Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.68.1

स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत ।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ ६.६८.१ ॥

婆罗多之子啊,请听这首与梵相连的赞歌,颂扬黑天,它往昔曾在大地上由梵仙与诸神吟诵。

6.68.2

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ ६.६८.२ ॥

你是诸萨迪亚与诸神之神、主宰与君主,通晓护持诸世界的本性——那伽罗陀曾如此说你。

6.68.3

भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह ।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥ ६.६८.३ ॥

过去、现在与未来——摩根德耶确实曾说:你是祭祀,也是诸祭祀之一;你是苦行,也是诸苦行之一。

6.68.4

देवानामपि देवं च त्वामाह भगवान्भृगुः ।
पुराणां चैव परमं विष्णो रूपं तवेति च ॥ ६.६८.४ ॥

尊贵的婆利古称你为诸神之神;古老者的至高形相也是你的——毗湿奴啊,那正是你的形相。

6.68.5

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा ।
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ ६.६८.५ ॥

在诸婆苏中你是婆苏提婆;你也是确立因陀罗者;你是诸神之神——毗耶娑(二岛仙)如此说。

6.68.6

पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम् ।
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ॥ ६.६८.६ ॥

在太初造化众生之时,人们称达刹为生主;安吉罗斯也如此说你,是一切众生的创造者。

6.68.7

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥ ६.६८.७ ॥

你的身体出自未显现者,显现的你居于心中。诸神皆由你而生,德瓦拉与阿昔多如是说。

6.68.8

शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ ६.६८.८ ॥

天界以你的头充满,大地以你的臂充满,三界在你的腹中。你是永恒的原人。

6.68.9

एवं त्वामभिजानन्ति तपसा भाविता नराः ।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥ ६.६८.९ ॥

如此,以苦行净化的人们认识你;在以见自我而满足的圣者中,你是最优者。

6.68.10

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ ६.६८.१० ॥

对于在战斗中从不退却、在一切法中居首的高贵王仙,你是归宿,哦摩豆苏丹。

6.68.11

इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः ।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥ ६.६८.११ ॥

如此,薄伽梵、至上原人哈里,常被以萨那特昆摩罗为首的通晓瑜伽者赞颂供养。

6.68.12

एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः ।
केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ॥ ६.६८.१२ ॥

孩子,这已为你详说与略说:克沙婆的真实本性。如其真实地认识他,心怀欢喜,去崇奉克沙婆吧。

6.68.13

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव ।
केशवं बहुमेने स पाण्डवांश्च महारथान् ॥ ६.६८.१३ ॥

大王啊,你的儿子听了这段神圣的故事后,极为敬重克沙婆以及大车将般的般度五子。

6.68.14

तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ॥ ६.६८.१४ ॥

于是珊陀努之子毗湿摩又对他说:大王啊,你已听闻了大我克沙婆的伟大。

6.68.15

नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप ।
यदर्थं नृषु संभूतौ नरानारायणावृषी ॥ ६.६८.१५ ॥

大王啊,你问我的那位那罗的真实本性,以及那罗与那罗延二仙为何降生于人间,请听我说。

6.68.16

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥ ६.६८.१६ ॥

正如这二位英雄在战斗中不可被杀、不可被击败,大王啊,般度五子在战场上也不会被任何人杀死。

6.68.17

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥ ६.६८.१७ ॥

克里希那对光荣的般度五子有深厚的情谊;因此,王中之王啊,我说,愿与般度五子和好。

6.68.18

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरानारायणौ देवाववज्ञाय नशिष्यसि ॥ ६.६८.१८ ॥

与你强大的兄弟们一同,克制自己而享有大地吧;若轻慢那罗与那罗延二神,你将走向毁灭。

6.68.19

एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह ॥ ६.६८.१९ ॥

你的父亲说完这些,众生之主啊,便沉默不语。他遣走了国王,然后进入了寝室。

6.68.20

राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥ ६.६८.२० ॥

国王向大德者叩拜后回到自己的营帐;那一夜,婆罗多族的雄牛啊,他躺在洁白的床上。