Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.79.1

ततो दुर्योधनो राजा लोहितायति भास्करे ।
संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥ ६.७९.१ ॥

此时,国王难敌在太阳泛红之际,渴望战斗,想要杀死毗摩,冲向了他。

6.79.2

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् ।
भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ ६.७९.२ ॥

毗摩娑那看到这位人中英雄、坚定的敌人走近,极为愤怒,说出了这些话。

6.79.3

अयं स कालः संप्राप्तो वर्षपूगाभिवाञ्छितः ।
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥ ६.७९.३ ॥

多年所期盼的那一时刻已经到来。今天如果你不放弃战斗,我就要杀死你。

6.79.4

अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः ।
द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि ॥ ६.७९.४ ॥

今天你被杀死之时,我将彻底终结贡蒂的所有苦难与林中流放,以及德劳帕蒂的苦难。

6.79.5

यत्पुरा मत्सरीभूत्वा पाण्डवानवमन्यसे ।
तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥ ६.७९.५ ॥

你从前怀着嫉妒轻慢般度子孙。啊,甘陀利之子,看那罪孽所带来的灾难已降临到你身上。

6.79.6

कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा ।
अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥ ६.७९.६ ॥

从前你听从迦尔纳和沙恭尼的意见,不顾般度子孙,出于欲望而随心所欲地行事。

6.79.7

याचमानं च यन्मोहाद्दाशार्हमवमन्यसे ।
उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥ ६.७९.७ ॥

你出于迷惑而轻视那恳求的达沙尔哈(黑天),以及你欣然交给乌卢迦的那道使命。

6.79.8

तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् ।
शमीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥ ६.७९.८ ॥

因此我要连同你的随从和亲属一起杀死你;我将洗清你先前所犯的罪孽。

6.79.9

एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् ।
समाधत्त शरान्घोरान्महाशनिसमप्रभान् ॥ ६.७९.९ ॥

说完这些,他拉开可怕的弓,反复挥动,搭上如大雷电般明亮的可怕箭矢。

6.79.10

षड्विंशतिमसं क्रुद्धो मुमोचाशु सुयोधने ।
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥ ६.७९.१० ॥

他愤怒地迅速向苏约达那射出第二十六支箭——形如燃烧的火焰,如同金刚杵,笔直飞行。

6.79.11

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे ।
चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥ ६.७९.११ ॥

随后,他用两支箭射断其弓,用两支箭射中御者,又用四支箭射中疾驰的马匹,将它们送往阎摩的住所。

6.79.12

द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः ।
छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम् ॥ ६.७९.१२ ॥

这位击溃敌人者以两支拉满的箭,在战斗中斩断了那国王的华盖,啊,人中最优者。

6.79.13

षङ्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् ।
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥ ६.७९.१३ ॥

他以六支箭射断了对方闪耀的上等军旗;斩断之后,他在你的儿子眼前高声吼叫。

6.79.14

रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात् ।
पपात सहसा भूमौ विद्युञ्जलधरादिव ॥ ६.७९.१४ ॥

那辆镶饰着各种宝石的战车上,那面华丽的军旗突然坠落于地,好似从闪电的云中坠下。

6.79.15

ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ ६.७९.१५ ॥

所有国王都看见库鲁之主那面闪耀如太阳、以宝玉制成、带有吉祥蛇纹的军旗已被斩断。

6.79.16

अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् ।
आजघान रणे वीरं स्मयन्निव महारथः ॥ ६.७९.१६ ॥

于是那位大车战士在战场上以十支箭射中那位英雄,如同用鞭子驱赶大象,且一边微笑。

6.79.17

स गाढविद्धो व्यथितो भीमसेनेन संयुगे ।
निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः ॥ ६.७९.१७ ॥

在战斗中被怖军深深击伤,痛苦不堪,昏厥使他失去知觉,他坐倒在战车的底板上。

6.79.18

ततः स राजा सिन्धूनां रथश्रेष्ठो महाबलः ।
दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैर्वृतः ॥ ६.७९.१८ ॥

