Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.69.1

व्युषितायां तु शर्वर्यामुदिते च दिवाकरे ।
उभे सेने महाराज युद्धायैव समीयतुः ॥ ६.६९.१ ॥

大王啊,夜已过去,太阳升起,两军便为战斗而集结。

6.69.2

अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः ।
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ ६.६९.२ ॥

他们怒火中烧,各自想要战胜对方,在战场上彼此相望之后,全都一齐冲上前去。

6.69.3

पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव ।
व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः ॥ ६.६९.३ ॥

大王啊,依照你的谋划,般度之子与持国之子各自布下阵势;他们怒火中烧又极为振奋,准备出击。

6.69.4

अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः ।
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ ६.६९.४ ॥

大王啊,毗湿摩从四面守护着摩伽罗阵;同样,大王啊,般度之子也守护着自己的阵势。

6.69.5

अजातशत्रुः शत्रूणां मनांसि समकम्पयत् ।
श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम् ॥ ६.६९.५ ॥

无敌者(坚战)令敌人的心为之颤抖;依照仙人达乌玛的建议,他亲自将那阵势布得如鹰一般。

6.69.6

स हि तस्य सुविज्ञात अग्निचित्येषु भारत ।
मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः ॥ ६.६९.६ ॥

婆罗多之子啊,那阵式在火坛祭仪中广为人知;而你那聪慧之子的大阵则是摩伽罗阵。

6.69.7

स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा ।
यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः ॥ ६.६९.७ ॥

此时得到德罗纳的同意,恒努之子亲自率领全军,按阵形再次前进。

6.69.8

स निर्ययौ महाराज पिता देवव्रतस्तव ।
महता रथवंशेन संवृतो रथिनां वरः ॥ ६.६९.८ ॥

大王啊,你的父亲提婆伐多(毗湿摩)出阵了,他是战车武士中最杰出的,被庞大的战车队伍所环绕。

6.69.9

इतरेतरमन्वीयुर्यथाभागमवस्थिताः ।
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥ ६.६९.९ ॥

彼此相随,各依其位而立:战车武士、步兵、象兵和骑兵也都如此。

6.69.10

तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः ।
श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे ॥ ६.६९.१० ॥

看到他们在战场上推进,光荣的般度五子以鹰阵(śyena-vyūha)布列军队,并为战斗披上铠甲。

6.69.11

अशोभत मुखे तस्य भीमसेनो महाबलः ।
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ ६.६९.११ ॥

其面部闪耀着大力的怖军;双眼处是不可战胜的湿婆坎丁与普利沙塔之子达利斯塔铎尤姆那。

6.69.12

शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ ६.६९.१२ ॥

其头部是真正勇猛的英雄萨提亚奇;颈部,挥动甘狄拔弓的是普利塔之子(阿周那)。

6.69.13

अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा ।
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ ६.६९.१३ ॥

那时,与一个阿克绍诃尼军一同,左翼在那里形成。伟大的、光辉的德鲁帕达与其子在战斗中。

6.69.14

दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ ६.६९.१४ ॥

右翼是拥有一个阿克绍诃尼军的凯凯耶。后方有德罗波蒂的儿子们,还有勇猛的索跋陀罗之子。

6.69.15

पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक ।
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ॥ ६.६९.१५ ॥

后方是光辉的国王坚战本人,这位英勇而风姿优雅的英雄,与两位兄弟及阎摩的两个儿子同在。

6.69.16

प्रविश्य तु रणे भीमो मकरं मुखतस्तदा ।
भीष्ममासाद्य संग्रामे च्छादयामास सायकैः ॥ ६.६९.१६ ॥

那时,比玛从前方以摩竭阵进入战斗,在战场上靠近毗湿摩,并用箭将他覆盖。

6.69.17

ततो भीष्मो महास्राणि पातयामास भारत ।
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ ६.६९.१७ ॥

然后,婆罗多啊,毗湿摩发出大神兵,在大战中迷惑了列阵的般度诸子之军。

6.69.18

संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः ।
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ ६.६९.१८ ॥

那时,军队迷惑之际,急速的持财者在战阵前沿以千支箭射穿了毗湿摩。

6.69.19

प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे ।
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ॥ ६.६९.१९ ॥

他挡开了毗湿摩在战中射出的兵器,与欢欣的部队一同准备迎战。

6.69.20

ततो दुर्योधनो राजा भारज्वाजमभाषत ।
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥ ६.६९.२० ॥

