摩诃婆罗多 · 章 6.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.55.1
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत ।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ ६.५५.१ ॥
婆罗多之子啊,那一天大部分时间在午后,在车、象、马、步兵与骑兵的大屠杀中度过。
6.55.2
द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ॥ ६.५५.२ ॥
般遮罗的王子与德罗纳之子、沙利耶和大德的克里帕交战,对抗这三位大车战士。
6.55.3
स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ ६.५५.३ ॥
那位大力的般遮罗王子以十支锐利迅疾的箭,射杀了德罗纳之子闻名于世的马匹。
6.55.4
ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ ६.५५.४ ॥
于是德罗纳之子因坐骑被杀,迅速登上沙利耶的战车,向般遮罗王子倾泻箭雨。
6.55.5
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत ।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ ६.५५.५ ॥
婆罗多啊,见德罗纳之子与德里斯塔德尤姆纳交战,苏跋德罗之子迅速冲上前去,洒下锐利的箭矢。
6.55.6
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ॥ ६.५५.६ ॥
那位人中雄牛以二十五支箭射中沙利耶,以九支射中克里帕,以八支射中阿湿婆陀曼。
6.55.7
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा ।
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ ६.५५.७ ॥
随后德罗纳之子迅速以一箭射中阿周那之子;沙利亚以十箭射他,慈悲以三支利箭射他。
6.55.8
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ ६.५५.८ ॥
你的孙子罗什曼那欣喜地向站在面前的苏跋陀罗之子前进;于是战斗开始了。
6.55.9
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा ।
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ ६.५५.९ ॥
杜尔约达那之子大怒,在战斗中射伤了苏跋陀罗之子,这位敌方勇士的杀手;大王啊,那情形竟如奇迹一般。
6.55.10
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ ६.५५.१० ॥
阿毗曼尤大怒,婆罗多之雄啊,他以五十支箭射向他的兄弟;大王啊,那手快之人反击了。
6.55.11
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा ।
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ॥ ६.५५.११ ॥
罗什曼那又以一箭在握柄处射断了他的弓;大王啊,于是众人高声呼喊。
6.55.12
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा ।
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ ६.५५.१२ ॥
苏跋陀罗之子,这位敌方勇士的杀手,丢下那断弓,另取一张明亮而更为迅疾的弓。
6.55.13
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ ६.५५.१३ ॥
二人在战场上相互交锋,都想以牙还牙,用锐利的箭互相射击——他们是人中的雄牛。
6.55.14
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम् ।
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ॥ ६.५५.१४ ॥
此时,国王难敌看到他那位大车战士之子被你的孙子所困,便前往那里——他是万民之主。
6.55.15
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ ६.५५.१५ ॥
你的儿子退回后,所有人之主便以战车连成的阵列,从四面八方包围了阿周那之子。
6.55.16
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ ६.५५.१६ ॥
国王啊,尽管被那些难以战胜的勇士包围,那位勇武与黑天相当的英雄,在战场上丝毫没有动摇。
6.55.17
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः ।
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ॥ ६.५५.१७ ॥
丹加耶看见苏跋陀罗之子陷入重围,便想要保护自己的儿子,疾速冲了过去。
6.55.18
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ ६.५५.१८ ॥
于是诸王,连同战车、象和马,在毗湿摩与德罗纳的率领下,一同向善用双臂的射手阿周那逼近。
6.55.19
उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः ।
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ॥ ६.५५.१९ ॥
由象、马、车与步兵骤然扬起的大地尘土,直达太阳之车,显得浓密可见。
6.55.20
तानि नागसहस्राणि भूमिपालशतानि च ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ ६.५५.२० ॥
那数千头象和数百位国王,一进入他箭矢的射程便无法前进分毫。
6.55.21
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ॥ ६.५५.२१ ॥
一切众生皆悲鸣,四方昏暗,库鲁族人身上显现出猛烈而可怖的灾祸。
6.55.22
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ॥ ६.५५.२२ ॥
婆罗多之最啊,因戴冠者的兵器密集,天空、四方、大地与太阳皆不可见。
6.55.23
