Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.50.1

कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ॥ ६.५०.१ ॥

婆罗多族的雄牛啊,第一日的战斗结束、军队撤退之时,毗湿摩怒气勃发于战中,难敌则心中欢喜。

6.50.2

धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ ६.५०.२ ॥

于是法王急速走近遮那陀那,与诸兄弟及所有国王同行。

6.50.3

शुचा परमया युक्तश्चिन्तयानः पराजयम् ।
वार्ष्णेयमब्रवीद्रजान्दृष्ट्वा भीष्मस्य विक्रमम् ॥ ६.५०.३ ॥

心怀极大悲伤,思虑败绩,望见诸王与毗湿摩的勇猛,遂对婆利瑟尼(黑天)说道。

6.50.4

कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ ६.५०.४ ॥

黑天啊,请看那伟大的弓箭手毗湿摩,威力可怖,他以箭矢焚烧我的军队,如夏日之火焚烧草丛。

6.50.5

कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ ६.५०.५ ॥

我们怎能正视这位大德之人?他吞噬我的军队,如同以供物所养之火。

6.50.6

एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।
दृष्ट्वा विप्रद्रुर्त सैन्यं समरे मार्गणाहतम् ॥ ६.५०.६ ॥

见此人中之虎、持弓之大力者,战场上被箭射伤的军队便溃散奔逃。

6.50.7

शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ॥ ६.५०.७ ॥

在战斗中,或许可以战胜愤怒的阎摩、手持金刚杵的因陀罗、持索的伐楼那,或手持权杖的俱毗罗。

6.50.8

न तु भीष्मो महाजेताः शक्यो जेतुं महाबलः ।
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लुवे ॥ ६.५०.८ ॥

然而,大胜者、大力的毗湿摩不可战胜。如此,我沉没于毗湿摩那无底的水中,没有可以漂浮的筏子。

6.50.9

आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।
वनं यात्सामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ॥ ६.५०.९ ॥

啊,俱舍婆,因我自己智慧的薄弱,我将去见毗湿摩,然后前往森林,啊,伐利西尼的后裔;在那里生活对我来说更好。

6.50.10

न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ ६.५०.१० ॥

然而,这些地上的守护者不应交给如同死神的毗湿摩;啊,黑天,精通大神兵的毗湿摩将毁灭我的军队。

6.50.11

यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः ।
विनाशायोपगच्छन्ति तथा मे सनिको जनः ॥ ६.५०.११ ॥

如飞蛾扑向熊熊烈火,走向毁灭,我的人民与军队也正奔向毁灭。

6.50.12

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातश्चैव मे वीराः कर्शिताः शरपीडिताः ॥ ६.५०.१२ ॥

啊,伐利西尼的后裔,为了王国,我虽勇猛,却被引向毁灭;我的英雄兄弟们也被箭矢所伤,已然憔悴。

6.50.13

मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात् ।
जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ ६.५०.१३ ॥

因我之故,出于兄弟之情,他们失去了王国与幸福;因此我珍视生命,因为今日生命难得。

6.50.14

जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् ।
न घातयिष्यामि रणे मित्राणीमानि केशव ॥ ६.५०.१४ ॥

我将以余生行艰难的苦行;克舍婆啊,我不会让这些朋友在战场上被杀。

6.50.15

रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः ।
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥ ६.५०.१५ ॥

大力的毗湿摩以神圣的兵器不停地摧毁我的数千辆战车,以及那些最优秀的战士。

6.50.16

किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् ।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ ६.५०.१६ ॥

摩陀婆啊,我应当做什么才对我有利?不要迟延,快告诉我。在战场上,我看见左手善射的阿周那仿佛是个旁观者。

6.50.17

एको भीमः परं शक्त्या युध्यत्येव महाभुजः ।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ ६.५०.१७ ॥

大臂的怖军独自全力作战,只凭双臂的勇力,并铭记刹帝利的本分。

6.50.18

गदया वीरघातिन्या यथोत्साहं महामनाः ।
करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु ॥ ६.५०.१८ ॥

