摩诃婆罗多 · 章 6.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.48.1
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति ।
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥ ६.४८.१ ॥
Sañjaya,当伟大的弓箭手白(Śveta)如此来到沙利亚的战车前时,俱卢族和般度之子做了什么?
6.48.2
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः ।
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥ ६.४८.२ ॥
或者,檀努之子毗湿摩做了什么?请告诉问话的我。大王,那时数十万名最优秀的刹帝利又做了什么?
6.48.3
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः ।
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥ ६.४८.३ ॥
婆罗多之子啊,大车战士们推举英勇的白(Śveta)为统帅走在前面,展示着你之子国王的军队。
6.48.4
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ।
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ ६.४८.४ ॥
他们推举湿乾陀(Śikhaṇḍin)在前,大车战士们想要保护毗湿摩,并冲向那辆饰以黄金的毗湿摩战车。
6.48.5
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् ।
तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ॥ ६.४८.५ ॥
阿周那啊(无坠者),那里发生了一场巨大而喧嚣的战斗,双方都想杀死最优秀的战士。那场大屠杀,我将完整地告诉你。
6.48.6
तावकानां परेषां च यथा युद्धमवर्तत ।
तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ॥ ६.४८.६ ॥
你的军队与敌军之间的战斗就这样进行,在那里,檀努之子使许多战车的御者座位空了下来。
6.48.7
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् ।
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥ ६.४८.७ ॥
他在那里建立了盛大非凡的功绩:用箭射击最优良的战车,以与太阳相等的威势,用箭遮蔽了太阳。
6.48.8
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः ।
तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ॥ ६.४८.८ ॥
如同升起的太阳从四面驱散黑暗,他在战场上四面冲击,王啊,他射出的箭以十万计。
6.48.9
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः ।
शिरांसि पातयामासुर्वीराणां शतशो रणे ॥ ६.४८.९ ॥
在战斗中,它们是刹帝利的死神,迅猛而有大力,使数百位英雄的头颅在战场上坠落。
6.48.10
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् ।
रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ॥ ६.४८.१० ॥
披着尖刺铠甲的象群,看似被金刚杵击碎的岩石堆;战车与战车彼此纠缠,可以看见,人主啊。
6.48.11
एके रथं पर्यवहंस्तुरगाः सतुरंगमम् ।
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥ ६.४८.११ ॥
有些马拖着战车连同它的马匹一起奔去;被杀的年轻英雄连同弓一起悬挂着。
6.48.12
उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह ।
बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ॥ ६.४८.१२ ॥
王啊,狂奔的马匹四处拖着战车奔驰;它们的身躯与箭袋都被缚着,许多马头颅碎裂而倒毙。
6.48.13
शतशः पतिता भूमौ वीरशय्यासु शेरते ।
परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ॥ ६.४८.१३ ॥
成百上千的人倒在地上,躺在英雄的床榻上;彼此冲杀,倒下又重新爬起。
6.48.14
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् ।
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥ ६.४८.१४ ॥
他们起身奔冲,展开单挑格斗;痛苦之中又彼此翻滚,倒在战场的前沿。
6.48.15
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः ।
विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥ ६.४८.१५ ॥
带着弓与箭囊,饰以黄金的英雄们,在毫无戒备时被杀;成百上千的人饱受重创。
6.48.16
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत ।
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥ ६.४८.१६ ॥
他们四处冲杀、投掷兵器,婆罗多啊;发狂的象转身而去,骑手已死的马匹也调转回头。
6.48.17
सरथा रथिनश्चापि विमृद्गन्तः समन्ततः ।
स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥ ६.४८.१७ ॥
战车上的武士驾着战车四处碾压;有人从车上坠落,被另一人的箭所杀。
6.48.18
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः ।
युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ॥ ६.४८.१८ ॥
御者虽已被杀,战车仍像木头一样轰然倒下;战斗中的战士,在列阵之中尘土扬起之时。
6.48.19
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः ।
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥ ६.४८.१९ ॥
那里凭弓弦的响声辨认敌人,相互交战的战士则凭身体的接触认出对手。
6.48.20
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात् ।
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥ ६.४८.२० ॥
大王,他们以箭作战时,因弓弦与旗幡之声,战士们彼此发出的勇猛呼喊已听不清楚。
6.48.21
शब्दायमाने संग्रामे पटहे कर्णदारिणि ।
युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ॥ ६.४८.२१ ॥
战场上震耳欲聋的战鼓声响起时,奋战的战士们各自展现自己的勇武。
6.48.22
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् ।
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥ ६.४८.२२ ॥
我没有听到那些在战斗中、被毗湿摩之弓射出的箭所伤的人彼此报出的姓名与族姓,也没有听到他们相互的宣告。
6.48.23
परस्परेषां वीराणां मनांसि समकम्पयन् ।
तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ॥ ६.४८.२३ ॥
在那场极度混乱、可怕而令人毛骨悚然的战斗中,英雄们的心彼此一同战栗。
6.48.24
पिता पुत्रं च समरे नाभिजानाति कश्चन ।
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥ ६.४८.२४ ॥
战斗中,没有父亲认得自己的儿子。车轮折断,车轭被斩断,单辕之马被杀……
6.48.25
आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः ।
एवं च समरे सर्वे वीराश्च विरथीकृताः ॥ ६.४८.२५ ॥
那位英雄被笔直飞来的箭从战车上击落,连同他的御者;于是在战斗中,所有英雄都失去了战车。
6.48.26
तेन तेन स्म दृश्यन्ते धावमानाः समंततः ।
गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ॥ ६.४८.२६ ॥
四处奔跑的人们到处可见;大象被杀,头颅被斩断,要害被刺穿,马被杀死。
6.48.27
अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् ।
श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ॥ ६.४८.२७ ॥
当毗湿摩击杀敌人时,无人能幸免;在那场大战中,白者(毗湿摩)使俱卢族走向毁灭。
6.48.28
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः ।
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥ ६.४८.२८ ॥
毗湿摩成百上千地杀死了高贵的王子与车战勇士;他以箭斩下车战者的头颅,婆罗多中的雄牛啊。
6.48.29
साङ्गदा बाहवश्चैव धनूंषि च समंततः ।
रथेषां रथचक्राणि तूणीराणि युगानि च ॥ ६.४८.२९ ॥
带臂钏的手臂,以及弓也四处散落;车辕、车轮、箭袋和车轭。
6.48.30
छत्राणि च महार्हाणि पताकाश्च विशांपते ।
हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ॥ ६.४८.३० ॥
珍贵的华盖与旗帜也是,人民之主啊;马群、车群与人群也是,婆罗多啊。
6.48.31
वारणाः शतशश्चैव हताः श्वेतेन भारत ।
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥ ६.४८.३१ ॥
婆罗多的后裔啊,白者(毗湿摩)杀死了数百头象。我们因畏惧白者而惊恐,抛下了最好的战车。
6.48.32
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः ।
शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥ ६.४८.३२ ॥
同样,我们从后方撤退,勇敢的我们看见了那位强大者。库鲁之喜啊,库鲁人越过箭矢的射程,远远地站立着。
6.48.33
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः ।
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥ ६.४८.३३ ॥
我们站在战场上,四面八方都看见了山塔努之子毗湿摩。在危难之时,无所畏惧的毗湿摩为我们在大战中屹立。
6.48.34
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः ।
आददान इव प्राणान्सविता शिशिरात्यये ॥ ६.४८.३४ ॥
那人中之虎独自站立,如须弥山般不动,仿佛冬末的太阳在夺取生命的气息。
6.48.35
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान् ।
स मुमोच महेष्वासः शरसङ्घाननेकशः ॥ ६.४८.३५ ॥
他如太阳放射光芒,以箭矢的光芒闪耀而立。那位大弓手以多种方式射出密集的箭群。
6.48.36
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् ।
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥ ६.४८.३६ ॥
在战场上击杀敌人,如持金刚杵者击杀阿修罗。他们被毗湿摩所杀,纷纷从那位大力者面前逃散。
6.48.37
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् ।
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ॥ ६.४८.३७ ॥
他们如同被从自己群中放逐到地上的可怕兽群般四散。见此情形,他独自欢喜并变得强壮,哦,敌人的灼烧者。
6.48.38
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन् ।
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥ ६.४८.३८ ॥
专心于杜尔约陀所喜爱之事,为般度之子悲伤,舍弃难以割舍的生命与恐惧,在那场大战中(他前进了)。
6.48.39
पातयामास सैन्यानि पाण्डवानां विशांपते ।
प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥ ६.४८.३९ ॥
他击倒了般度之子的军队,哦,人主:你的父亲提婆跋多,正在冲击各个军团。
6.48.40
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात् ।
स भीष्मं शरजालेन महता समवाकिरत् ॥ ६.४८.४० ॥
看见统帅,毗湿摩迅速走向白。他用一张巨大的箭网将毗湿摩覆盖。
6.48.41
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् ।
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥ ६.४८.४१ ॥
毗湿摩也同样以箭流覆盖白。那二人如咆哮的公牛,如发狂的大象,(相互冲击)。
6.48.42
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः ।
अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥ ६.४८.४२ ॥
