摩诃婆罗多 · 章 6.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.7.1
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय ।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ ६.७.१ ॥
桑闍耶啊,请详述须弥山的北侧与前部,还有大智者啊,请完整描述摩利耶梵山。
6.7.2
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ ६.७.२ ॥
大王啊,在尼罗山之南,以及须弥山之北侧,是北俱卢洲,那里圣洁,常有成就者往来。
6.7.3
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ ६.७.३ ॥
那里有结蜜般甜美果实的树木,常年开花结果;花朵芬芳,果实多汁。
6.7.4
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ ६.७.४ ॥
人主啊,那里有些树结的果实能满足一切愿望;人主啊,另有名为乳树(克希林)的树。
6.7.5
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ६.७.५ ॥
它们常年流出六味如甘露般的乳汁;它们的果实中还生出衣服与装饰。
6.7.6
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप ।
पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥ ६.७.६ ॥
那里的大地全由宝石构成,铺满细细的金沙,四季触感宜人,没有淤泥;人主啊,那里还有触感舒适、令人心醉的美丽莲花池。
6.7.7
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।
शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः ॥ ६.७.७ ॥
从天界坠落的众生,都在那里生为人类;他们都出身于光明的族姓,外貌极为可喜。
6.7.8
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥ ६.७.८ ॥
那里也生成双生的成对之人,女子如同阿普萨拉斯;他们饮用那些乳树的乳汁,其味如甘露。
6.7.9
मिथुनं जायते काले समं तच्च प्रवर्धते ।
तुल्यरूगुणोपेतं समवेषं तथैव च ॥ ६.७.९ ॥
这对双生者按时一同降生,一同成长;他们容貌与品德相同,衣着亦相同,如此而已。
6.7.10
एवमेवानुरूपं च चक्रवाकसमं विभो ।
निरापगाम ते लोका नित्यं मुदितमानसाः ॥ ६.७.१० ॥
同样地,恰如赤鸭,啊,大力者!那些世人心常欢喜,远离忧愁之河。
6.7.11
दशवर्षसहस्राणि शशवर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ ६.७.११ ॥
他们寿命为一万又一百年,大王啊;他们彼此不相离弃。
6.7.12
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥ ६.७.१२ ॥
名为婆噜达的鸟,嘴尖而力大,从此处衔走死者,将他们抛入洞穴中。
6.7.13
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ ६.७.१३ ॥
大王,我已简要叙述了北方俱卢人。现在我先如实讲述须弥山的一侧。
6.7.14
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ ६.७.१४ ॥
人主啊,那里是跋陀罗婆的灌顶之处,那里有跋陀罗娑罗林和名为迦罗摩罗的大树。
6.7.15
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः ।
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥ ६.७.१५ ॥
大王,迦罗摩罗是一棵吉祥的树,常开花结果;高一由旬,为悉陀与遮罗那所侍奉。
6.7.16
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ ६.७.१६ ॥
那里的男子白皙、光彩照人、力量强大;女子肤色如睡莲,美丽动人,令人喜爱。
6.7.17
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः ॥ ६.७.१७ ॥
他们光辉如月,肤色如月,面容如初月,肢体清凉如月,精通舞蹈与歌唱。
6.7.18
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ ६.७.१८ ॥
婆罗多中的雄牛啊,那里的寿命为一万年;他们饮用迦罗摩罗的汁液,永远停留在青春之中。
6.7.19
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ ६.७.१९ ॥
在尼罗山之南、尼沙陀山之北,有名为苏达尔沙那的大阎浮树,它是永恒的。
6.7.20
सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ ६.७.२० ॥
其果实能满足一切愿望,神圣,为悉陀与遮罗那所侍奉;此永恒之洲因其名而称为阎浮提。
6.7.21
योजनानां सहस्त्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर ॥ ६.७.२१ ॥
婆罗多中的雄牛啊,人主啊,此树王高一千一百由旬,触及天空。
6.7.22
अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ ६.७.२२ ॥
此树周长为一千五百阿罗特尼;其果实的汁液各不相同。
6.7.23
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥ ६.७.२३ ॥
这些果实落下时,在大地上发出巨响;国王啊,它们流出如银般的汁液。
6.7.24
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥ ६.७.२४ ॥
此阎浮树的果汁化为河流,人主啊,它绕须弥山右旋而行,流向北俱卢。
6.7.25
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ ६.७.२५ ॥
在那里,他们心境平和,没有口渴,人主啊。饮下那果汁之后,衰老便不再困扰他们。
6.7.26
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् ॥ ६.७.२६ ॥
那里产生一种名为阎浮那陀的金子,是诸神的饰物;它闪耀如红色的因陀罗虫。
6.7.27
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ।
तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ॥ ६.७.२७ ॥
那里的人生来便有初升太阳的颜色;同样,在摩利耶梵山的峰顶,总能看见献祭之火哈维亚瓦德。
6.7.28
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ।
तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ॥ ६.७.२८ ॥
名为三转(Saṃvartaka)的时间之火,婆罗多之牛啊;同样,在摩利耶梵山的峰顶,一道接一道的山脊相连。
6.7.29
योजनानां सहस्राणि पञ्चषण्माल्यवानथ ।
महारजतसंकाशा जायन्ते तत्र मानवाः ॥ ६.७.२९ ॥
摩利耶梵山延绵五六千由旬;那里诞生的人如同大片白银般光亮。
6.7.30
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः ।
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥ ६.७.३० ॥
他们都从梵天界堕落而来,在善人之中都是善人;他们行苦烈的苦行,成为上行精液者。为了护佑众生,他们进入太阳。
6.7.31
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ ६.७.३१ ॥
六万与六百,他们走在阿鲁那之前,环绕太阳而行。
6.7.32
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ ६.७.३२ ॥
六万年与六百年,被日光炽热所煎熬,他们进入月轮之中。