于是那位信度王,乃车战之最与大力者,被自己的部下簇拥着,抓住了难敌的脚跟。

6.79.19

कृपश्च रथिनां श्रेष्ठस्तव पुत्रमचेतनम् ।
आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥ ६.७९.१९ ॥

大王啊,车战勇士中的最优者Kṛpa把昏迷的你的儿子、不能忍耐的难敌扶上了战车。

6.79.20

परिवार्य ततो भीमं जेतुकामो जयद्रथः ।
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ ६.७९.२० ॥

于是胜车想战胜怖军,便包围了他,以数千辆战车阻断了怖军的所有方向。

6.79.21

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् ।
केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥ ६.७९.२१ ॥

大王啊,于是持终、勇猛的阿毗摩豆、迦迦夜王子们和德罗波蒂的儿子们与你的儿子们作战。

6.79.22

चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः ।
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥ ६.७९.२२ ॥

持军、善持、持支、现持、善现、妙善,以及难陀与优波难陀。

6.79.23

अष्टावेते महेष्वासाः सुकुमारा यशस्विनः ।
अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥ ६.७९.२३ ॥

大王啊,这八位大弓箭手、年少而有名的人,从四面包围了阿毗摩豆的战车。

6.79.24

आजघान ततस्तूर्णमभिमन्युर्महामनाः ।
एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः ॥ ६.७९.२४ ॥

于是大心的阿毗摩豆迅速以五支锋利、箭杆带节弯曲的箭射中他们每一个人。

6.79.25

वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ।
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ॥ ६.७९.२५ ॥

他们都无法忍受,用如雷霆与死亡般的箭矢——这些箭出自奇异的兵器——扑向那位最优秀的车战勇士,苏跋陀罗之子。

6.79.26

ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ।
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ॥ ६.७९.२६ ॥

如乌云倾泻于须弥山,他们以利箭如雨般射下。那位精通兵器、被战斗狂热所陶醉的勇士,在那场战斗中遭受重压。

6.79.27

अभिमन्युर्महाराज तावकान्समकम्पयत् ।
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥ ६.७९.२७ ॥

大王啊,阿比曼尤使你的所有士兵都为之战栗,正如手持金刚杵的因陀罗在诸神与阿修罗之战中使大阿修罗战栗。

6.79.28

विकर्णस्य ततो भल्लान्प्रेषयामास भारत ।
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥ ६.७९.२८ ॥

然后,婆罗多啊,那位最优秀的车战勇士向毗迦尔那射出十四支新月形的利箭——可怖,如同毒蛇。

6.79.29

स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् ।
ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ॥ ६.७९.२९ ॥

这位勇猛的战士以那些箭,将毗迦尔那车上的旗帜、御者和马匹射落,仿佛在战场上起舞。

6.79.30

पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् ।
प्रेषयामास संक्रुद्धो विकर्णाय महाबलः ॥ ६.७९.३० ॥

然后,怒不可遏的大力者又向毗迦尔那射出另一批箭——箭身泛黄,箭头未钝,在石上磨砺而成。

6.79.31

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः ।
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥ ६.७९.३१ ॥

那些以鹭鸶和孔雀羽毛为尾的箭,射中毗迦尔纳,穿透他的身体,如燃烧的毒蛇一般落到地上。

6.79.32

ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले ।
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥ ६.७९.३२ ॥

那些金羽金尖的箭,浸满毗迦尔纳的鲜血,散落于地,仿佛在吐血一般。

6.79.33

विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः ।
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥ ६.७९.३३ ॥

其他兄弟见毗迦尔纳被射穿,便在战场上冲向以苏跋陀罗之子为首的战车。

6.79.34

अभियात्वा तथैवान्यान्रथांस्तान्सूर्यवर्चसः ।
अविध्यन्समरेऽन्योन्यं संरम्भाद्युद्धदुर्मदाः ॥ ६.७९.३४ ॥