如两只老虎般极度愤怒,二人互相攻击。接着以兵器挡住兵器,那两位人中雄牛(激战)。
6.48.43
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ ।
एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ॥ ६.४८.४३ ॥
毗湿摩与白马互相寻求对方的死亡而战。毗湿摩一日之内便能焚毁般度子的军队。
6.48.44
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत् ।
पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ॥ ६.४८.४४ ॥
若白马大怒,不以箭保护祖父,那么见祖父被迫转身,白马……
6.48.45
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत् ।
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥ ६.४८.४५ ॥
般度子欢喜,而你的儿子沮丧。于是愤怒的难敌被诸王环绕……
6.48.46
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे ।
दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक ॥ ६.४८.४६ ॥
他率军在战场上冲向般度子的大军。难敌、凯塔瓦尔曼、克里帕、沙利耶与人主……
6.48.47
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः ।
दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ॥ ६.४८.४७ ॥
在你的儿子鼓动下,他们靠近毗湿摩并保护了他。以难敌为首的诸王见此情景……
6.48.48
पाण्डवानामनीकानि वध्यमानानि संयुगे ।
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥ ६.४८.४८ ॥
般度子的军队在战场上被杀。白马离开恒河之子,转向你儿子的军队……
6.48.49
नाशयामास वेगेन वायुर्वृक्षानिवौजसा ।
द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ॥ ६.४८.४९ ॥
王啊,如同风以其力拔起树木,被愤怒迷乱的毗罗吒之子冲散并摧毁了军队。
6.48.50
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः ।
तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ॥ ६.४८.५० ॥
二人又突然冲向毗湿摩所立之处;王啊,那两位被箭光照耀的大力士来到了那里。
6.48.51
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ ।
अन्योन्यं तु महाराज परस्परवधैषिणौ ॥ ६.४८.५१ ॥
如同弗栗多与因陀罗,那两位大德相互激战;大王啊,二人都想置对方于死地。
6.48.52
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः ।
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी ॥ ६.४८.५२ ॥
斯韦塔举起弓,以七箭射穿毗湿摩;随后这位勇士施展威力,抵挡住了毗湿摩的威力。
6.48.53
तरसा वारयामास मत्तो मत्तमिव द्विपम् ।
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥ ६.४८.५३ ॥
如同一头狂象阻挡另一头,斯韦塔迅速阻挡了山塔努之子;他又以带弯节的箭再次射中他。
6.48.54
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत् ।
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥ ६.४८.५४ ॥
他以二十五箭射中对方,这似乎十分奇异;随即山塔努之子毗湿摩以十箭回击。
6.48.55
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः ।
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥ ६.४८.५५ ॥
他被射中,这位勇猛者却如山岳般纹丝不动。战场上愤怒的毗罗吒之子使劲拉满了他的弓。
6.48.56
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः ।
संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ॥ ६.४८.५६ ॥
于是刹帝利之子室伽打击了毗湿摩。随后室伽一边大笑,一边舔着嘴角。
6.48.57
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः ।
संधाय विशिखं चैव शरं लोमप्रवाहिनम् ॥ ६.४८.५७ ॥
他以九支箭将毗湿摩的弓斩成十段。随后搭上一支箭,射出一支羽箭。
6.48.58
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः ।
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥ ६.४८.५८ ॥
随后他拔掉了大德者旗杆顶端的棕榈标志。见毗湿摩的旗帜倒下,你的儿子们……
6.48.59
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम् ।
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥ ६.४८.५९ ॥
他们以为毗湿摩已被杀死,落入室伽之手。般度之子们也满心欢喜,欢快地吹响了海螺。
6.48.60
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः ।
ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ॥ ६.४८.६० ॥
见毗湿摩带有大德者棕榈标志的旗帜倒下,难敌怒火中烧,驱使自己的军队前进。
6.48.61
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः ।
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥ ६.४८.६१ ॥
你们要警觉,从四面保护毗湿摩,以免我们眼睁睁看着,白色者使他遭受死亡。
6.48.62
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः ।
राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ॥ ६.४८.६२ ॥
檀努之子英勇的毗湿摩——我如实告诉你们——听了国王的话,大战车武士们急速行动起来。
6.48.63
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन् ।
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥ ६.४८.६३ ॥
以四军之力守护恒河之子,巴赫利迦、克里达瓦尔曼、沙罗与沙利耶,啊,婆罗多!
