摩诃婆罗多 · 章 6.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.76.1
एवं बहुगुणं सैन्यमेवं बहुविधं परम् ।
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥ ६.७६.१ ॥
añjaya,此軍具足諸多德性,如此多種而殊勝,依論典如此列陣,無有失誤。
6.76.2
जुष्टमस्माकमत्यन्तमभिकामं च नः सदा ।
प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ ६.७६.२ ॥
為我等一向極為珍愛與渴慕,歡欣,與我們同受患難,其勇武先前已見。
6.76.3
नातिवृद्धमबालं च न कृशं न च पीवरम् ।
लघुवृत्तायतप्रायं सागराकारमव्ययम् ॥ ६.७६.३ ॥
非甚老亦非童子,非瘦削亦非肥胖,多為輕盈、圓潤而修長之肢體,形如大海,不衰減。
6.76.4
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ ६.७६.४ ॥
披甲持械,executing多種兵器,精於劍戰、角力與杖戰。
6.76.5
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ ६.७६.५ ॥
於陣中,精通矛、投矛與短矛,鐵杖、鐵挺(bhiṇḍipāla)、標槍、杵,皆無不精。
6.76.6
कम्पनेषु च चापेषु कणपेषु च सर्वशः ।
क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम् ॥ ६.७६.६ ॥
於顫動之兵、弓、kaṇapa、kṣeṇaṇīya、種種奇異兵器及拳戰,皆極為嫻熟。
6.76.7
अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् ।
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥ ६.७६.७ ॥
于诸学明晰精通,在操练中勤苦用功,在一切持兵之术中已臻圆满。
6.76.8
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ ६.७६.८ ॥
精于上车下车、进退、间隔跳跃、正确出击、驾车以及后撤。
6.76.9
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ ६.७६.९ ॥
在象、马、车等乘具上多次经过细致考核,依法考核之后以俸禄任用。
6.76.10
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः ।
न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ॥ ६.७६.१० ॥
不因交往,不因恩惠,不因亲缘,不因友情之力,也不因收纳出身卑微之人。
6.76.11
समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् ।
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ ६.७६.११ ॥
拥有富足的人民,为人高尚,亲族与眷属皆悦服,多有恩德,有名望且有志气。
6.76.12
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः ।
लोकपालोपमैस्तात पालितं लोकविश्रुतम् ॥ ६.७६.१२ ॥
孩子,此处由自家之人、多次以行动证明的主要人物守护,他们如同世界的护卫者,此地在世间享有盛名。
6.76.13
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।
अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ ६.७६.१३ ॥
由大地上众多刹帝利守护、为世人所敬重者,他们出于欲望,带着军队与步卒来攻我方。
6.76.14
महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम् ॥ ६.७६.१४ ॥
如大海四面充满江河,被如无翼之鸟般的战车与象群所环绕。
6.76.15
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् ।
क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम् ॥ ६.७६.१५ ॥
可怖之海,众多战士为其水,乘骑为其波浪,被投掷之械、剑、棍、枪、箭与矛所搅动。
6.76.16
ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् ।
परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ॥ ६.७६.१६ ॥
旌旗与饰物拥挤,宝石饰带装点丰盛,被疾驰如风的骏马震动。
6.76.17
अपारमिव गर्जन्तं सागरप्रतिमं महत् ।
द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा ॥ ६.७६.१७ ॥
如无际般咆哮,巨大如海,由德罗纳、毗湿摩与刀剑守护,又由克里塔瓦尔曼守护。
6.76.18
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ ६.७६.१८ ॥
由克里帕与杜尸娑那,以胜车为首者,同样由跋伽达多与毗迦尔那,以及德罗尼、沙库尼与跋利卡守护。
6.76.19
गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः ।
यदहन्यत सैन्यं मे दिष्टमत्र परायणम् ॥ ६.७६.१९ ॥
我的军队虽有英勇战士与强大的大德守护,仍被杀尽;此处这正是天命所定的归宿。
6.76.20
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः ।
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥ ६.७६.२० ॥
桑闍耶啊,世上古代的人类,乃至大福的仙人,也从未见过如此庞大的举动。
6.76.21
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा ।
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ॥ ६.७६.२१ ॥
如此庞大、兵器充足的军队,竟也在战场上被杀;除了命运,还能有什么其他原因呢?
6.76.22
विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय ।
यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान् ॥ ६.७६.२२ ॥
桑闍耶啊,这一切看来颠倒:如此可怕的军队竟未能在战场上杀死般度子。
6.76.23
पाण्डवार्थाय नियतं देवास्तत्र समागताः ।
युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ॥ ६.७६.२३ ॥
桑闍耶啊,诸天神必定为般度子而聚集于此,与我的军队交战,因此它被杀了。
6.76.24
उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः ।
न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ॥ ६.७६.२४ ॥
维杜罗时常对我进言有益而适宜的道理,可我愚昧的儿子难敌却不接受。
6.76.25
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः ।
आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा ॥ ६.७६.२५ ॥
我认为那位全知的大智者的见解是正确的。亲爱的孩子,他早就看到了这件事会如此发生。
6.76.26
अथवा भाव्यमेवं हि संजयैतेन सर्वथा ।
पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा ॥ ६.७६.२६ ॥
或者说,桑迦耶,这事注定要如此发生,一切都是如此。正如造物主早已注定的那样,事情就这样发生,不会有别的结果。