他们冲向那些如太阳般辉煌的战车,在战斗中因战争的狂傲与愤怒而彼此射击。

6.79.35

दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः ॥ ६.७९.३५ ॥

杜尔穆卡以七支疾箭射中室如迦尔曼,一箭斩断他的旗帜,又以七箭射杀了他的御者。

6.79.36

अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः ।
जघान षङ्भिरासाद्य सारथिं चाभ्यपातयत् ॥ ६.७९.३६ ॥

他以六箭射中那些快如风、覆盖金网的骏马,随后靠近,将他们的御者击倒在地。

6.79.37

स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः ।
शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ॥ ६.७९.३७ ॥

śrutakarman 大车手站在马匹已被杀死的战车上,怒火中烧,投出一支如燃烧的大流星般的长矛。

6.79.38

सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः ।
विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा ॥ ६.७९.३८ ॥

它刺穿并撕裂了 yaśasvin 德穆卡 的明亮铠甲,以自身光芒闪耀,钻入大地。

6.79.39

दुर्मुखो विह्वलस्तत्र निषसाद रणे विभो ।
विसंज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन् ॥ ६.७९.३९ ॥

在战场上,哦尊者,德穆卡惊慌地坐了下来;众兄弟见他昏迷,便都围在他身边。

6.79.40

तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः ।
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥ ६.७९.४० ॥

苏多索摩大车手见他在那里失去了战车,便在众军注视之下,让他登上自己的战车。

6.79.41

श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव ।
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥ ६.७९.४१ ॥

英雄 śrutakīrti 也想杀死那位名将,在战斗中向你的儿子 jayatsena 冲去,大王。

6.79.42

तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम् ।
चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव ॥ ६.७९.४२ ॥

当 śrutakīrti 拉开他那发出巨响的弓时,你的儿子 jayatsena 迅速在战斗中将那张弓斩断。

6.79.43

क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ।
तं दृष्ट्वा च्छिन्नधन्वानं शतानीकः सहोदरम् ॥ ६.७९.४३ ॥

婆罗多啊,以极锋利的剃刀头箭,仿佛在笑,沙塔尼迦看见兄长的弓被斩断,于是……

6.79.44

अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः ।
शतानीकस्तु समरे दृढं विस्पार्य कार्मुकम् ॥ ६.७९.४४ ॥

光辉的沙塔尼迦如狮子般一再咆哮,向前推进,在战场上将弓牢牢拉满……

6.79.45

विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ।
ननाद सुमहानादं प्रभिन्न इव वारणः ॥ ६.७९.४५ ॥

他迅速以十支箭头名为“石镞”的箭射中Jayatsena,并像发情的象一样发出巨大吼声。

6.79.46

अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना ।
शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥ ६.७९.४६ ॥

然后,他以另一支能穿透一切甲胄的极锋利箭,深深射中Jayatsena的心口。

6.79.47

तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके ।
मुमोचास्मैशितान्बाणांस्तीक्ष्णानाशीविषोपमान्
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः ॥ ६.७९.४७ ॥

在他兄长附近正发生这些时,杜什卡尔纳被愤怒冲昏头脑,向他射出如毒蛇般锐利的箭,并在战斗中斩断了那无种之子的弓。

6.79.48

अथान्यद्धनुरादाय भारसाहमनुत्तमम् ।
समादत्त शरान्घोराञ्शतानीको महाबलः ॥ ६.७९.४८ ॥

随后,他拿起另一张能承受巨大张力的至上之弓,强大的沙塔尼迦取来了可怕的箭。

6.79.49

तिष्ठतिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः ।
मुमोचास्मै शितान्बाणाज्ज्वलितान्पन्नगानिव ॥ ६.७९.४९ ॥

他在兄长面前呼喝杜什卡尔纳:"站住,站住!",向他射出锐利的箭,如燃烧的毒蛇一般。

6.79.50

ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष ।
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ ६.७९.५० ॥

随后,他以一箭斩断其弓,以两箭斩断御者,啊,尊者;并迅速在战斗中以七箭射中了他本人。

6.79.51

अश्वान्मनोजवांस्तस्य कर्बुरान्वातरंहसः ।
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥ ६.७९.५१ ॥