大心的怖军以杀戮英雄的铁杵,依其勇气,在车、马与人的行列中建立了难以做到的功绩。

6.50.19

नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ ६.५०.१९ ॥

此人独自不能摧毁敌军,尊者啊;即使以正面交战,也非百年之功,英雄啊。

6.50.20

एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ ६.५०.२० ॥

你这位唯一精通兵器的朋友,却忽视我们,而我们正被毗湿摩与伟大的德罗纳焚烧。

6.50.21

दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ ६.५०.२१ ॥

毗湿摩与伟大的德罗纳的神兵,一再发动,将焚尽所有刹帝利。

6.50.22

कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ ६.५०.२२ ॥

克里希那啊,毗湿摩极其愤怒,并与所有国王联合,必定会毁灭我们;他的威力正是如此。

6.50.23

स त्वं पश्य महाभाग योगेश्वर महारथम् ।
भीष्मं यः शमयेत्संख्ये दावाग्निं जलदो यथा ॥ ६.५०.२३ ॥

大福之人啊,瑜伽之主啊,请看那位大战车武士毗湿摩——正如云朵熄灭林火,在战场上能平息他的,唯有你。

6.50.24

तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः ॥ ६.५०.२४ ॥

哥文達啊,凭你的恩典,般度五子杀死仇敌,重获自己的王国,将与亲族一同欢喜。

6.50.25

एवमुक्त्वा ततः पार्थो ध्यान्नास्ते महामनाः ।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ ६.५०.२५ ॥

如是说罢,大心的般遮(阿周那)并未久坐沉思;他内心沉潜,神志为悲痛所伤。

6.50.26

शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् ।
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ ६.५०.२६ ॥

知其为悲痛所苦、心为忧伤所伤,于是哥文达在那里对众般度之子说话,使他们欢喜。

6.50.27

माशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि ।
यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनःक ॥ ६.५०.२७ ॥

勿忧,婆罗多族中最优秀者;你不应悲伤,因为你的兄弟们是英雄,在所有世界中都是善射的勇士。

6.50.28

अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः ।
विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ॥ ६.५०.२८ ॥

我、大名鼎鼎的萨提亚基,还有这二位——毗罗吒与德鲁帕达,以及普里沙塔之子德里斯塔笃姆那——我们都愿为你效力,国王啊。

6.50.29

तथैव सबलाश्चेमे राजानो राजसत्तम ।
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते ॥ ६.५०.२९ ॥

同样,这些率军的国王,最优秀的国王啊,都在等待你的恩典;你的信徒们也是如此,人民之主啊。

6.50.30

एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।
सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ॥ ६.५०.३० ॥

你那位普里沙塔之子,始终希望你好、乐于你所珍爱之事的大力德里斯塔笃姆那,已获得了统帅军队之位。

6.50.31

शिखण्डी च महाबाहो भीष्मस्य निधनं किल ।
एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् ।
अब्रवीत्समितौ तस्यां वासुदेवस्य श्रृण्वतः ॥ ६.५०.३१ ॥

大臂者啊,尸犍底也如此谈及毗湿摩之死。法王听后,在那集会中,当婆苏提婆听着时,对大车士檀提衍那说道。

6.50.32

धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष ।
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ ६.५०.३२ ॥

檀提衍那啊,请听我将要对你说的话,尊贵者啊。我所说的这句话不可违背。

6.50.33

भवान्सेनापतिर्मह्यं वासुदेवेन संमितः ।
कार्तिकेयो यथा नित्यं देवानामभवत्पुरा ॥ ६.५०.३३ ॥

你是我的统帅,被婆苏提婆视为同等,正如往昔室建陀始终是诸天神的统帅。

6.50.34

तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ।
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ॥ ६.५०.३४ ॥

同样,你也是般度子孙的统帅,人中之牛啊。因此,人中之虎啊,勇猛向前,杀死俱卢族人吧。

6.50.35

अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष ।
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ॥ ६.५०.३५ ॥

我也将跟随你,还有毗摩与黑天,尊贵者啊,摩德利的两个儿子一同前往,以及披甲的黑公主之子们。

6.50.36

ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ।
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ॥ ६.५०.३६ ॥

还有其他主要的大地统治者啊,人中之牛。于是檀提衍那激励众人,对他们说道。

6.50.37

अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा ।
रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ॥ ६.५०.३७ ॥

我是德罗纳的毁灭者,帕尔塔啊,往昔由湿婆所任命。在战场上,我也将迎战毗湿摩、克里帕、德罗纳、沙利耶和胜车。

6.50.38

सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ।
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ॥ ६.५०.३८ ॥

今日我将在战场上与所有那些骄傲之人作战,国王啊。于是,被战斗之狂热所陶醉的大弓箭手般度诸子发出了高声呐喊。

6.50.39

समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ।
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ॥ ६.५०.३९ ॥

当摧毁敌人的毗湿多(德里湿陀衍那)起身之时,帕尔塔便对军队统帅毗湿多说道。

6.50.40

व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ।
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ॥ ६.५०.४० ॥