于是强者中最优秀的国王难敌对跋罗堕遮之子德罗纳说道,因为他此前已目睹了军队的可怕屠杀。

6.69.21

भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ।
आचार्यः सततं हि त्वं हितकामो ममानघ ॥ ६.६९.२१ ॥

无罪者啊,你记着战中兄弟们的被杀,大车将啊,你实为我的导师,始终希望我好。

6.69.22

वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ।
देवानपि रणे जेतुं प्रार्थयामो न संशयः ॥ ६.६९.२२ ॥

我们依靠你和祖父毗湿摩,希望在战场上连天神也能战胜,这毫无疑问。

6.69.23

किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् ।
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ॥ ६.६९.२३ ॥

般度之子在战中岂不是勇力与气概都已衰弱?愿你吉祥,就照那样去做,使般度五子被杀。

6.69.24

एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष ।
तत्र संप्रेक्ष्य राजनं संक्रुद्ध इव निश्चसन् ॥ ६.६९.२४ ॥

你的儿子如此说了,德罗纳看着国王,仿佛愤怒地长叹了一声。

6.69.25

बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् ।
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः ॥ ६.६९.२५ ॥

你愚昧无知,不了解般度子孙的威力;般度子孙大有力量,不容易被战胜。

6.69.26

यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते ।
इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् ।
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ ६.६९.२६ ॥

他说:'我将依我的力量与勇气为你行事。'言罢,大王,他便奔向你儿子的军队;萨提亚奇看着,他刺穿了般度军的阵列。

6.69.27

सात्यकिस्तु ततो द्रौणं वारयामात भारत ।
तयोः प्रववृते युद्धं घोररूपं भयावहम् ॥ ६.६९.२७ ॥

于是萨提亚奇阻挡了德罗纳之子,婆罗多啊;两人之间开始了一场可怖、令人恐惧的战斗。

6.69.28

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान् ।
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ ६.६९.२८ ॥

然而在战场上,愤怒而强大的婆罗堕遮之子(德罗纳)以利箭射中了 Śini 之后(萨提亚奇)的锁骨部位,仿佛在大笑。

6.69.29

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ ६.६९.२९ ॥

于是愤怒的怖军刺中了婆罗堕遮之子,大王;他是为保护萨提亚奇而对抗持械者中最优秀的德罗纳。

6.69.30

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष ।
भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः ॥ ६.६९.३० ॥

于是德罗纳、毗湿摩以及沙利耶,啊,先生,在战场上愤怒,以箭雨遮蔽了怖军。

6.69.31

तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।
विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान् ॥ ६.६९.३१ ॥

那里,愤怒的阿毗曼纽与德罗波蒂的诸子,啊尊者,用利箭射穿了所有举起武器的人。

6.69.32

द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ ।
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥ ६.६९.३२ ॥

当愤怒而强大的德罗纳与毗湿摩扑来时,伟大的弓手湿阔丁在大战中迎上前去。

6.69.33

प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् ।
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ ६.६९.३३ ॥

勇士用力举起发出雷云般轰鸣的弓,迅速降下箭雨,遮蔽了太阳。

6.69.34

शिखण्डिनं समासाद्य भरतानां पितामहः ।
अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ॥ ६.६९.३४ ॥

薄罗多族的祖父走近湿阔丁,因想起他曾为女身,便避免与他交战。

6.69.35

ततो द्रोणो महाराज अभ्यद्रवत तं रणे ।
रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ॥ ६.६९.३५ ॥

于是,大王啊,德罗纳受您之子的催促,为保护毗湿摩,在战场上向他冲去。

6.69.36

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् ।
अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम् ॥ ६.६९.३६ ॥

然而湿阔丁迎上持武器者中最优秀的德罗纳,见他如劫末猛烈之火,心生恐惧而退却。

6.69.37

ततो बलेन महता पुत्रस्तव विशांपते ।
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥ ६.६९.३७ ॥

那时,人民之主啊,你的儿子率领大军来到毗湿摩身边保护他,渴望赢得伟大的声名。

6.69.38

तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम् ।
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ ६.६९.३८ ॥

同样,国王啊,般度之子们以阿周那(Dhanañjaya)居前,坚定地求胜,直向毗湿摩进攻。

6.69.39

तद्युद्धमभवद्धोरं देवानां दानवैरिव ।
जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम् ॥ ६.६९.३९ ॥

那场战斗变得如同诸神与达那婆之间的战斗般惨烈,双方都渴望在战中取胜,并赢得极其奇妙的声名。