他以十二支锐利的箭迅速射倒了他的全部骏马——那些速如思绪、毛色斑驳、疾如风的马。

6.79.52

अथापरेण भल्लेन सुयुक्तेनाशुपातिना ।
दुष्कर्णं नाकुलिः क्रुद्धो विव्याध हृदये भृशम् ॥ ६.७९.५२ ॥

于是愤怒的那库拉之子,以另一支装配得当、飞速疾行的薄刃箭,猛烈地射穿了杜什卡尔纳的心脏。

6.79.53

स पपात ततो भूमौ वज्राहत इव द्रुमः ।
दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः ॥ ६.७९.५३ ॥

他如被雷击的树木般倒在地上。大王啊,看到杜什卡尔纳痛苦不堪,五位大车战士……

6.79.54

दिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ।
छाद्यमानं शरव्रतैः शतानीकं यशस्विनम् ॥ ६.७९.५४ ॥

他们想要杀死沙塔尼卡,从四面八方将他包围;声名显赫的沙塔尼卡被密集的箭雨所遮蔽。

6.79.55

अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः ।
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ॥ ६.७९.५५ ॥

五位憍萨罗之外的怒气冲天的凯迦亚兄弟冲上前去。看到他们向他们扑来,你的大车战士之子们,

6.79.56

प्रत्युद्ययुर्महाराज गजानिव महागजाः ।
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ॥ ६.७९.५६ ॥

大王啊,犹如大象迎向大象,杜尔穆卡、杜尔贾亚与年轻的杜尔玛尔沙纳也迎上前去。

6.79.57

शत्रुंजयः सत्रुसहः सर्वे क्रुद्धा यशस्विनः ।
प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥ ६.७९.५७ ॥

大王啊,怒气冲天、声名显赫的沙特伦阁耶、萨特鲁萨哈以及所有兄弟一同迎向凯迦亚人。

6.79.58

रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः ।
नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ॥ ६.७९.५८ ॥

战车如城市一般巍峨,驾着快如思绪的骏马,装饰着色彩斑斓的旗帜。

6.79.59

शरचापधरा वीरा विचित्रकवचध्वजाः ।
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥ ६.७९.५९ ॥

手持弓箭的勇士们,身披各色铠甲、高举旗帜,闯入那支敌军,犹如狮子从一片森林进入另一片森林。

6.79.60

तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् ।
अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥ ६.७९.६० ॥

双方之间爆发了极为猛烈而可怖的战斗,战车与象群相互纠缠,他们彼此击打,以骇人的狂怒厮杀。

6.79.61

अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ।
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ॥ ६.७९.६१ ॥

大王啊,彼此有过恶行、增加了国家毁灭的诸王,在日落片刻之后展开了极为惨烈的战斗。

6.79.62

रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः ।
ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः ॥ ६.७९.६२ ॥

战车武士与骑兵成千上万地四散。于是,珊坦努之子毗湿摩大怒,以弯曲箭头的箭矢,

6.79.63

नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् ।
पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥ ६.७९.६३ ॥

毗湿摩摧毁了那些伟大者的军队,并以箭矢把般遮罗的军队送往阎摩之境。

6.79.64

एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् ।
कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप ॥ ६.७९.६४ ॥

如此,那位大弓手刺穿了般度子的军队,撤回军队,前往自己的营地,大王啊。

6.79.65

नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ ।
करवाणामनीकानि शरैः सन्नतपर्वभिः ॥ ६.७९.६५ ॥

两位英雄德里什塔笃姆那与狼腹(毗摩)以弯曲箭头的箭矢摧毁了俱卢人的军队。

6.79.66

धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ ।
मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ ॥ ६.७९.६६ ॥

法王坚战见到德里什塔笃姆那与狼腹,亲吻他们的头顶,欣喜地前往营地。

6.79.67

अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् ।
हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः ॥ ६.७९.६७ ॥

阿周那与婆苏提婆(黑天)击杀了俱卢军队,并以箭矢将其驱散,随后便返回营地。