此阵名为鹤翼阵(Krauñcāruṇa),能摧毁一切敌人;在天神与阿修罗之战时,布里哈斯帕蒂将其传授给因陀罗。

6.50.41

तं यथावत्प्रतिव्यूहं परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ ६.५०.४१ ॥

愿诸王与俱卢族一同目睹这摧毁敌军的应对阵势,它是前所未见的。

6.50.42

यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा ।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥ ६.५०.४२ ॥

依照人主(坚战)所嘱,如同毗湿奴与执金刚因陀罗同在,黎明时他将财主(阿周那)安置在全军之前。

6.50.43

आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ ६.५०.४३ ॥

他的旗帜行于日道,奇妙而华美,是因因陀罗的命令由毗首羯摩所造。

6.50.44

इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः ।
आकाशग इवाकाशे गन्धर्वनगरोपमः ॥ ६.५०.४४ ॥

以因陀罗弓色的旗幡装饰,它如行于天空者,如空中的乾闼婆城。

6.50.45

नृत्यमान इवाभाति रथचर्यासु मारिष ।
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ॥ ६.५०.४५ ॥

在战车的运行中它闪耀如舞动,尊者啊;那嵌有宝石的战车上是般度之子,手持甘狄拔弓者。

6.50.46

बभूव परमोपेतः सुमेरुरिव भानुना ।
शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः ॥ ६.५०.४६ ॥

它变得极其华美,如太阳照耀下的须弥山;国王德鲁波达被大军围绕,成为其首领。

6.50.47

कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ ।
दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ॥ ६.५०.४७ ॥

贡提菩阇与奇狄王,二位人主,如同他的双目般亲近;达莎尔纳迦与普拉跋陀罗与达舍勒迦部众一同。

6.50.48

अनूपकाः किराताश्च ग्रीवायां भरतर्षभ ।
पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा ॥ ६.५०.४८ ॥

婆罗多族之牛啊,颈部是阿奴波迦与吉罗陀人;大王啊,还有钵车罗人、般陀罗人,以及补罗婆迦人。

6.50.49

निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ।
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.५०.४९ ॥

尼沙陀人随同坚战居于后方;两翼则是毗摩仙与般遮之子猛光。

6.50.50

द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ।
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ॥ ६.५०.५० ॥

德罗波蒂之子、阿毗曼尤与大车将萨特亚基,连同毗舍遮、达罗陀、般陀罗及昆迪毗沙人。

6.50.51

मारुता धेनुकाश्चैव तंगमाः परतंगणाः ।
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥ ६.५०.५१ ॥

摩噜多人、提努迦人、当伽人与波罗当伽那人、巴利迦人与提提罗人;还有朱罗与潘地亚人,婆罗多啊。

6.50.52

एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ।
अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः ॥ ६.५०.५२ ॥

大王,这些国族据守右翼:阿耆尼毗舍人、图登陀人、摩罗婆人与檀婆罗人。

6.50.53

शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥ ६.५०.५३ ॥

舍跋罗、乌德跋萨与跋蹉人,连同那古罗的部众;那古罗与萨诃提婆据守左翼。

6.50.54

रथानामयुतं पक्षौ शिरस्तु नियुतं तथा ।
पृष्ठमर्बुदमेवासीत्सहस्रामि च विंशतिः ॥ ६.५०.५४ ॥

两翼各有一万辆战车,前锋为一尼优多;后方则有一阿浮陀及另二万。

6.50.55

ग्रीवायां नियुतं चापि सहस्रामि च सप्ततिः ।
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ॥ ६.५०.५५ ॥

颈部有一万和七万头象;两翼、副翼及翼端also有象。

6.50.56

जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ।
जघनं पालयामास विराटः सह केकयैः ॥ ६.५०.५६ ॥

大王,他们被环绕着,如同移动的山岳一般前行;毗罗吒与持国的克迦耶人一同守卫后翼。

6.50.57

काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ।
एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ॥ ६.५०.५७ ॥

迦尸王与湿毗也,率三阿由多战车;婆罗多啊,般度诸子就这样布下了这大阵。

6.50.58

सूर्योधयं त इच्छतः स्थिता युद्धाय दंशिताः ।
तेषामादित्यवर्मानि विमलानि महान्ति च ।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ६.५०.५८ ॥

他们期待日出,披甲待战;他们那如太阳般洁净宏大的甲胄,以及白色的伞盖,在象与战车上熠熠生辉。