6.48.64
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः ।
त्वरमाणास्त्वराकाले परिवार्य समंततः ॥ ६.४८.६४ ॥
水天、毗迦尔纳、奇特罗塞那与毗温夏提,在那急迫之时,四面将其包围,急速前进。
6.48.65
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन् ।
तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥ ६.४८.६५ ॥
他们向白色者倾泻了极为猛烈的兵器暴雨;愤怒而急速的大战车武士便以锐利的箭矢将他们全部阻住。
6.48.66
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् ।
स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ॥ ६.४८.६६ ॥
那心志无量者,显示手上的敏捷,将他们阻住;阻住他们所有人之后,他就像狮子面对两头象。
6.48.67
महता शरवर्षेण भीष्मस्य धनुराच्छिनत् ।
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥ ६.४८.६७ ॥
他以大量箭雨斩断了毗湿摩的弓。于是输睿多之子毗湿摩另取一弓,在战斗中(继续作战)。
6.48.68
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः ।
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥ ६.४८.६८ ॥
诸王之主啊!他以带鹤羽的锐利箭射中了白色者。于是愤怒的统帅以许多铁箭射中了毗湿摩。
6.48.69
विव्याध समरे राजन्सर्वलोकस्य पश्यतः ।
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥ ६.४८.६९ ॥
大王啊,在众人注视之下,他在战场上射中了毗湿摩。于是国王见毗湿摩被阻挡,极为痛苦。
6.48.70
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा ।
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥ ६.४८.७० ॥
白者在战斗中射中了那位众人之英雄(毗湿摩)。而在你的军中,升起了极大的喧哗(尼湿塔那迦)。
6.48.71
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् ।
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥ ६.४८.७१ ॥
见那位英雄被阻挡且被箭所伤,人们认为他已被白者杀死,落入了白者的掌控之中。
6.48.72
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव ।
ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ॥ ६.४८.७२ ॥
于是,被愤怒支配的你的父亲提婆跋陀看到(敌方)旗帜破碎,那支军队被阻挡。
6.48.73
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् ।
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥ ६.४८.७३ ॥
大王,史韦塔向他射出许多箭;在战场上挡住这些箭之后,车战者中的最强者史韦塔迎向毗湿摩。
6.48.74
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव ।
उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ॥ ६.४८.७४ ॥
他又用一支钵罗箭斩断了你父亲的弓;大王啊,被愤怒所淹没的恒河之子随即放下了自己的弓。
6.48.75
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम् ।
तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान् ॥ ६.४८.७५ ॥
他又取来另一张巨大而极为强劲的弓,在弓上搭上七支经石磨砺的大钵罗箭。
6.48.76
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः ।
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ॥ ६.४८.७६ ॥
他以四支箭射倒了军队统帅史韦塔的马;以两支箭斩断了他的旗帜;以第七支箭,御者啊……
6.48.77
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः ।
हताश्वसूतात्सु रथादवप्लुत्य महाबलः ॥ ६.४८.७७ ॥
极度愤怒、勇猛非凡的他以一支钵罗箭斩下了对方的头颅;马匹与御者都已被杀,这位大力者便从战车上跳了下来。
6.48.78
अमर्षवशमापन्नो व्याकुलः समपद्यत ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥ ६.४८.७८ ॥
祖父被愤怒所支配,看到车战者中最强的史韦塔失去战车,心中焦躁不安。
6.48.79
ताडयामास निशितैः शरसङ्घैः समंततः ।
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ॥ ६.४८.७९ ॥
他从四面以锐利的箭群射击;而他在战场上被毗湿摩弓中射出的箭所击中……
6.48.80
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् ।
ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ॥ ६.४८.८० ॥
他把弓放在自己的战车上,拿起一支金色的长矛;然后在战场上,Śveta 抓起了那支可怕、极其骇人的长矛。
