७ ॥
您的七辆战车从四面包围了他,想要保护已陷入死亡之口的摩德罗国王。
6.47.48
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः ।
तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान् ॥ ६.४७.४८ ॥
Bṛhadbala 是憍萨罗王子,Jayatsena 是摩揭陀人;大王,沙利耶那位勇猛的儿子 Rukmaratha 也在其中。
6.47.49
विन्दानुविन्दावावान्त्यौ काम्भोजश्च सुदक्षिणः ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ ६.४७.४९ ॥
阿槃提的两位王子毗林陀与阿奴毗林陀,剑浮国王苏达希那,巨刹之子,信度之主胜车。
6.47.50
नानावर्णविचित्राणि धनूंषि च महात्मनाम् ।
विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ॥ ६.४७.५० ॥
诸大士的各色繁多的弓被拉满,如同云中闪电。
6.47.51
ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन् ।
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥ ६.४७.५१ ॥
他们向白王的头顶倾下箭雨,犹如盛夏将尽时被风吹动的云向山上降水。
6.47.52
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ॥ ६.४७.५२ ॥
于是愤怒的大弓手,军队统帅,以七支锋利的薄刃箭斩断他们的弓,并将他们击溃。
6.47.53
निकृत्तान्येव तानि स्म समदृश्यन्त भारत ।
ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च ॥ ६.४७.५३ ॥
婆罗多啊,那些弓被看见已断,但在半瞬之间,他们又得到了新弓。
6.47.54
सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन् ।
ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः ।
निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ॥ ६.४७.५४ ॥
他们又向白王射下七支普利沙迦箭。然后,身形伟大、灵魂无量的大臂者,以七支疾飞的薄刃箭斩断了那些弓手的弓。
6.47.55
ते निकृत्तमहाचापास्त्वरमाणा महारथाः ।
रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान् ॥ ६.४७.५५ ॥
他们的大弓已被斩断,大车将们急忙拿起车枪,发出可怕的呼喊。
6.47.56
अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति ।
ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ॥ ६.४७.५६ ॥
婆罗多之最啊,七人追向白色的战车;随后那七位燃烧着的勇士,发出如大因陀罗雷霆般的轰鸣。
6.47.57
अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित् ।
ततः समादाय शरं सर्वकायविदारणम् ॥ ६.४७.५७ ॥
精通至上神兵者在他们到达之前,以七支钹形箭将他们斩断;随后取一支能穿透全身的箭……
6.47.58
प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति ।
तस्य देहे निपतितो बाणो वज्रातिगो महान् ॥ ६.४७.५८ ॥
婆罗多之最啊,白色的战士向罗克玛的战车射出一箭;一支超过雷电的巨箭落入了他的身体。
6.47.59
ततो रुक्मरथो राजन्सायकेन दृढाहतः ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥ ६.४७.५९ ॥
于是,国王啊,罗克玛的车上勇士被箭重重击中,坐在车厢底板上,巨大的昏厥袭上了他。
6.47.60
तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः ।
अपोवाह नसंभ्रान्तः सर्वलोकस्य पश्यतः ॥ ६.४७.६० ॥
那昏迷而沮丧的人,御者急速却不慌乱地将他带走,众人都在看着。
6.47.61
ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् ।
तेषां षण्मां महाबाहुर्ध्वजशीर्षण्यपातयत् ॥ ६.४७.६१ ॥
于是,白色者(阿周那)取来另外六支饰以黄金的箭,那大臂者将他们六面旗帜的顶端射落。
6.47.62
हयांश्च तेषां निर्भिद्य सारथींश्च परंतप ।
शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति ॥ ६.४७.६२ ॥
敌人的焚烧者啊,他刺穿了他们的马匹和御者,以箭将他们全部覆盖,然后向沙利耶的战车前进。
6.47.63
ततो हलहलाशब्दस्तव सैन्येषु भारत ।
दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ॥ ६.४७.६३ ॥
于是,婆罗多啊,你的军队看见统帅迅速奔向沙利耶的战车,军中便爆发出惊惧的喧哗。
6.47.64
ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः ।
वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ॥ ६.४७.६४ ॥
于是,你那强大的儿子将毗湿摩置于前面,被全军环绕,向白者的战车前进。
6.47.65
मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् ।
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ॥ ६.४७.६५ ॥
他救出了已至死亡之口的摩德罗王(沙利耶)。随即爆发了一场使人毛骨悚然的激烈大战。
6.47.66
तावकानां परेषां च व्यतिषक्तरथद्विपम् ।
सौभद्रे भीमसेन च सात्यकौ च महारथे ॥ ६.४७.६६ ॥
你方与敌方的战车和象群相互缠结;大战车手萨乌跋德罗(阿毗曼尤)、毗摩先那与萨谛奇都投身其中。
6.47.67
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ।
एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह ।
ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ॥ ६.४७.६७ ॥
在凯柯耶人与毗罗吒身上,在德里塞顿伽与波利沙塔之子身上,在这些人中狮子身上,也在遮提人与鱼人身上,库鲁长者祖父降下了箭雨。