सादिता रथनागाश्च हताश्वा रथिनो रणे ।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ ६.५५.२३ ॥
战中车与象被摧毁,马匹死亡的车战士纷纷倒地;可见一些车队统领的战车四散,正在逃奔。
6.55.24
विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ ६.५५.२४ ॥
其他失去战车的车战士四处奔跑,到处可见他们手持兵器、臂上戴着臂钏的手臂。
6.55.25
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ ६.५५.२५ ॥
骑马者弃马而去,骑象者与象兵,啊国王,因惧怕阿周那而四处奔逃。
6.55.26
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ॥ ६.५५.२६ ॥
从战车、象和马上坠落的国王,以及正被击落的国王,都可见被阿周那的箭射中。
6.55.27
सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते ।
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ ६.५५.२७ ॥
高举的手臂,持着铁棍、刀剑、长矛、箭囊、箭和弓,啊人民之主。
6.55.28
साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ॥ ६.५५.२८ ॥
无论有驭象钩还是旗帜,阿周那到处以猛烈的箭斩杀众人,他的身形变得可怖。
6.55.29
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष ।
प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ॥ ६.५५.२९ ॥
啊,在燃烧的铁棒、铁锤、长矛、投枪与剑的战斗中。
6.55.30
परश्वथानां पीक्ष्णानां तोमराणां च भारत ।
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ॥ ६.५५.३० ॥
啊婆罗多,锋利的战斧与投矛,以及被击落的金甲,啊国王。
6.55.31
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां तोमराणां च भारत ॥ ६.५५.३१ ॥
婆罗多啊,旗帜、盾牌、羽扇、金柄伞盖和标枪散落四处。
6.55.32
प्रतोदानां च योक्राणां कशानां चैव मारिष ।
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ ६.५५.३२ ॥
尊者啊,在这战场上可以看到驱策杖、轭和鞭子堆成的一堆堆,散落各处。
6.55.33
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ॥ ६.५५.३३ ॥
婆罗多啊,你的军中竟没有一人能以任何方式在战斗中迎战英勇的阿周那。
6.55.34
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते ।
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥ ६.५५.३४ ॥
人民之主啊,凡在战斗中迎向般度之子者,皆被锐利的箭送往彼岸世界。
6.55.35
तेषु विद्रवमाणेषु तव योधेषु सर्वशः ।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ ६.५५.३५ ॥
你的战士四散奔逃之时,阿周那与婆苏提婆吹响了他们两支上好的法螺。
6.55.36
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव ।
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ ६.५५.३६ ॥
你的父亲提婆跋罗多见自己的军队溃散,仿佛微笑着,在战斗中对英勇的婆罗堕遮说道。
6.55.37
एष पाण्डुसुतो वीर कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः ॥ ६.५५.३७ ॥
这位与黑天同在的强大英雄、般度之子,正如财主(阿周那)那样指挥着军队。
6.55.38
न ह्येष समरे शक्यो विजेतुं हि कथंचन ।
यथास्य दृश्यते रूप कालान्तकयमोपमम् ॥ ६.५५.३८ ॥
此人在战场上无论如何都无法被战胜;他的形貌看起来如同时间、终结者与阎摩。
6.55.39
न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ॥ ६.५५.३९ ॥
这支庞大的军队甚至无法被调转回头;看哪,这支彼此亲爱的军队正在逃跑。
6.55.40
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते ।
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ ६.५५.४० ॥
看哪,光明的太阳正向山中之最落下,仿佛将全世界的眼睛完全收回。
6.55.41
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ॥ ६.५५.४१ ॥
人中之牛啊,我认为撤退的时刻已经到来;我方战士疲惫而恐惧,他们绝不会再战斗了。
6.55.42
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ॥ ६.५५.४२ ॥
说完这番话,大车将毗湿摩便对最优秀的师尊德罗纳说话,随后使你方的军队撤退。
6.55.43
ततः सरथनागाश्वा जंय प्राप्य समोपकाः ।
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ॥ ६.५५.४३ ॥
于是般遮罗人与般度五子乘着战车、象和马,获得胜利,与随从一起一次又一次地欢呼。
6.55.44
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः ।
वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ॥ ६.५५.४४ ॥
以自财(阿周那)为首,大车武士们欢欣鼓舞,伴随着乐器之声一边呼喊一边走向营地。
6.55.45
ततोऽवहारः सैन्यानां तव तेषां च भारत ।
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥ ६.५५.४५ ॥
于是,婆罗多的后裔啊,太阳落山、正值黄昏之时,你的军队与他们的军队都撤退了。