6.48.81
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् ।
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥ ६.४८.८१ ॥
他喘息着,持着如时间之杖、如死亡之舌般可怖的长矛,那时Śveta在战场上对山塔努之子毗湿摩说道。
6.48.82
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव ।
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥ ६.४८.८२ ॥
“现在站住,满怀愤怒地看着我,做个男子汉!”说完这话,这位大弓手、勇猛者在战场上对毗湿摩说。
6.48.83
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम् ।
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥ ६.४८.८३ ॥
于是那位灵魂无量者投出如蛇般的长矛,为了般度之子而勇猛奋战,想要加害于你。
6.48.84
हाहाकारो महानासीत्पुत्राणां ते विशांपते ।
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥ ६.४८.८४ ॥
啊,人主!你的儿子们中间爆发出巨大的哀号,他们看见那支可怕、闪耀着死亡之杖光芒的长矛。
6.48.85
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् ।
अपतत्सहसा राजन्महोल्केव नभस्तलात् ॥ ६.४८.८५ ॥
大王啊,那从白色者手中射出、如同脱出的毒蛇般的标枪,忽然如大流星一般从天空坠落。
6.48.86
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् ।
असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव ॥ ६.४८.८६ ॥
大王啊,他看见那支在天空中燃烧、仿佛被火焰包裹的标枪,您的父亲提婆跋罗多(毗湿摩)当时并不慌乱。
6.48.87
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः ।
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥ ६.४८.८७ ॥
毗湿摩以八支、九支箭斩断了那支饰有上等黄金的标枪,被锋利的箭射穿。
6.48.88
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ ।
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥ ६.४८.८८ ॥
于是,您的所有人都大声呼喊,婆罗多族的雄牛啊,看见标枪被毁;毗罗吒之子被愤怒击倒,
6.48.89
कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत ।
क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव ॥ ६.४८.८९ ॥
他心神为命运所击,不知所当为;大王啊,毗罗吒之子被愤怒击倒,仿佛在笑,
6.48.90
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति ।
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥ ६.४८.९० ॥
他欢欣地拿起狼牙棒,意欲杀死毗湿摩;怒目赤红,如手持棍杖的阎摩。
6.48.91
भीष्मं समिदुद्राव जलौघ इव पर्वतम् ।
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥ ६.४८.९१ ॥
他如洪流冲向山岳,朝毗湿摩猛扑过来。毗湿摩见其冲势不可抵挡,那勇猛的毗湿摩……
6.48.92
प्रहारविप्रमोक्षार्थं सहसा धरणींगतः ।
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥ ६.४८.९२ ॥
为躲避攻击,他忽然落到地上。被愤怒所攫住的施维多挥舞着那柄钵,……
6.48.93
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः ।
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥ ६.४८.९३ ॥
如财神之投掷,他将它投向毗湿摩的战车;那能击倒毗湿摩的钵使战车化为灰烬。
6.48.94
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः ।
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ॥ ६.४८.९४ ॥
连同旗帜、御者、马匹与轭具,那辆战车被毁。众多优秀车战者见车战第一的毗湿摩失去战车,……
6.48.95
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः ।
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥ ६.४८.९५ ॥
沙利耶等车战者结伴冲上。此时心中忧闷的毗湿摩登上另一辆战车,拉满弓弦……
6.48.96
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव ।
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥ ६.४८.९६ ॥
恒河之子毗湿摩仿佛含笑,缓缓向施维多逼近。就在此时,毗湿摩听到一个洪亮的声音。
6.48.97
आकाशादीरितां दिव्यामात्मनो हितसंभवाम् ।
भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥ ६.४८.९७ ॥
从天空传来的神圣之言,为他自己的利益而生:婆湿摩,婆湿摩,大臂者啊,快去努力吧!
