摩诃婆罗多 · 章 6.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.70.1
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा ।
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥ ६.७०.१ ॥
那时,珊覃奴之子毗湿摩因惧怕怖军,想要救护你的儿子们,展开了激烈的战斗。
6.70.2
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ ६.७०.२ ॥
上午,那场诸王之间极为可怖的战斗开始了,它摧毁了俱卢族与般度族的主要勇士。
6.70.3
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥ ६.७०.३ ॥
在那混乱激烈的战斗中,在巨大的恐怖里,一阵喧嚣之声升起,直冲广阔的天空。
6.70.4
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥ ६.७०.४ ॥
大象咆哮,战马嘶鸣,鼓声与海螺声交织,战场变得喧嚣无比。
6.70.5
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक ।
अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ॥ ६.७०.५ ॥
渴望战斗、勇猛强大的武士们为了胜利彼此咆哮,如同牛栏中的大公牛。
6.70.6
शिरासं पात्यमानानां समरे निशितैः शरैः ।
अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ ६.७०.६ ॥
在战场上被锐利箭矢射落者的头颅,在天空中如同箭雨一般,哦,婆罗多族的雄牛。
6.70.7
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ ६.७०.७ ॥
可见落下的头颅,戴着耳环和头巾,闪耀如金,啊,婆罗多的雄牛。
6.70.8
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ ६.७०.८ ॥
大地被被箭矢摧毁的躯体、带弓的手臂、手和其他饰物覆盖了。
6.70.9
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ ६.७०.९ ॥
身披铠甲的躯体,装饰华美的双手,如月般的面庞,眼角泛红的美丽双眼。
6.70.10
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः ॥ ६.७०.१० ॥
大王啊,象、马与人的全部躯体,顷刻之间覆盖了整个大地。
6.70.11
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥ ६.७०.११ ॥
在尘云翻腾、兵器闪电般照耀之中,兵器的轰鸣如同雷声。
6.70.12
स संप्रहारस्तुमुलःक कटुकः शोणितोदकः ।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ ६.७०.१२ ॥
啊,婆罗多,那场以血为水的喧嚣而残酷的厮杀,在俱卢与般度之间爆发了。
6.70.13
तस्मिन्महाभये घोरे तुमुले रोमहर्षणे ।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ ६.७०.१३ ॥
在那场可怕、喧嚣、令人毛骨悚然的大战中,陶醉于战斗狂热的刹帝利们降下了箭雨。
6.70.14
आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ॥ ६.७०.१४ ॥
那里,被箭雨折磨的象群在哭号——无论是你的还是敌人的,在那场战斗中,婆罗多的雄牛啊。
6.70.15
संरब्धानां च वीराणां धीराणाममितौजसाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥ ६.७०.१५ ॥
在那些愤怒、坚毅、力量无量的英雄们的弓弦声中,什么也分辨不出。
6.70.16
उत्थितेषु कबन्धेषु सर्वतः शोमितोदके ।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥ ६.७०.१६ ॥
在血水之中,四面八方无头的躯干都站立起来,而渴望杀死敌人的国王们在那场战斗中奔跑。
6.70.17
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥ ६.७०.१७ ॥
那些光辉无量、臂如铁棍的勇士们,用箭、矛、钉锤和剑在战场上彼此杀戮。
6.70.18
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ ६.७०.१८ ॥
这里,被箭射中、失去象钩的象群四处乱窜;骑手已死的战马向十方奔逃。
6.70.19
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।
तावकानां परेषां च योधा भरतसत्तम ॥ ६.७०.१९ ॥
其他人被箭矢的打击折磨,跃起又倒下,无论是你的一方还是敌方,哦,婆罗多中最优秀者。
6.70.20
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत ।
गदानां परिघाणां च हस्तानां चोरुभिः सह ॥ ६.७०.२० ॥
哦,婆罗多,那里可以看到马匹、头颅、弓、棍棒、铁杵、手臂和大腿堆积成山。
6.70.21
पादानां भूषणानां च केयूराणां च सङ्घशः ।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥ ६.७०.२१ ॥
在毗湿摩与怖军相遇的那场战斗中,那里成群地可见脚、饰物和臂钏堆积成山。
6.70.22
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् ।
सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते ॥ ६.७०.२२ ॥
哦,人主,到处都可看到马匹、大象和不退却的战车堆成的群落。
6.70.23
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ॥ ६.७०.२३ ॥
时候已到,刹帝利们在那里用棍棒、剑、矛和带弯节的箭相互攻击。
6.70.24
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि ।
बहुधा समसञ्जन्त आयसैः परिघैरिव ॥ ६.७०.२४ ॥
其他精通战场摔角的勇士,用双臂以多种方式相互搏斗,仿佛挥舞着铁杵。
6.70.25
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते ।
अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ॥ ६.७०.२५ ॥
人主啊,你的勇士与般度之子们一起,以拳、膝和掌相互搏击。
6.70.26
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले ।
घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ॥ ६.७०.२६ ॥
人主啊,倒地的、被击倒的和在地上翻滚挣扎的人,使这里那里形成了可怕的战场。
6.70.27
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥ ६.७०.२७ ॥
此处,无车的战士与乘车的战士手持精良的剑,彼此冲杀,互相寻求对方的死亡。
6.70.28
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः ।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ ६.७०.२८ ॥
于是,被众多羯陵伽人环绕的国王难敌,将毗湿摩置于前列,在战场上向般度之子进发。
6.70.29
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् ।
भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ॥ ६.७०.२९ ॥
同样,所有般度之子环绕狼腹(怖军),愤怒地冲向毗湿摩;于是战斗开始了。