6.48.98
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना ।
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥ ६.४८.९८ ॥
这是宇宙之源为他的胜利所定的时机。听到天神使者所说的这话之后——
6.48.99
संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥ ६.४८.९९ ॥
心中大为欢喜,便决意要杀他。看见车战者中最优秀的白(Śveta)失去战车、步行而来——
6.48.100
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.४८.१०० ॥
众大车战者一同前进,想要保护他:萨谛奇、怖军、猛光,以及般沙陀之子。
6.48.101
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान् ।
एतानापततः सर्वान्द्रोणशल्यकृपैः सह ॥ ६.४८.१०१ ॥
甘开耶、猛敌、勇猛的阿毗曼纽——他们全都前进,而德罗纳、沙利亚与克利巴则与之相对。
6.48.102
अवारयदमेयात्मा वारिवेगानिवाचलः ।
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥ ६.४८.१०२ ॥
那无量心者阻挡了他们,如同山岳阻挡水流的冲击。当所有大德的般度子孙都被阻挡之时——
6.48.103
श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात् ।
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥ ६.४८.१०३ ॥
世韦陀拔出剑斩断了毗湿摩的弓。于是祖父丢开断弓,急忙
6.48.104
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे ।
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥ ६.४८.१०४ ॥
听了天使的话,他决心杀死对方。于是你的父亲提婆跋罗陀,
6.48.105
अन्यत्कार्मुकमादाय त्वरमाणो महारथः ।
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥ ६.४८.१०५ ॥
这位大车将拿起另一张弓,瞬间便拉上弦,光彩如因陀罗之弓。
6.48.106
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः ।
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ॥ ६.४८.१०६ ॥
婆罗多族中最优秀的人啊,你的父亲看见世韦陀被以怖军为首的、如人中猛虎的大车将们所围绕。
6.48.107
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् ।
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥ ६.४८.१०७ ॥
恒河之子迅速向统帅世韦陀冲去。然后,威猛的毗湿摩扑向怖军时,
6.48.108
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः ।
अभिमन्युं च समरे पिता देवव्रतस्तव ॥ ६.४८.१०८ ॥
那位大车将以六十支箭射伤了统帅;而在战场上,你的父亲提婆跋罗陀也射向阿毗摩竭陀。
6.48.109
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः ।
सात्यकिं च शतेनाजौ भरतानां पितामहः ॥ ६.४८.१०९ ॥
婆罗多族中最优秀者以三支弯曲节柄的箭射击,并在战场上以一百箭射击萨提亚基——婆罗多族的祖父。
6.48.110
धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः ।
तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ॥ ६.४८.११० ॥
以二十箭射德里什塔登尤姆纳,以五箭射凯开耶王子;而那些大弓箭手,你的父亲提婆跋多全都射中。
6.48.111
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे ।
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥ ६.४८.१११ ॥
以可怕的箭击退他们之后,他冲向白色(Śveta)。然后他取出一支至高的箭,如同死亡,能完成其使命。
6.48.112
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम् ।
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥ ६.४८.११२ ॥
强大的毗湿摩拉弓,搭上那支难以抵挡的箭——与梵天之箭紧密结合的、带羽的那支箭。
6.48.113
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः ।
स तस्य कवचं भित्वा हृदयं चामितौजसः ॥ ६.४८.११३ ॥
天神、乾闼婆、毕舍遮、龙蛇与罗刹都看见了。那支箭穿透了无限威力者的铠甲,直抵其心。
6.48.114
जगाम धरणीं बाणो महाशनिरिव ज्वलन् ।
अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः ॥ ६.४८.११४ ॥
那支箭如大雷电般燃烧着坠落于地——如同落日迅速收回其光芒。
6.48.115
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह ।
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥ ६.४८.११५ ॥
如此夺去生命,白身者离去了。那位人中之虎,在战斗中被毗湿摩如此击杀,(人们看见了)。
6.48.116
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम् ।
अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥ ६.४८.११६ ॥
我们看见他像山峰崩落一样倒下。那里,般度之子和大车战士刹帝利们都悲伤了。
6.48.117
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः ।
ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ॥ ६.४८.११७ ॥
你的儿子们和所有库卢人都欢喜。然后,大王,难敌之弟难降见白者被击倒,
6.48.118
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः ।
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ॥ ६.४८.११८ ॥
在凶猛的乐器声中,当那位大弓箭手被战场上光辉的毗湿摩杀死时,他四处舞蹈。
6.48.119
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः ।
ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः ॥ ६.४८.११९ ॥
以湿婆丁为首的大弓箭手和车战士们颤抖了。大王,然后,财富征服者(阿周那)和韦尔希尼之子(克里希纳)也四处颤抖。
6.48.120
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ ।
ततोऽवहारः सैन्यानां तव तेषां च भारत ॥ ६.४८.१२० ॥
当统帅被杀后,他们渐渐开始撤退。然后,婆罗多的后裔啊,你的军队和他们的军队都撤退了。
6.48.121
तावकानां परेषां च नर्दतां च मुहुर्मुहुः ।
पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः ।
चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ॥ ६.४८.१२१ ॥
你方与敌方的士卒反复呐喊之时,般度之子与大车勇士们心情沮丧地转身而回,思量着单独决斗中即将发生的可怕杀戮,啊,焚烧敌人者。