摩诃婆罗多 · 章 6.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.80.1
क्षत्रियास्ते महाराज परस्परकृतागसः ।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥ ६.८०.१ ॥
大王啊,那些彼此有过冒犯的刹帝利,身上溅满鲜血,各自返回了自己的营地。
6.80.2
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ॥ ६.८०.२ ॥
休息之后,依礼彼此致敬,他们又披甲出现,渴望再次交战。
6.80.3
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥ ६.८०.३ ॥
那时,大王啊,您的儿子满心忧虑,身上流淌的鲜血浸透了全身,便向那位祖父问道。
6.80.4
सैन्यानि रौद्राणि भयानकानि ।
व्यूढानि सम्यग्बहुलध्वजानि।
विदार्य हत्वा च निपीड्य शूरां-
स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ॥ ६.८०.४ ॥
彼等般度之子撕裂并击杀了那些可怖骇人、阵列严整、旗幡众多的军队,又碾压了英雄,获胜而欢喜。
6.80.5
संमोह्य सर्वान्युधि कीर्तिमन्तो ।
व्यूहं च तं मकरं मृत्युकल्पम् ।
प्रविश्य भीमेन रणे हतोऽस्मि ।
घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥ ६.८०.५ ॥
我在战场上迷惑了众人,闯入那如同死神的摩羯阵,却被怖畏的箭矢所伤,在战斗中为怖军所杀,那些箭如同死神之杖般闪耀。
6.80.6
क्रुद्धं तमुद्वीक्ष्य भयेन राज-
न्संमूर्च्छितो न लभे शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसन्ध ।
प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥ ६.८०.६ ॥
君王啊,看到他愤怒的样子,我因恐惧而昏厥,今日心中不得安宁。信守誓言的人啊,愿借你的恩典获得胜利,并杀死般度之子。
6.80.7
तेनैवमुक्तः प्रहसन्महात्मा ।
दुर्योधनं मन्युगतं विदित्वा।
तं प्रत्युवाचाविमना मनस्वी ।
गङ्गासुतः सस्त्रभृतां वरिष्ठः ॥ ६.८०.७ ॥
他这样说完,这位大德笑了;看出难敌充满怒气,心平气和的智者、恒河之子、持兵者中最杰出的人便对他答道。
6.80.8
परेण यत्नेन विगाह्य सेनां ।
सर्वात्मनाऽहं तव राजपुत्र।
इच्छामि दातुं विजयं सुखं च ।
न चात्मानं छादयेऽहं त्वदर्थे ॥ ६.८०.८ ॥
我将以极大的努力冲入军中,全心全意,王子啊,我愿为你赢得胜利与安乐;为了你,我不会庇护自己。
6.80.9
एते तु रौद्रा बहवो महारथा ।
यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया ।
जितक्लमा रोषविषं वमन्ति ॥ ६.८०.९ ॥
这些众多的大车勇士,凶猛、声名显赫、极为英勇、精通武艺,是般度之子在战场上的盟友;他们战胜了疲惫,正吐出愤怒的毒液。
6.80.10
केनेह शक्याः सहसा विजेतुं ।
वीर्योद्धताः कृतवैरास्त्वया च।
अहं ह्येतान्प्रतियोत्स्यामि राज-
न्सर्वात्मना जीवितं त्यज्य वीर ॥ ६.८०.१० ॥
在这里,谁能轻易战胜这些因勇力而骄傲、又因你而结怨的人?然而,王啊,英雄啊,我将舍弃生命,全心全意地与他们作战。
6.80.11
रणे तवार्थाय महानुभाव ।
न जीवितं रक्षितव्यं ममाद्य।
सर्वांस्तवार्थाय सदेवदैत्याँ-
ल्लोकान्दहेयं किमु शत्रुसेनाम् ॥ ६.८०.११ ॥
大能者啊!今日为你而战,我不会顾惜自己的性命。为你,我可以焚烧包括天神与阿修罗在内的一切世界,何况敌军?
6.80.12
तान्पाण्डवान्योधयिष्यामि राजन् ।
प्रियं च ते सर्वमहं करिष्ये।
श्रुत्वा पितुस्ते वचनं प्रतीतो ।
दुर्योधनः प्रीतमना बभूव ॥ ६.८०.१२ ॥
国王啊,我将与那些般度之子交战,并为你做一切你所喜爱之事。杜尔与那听了父亲的话,心中欢喜,内心充满喜悦。
6.80.13
सर्वाणि सैन्यानि ततः प्रहृष्टो ।
निर्गच्छतेत्याह नृपांश्च सर्वान्।
तदाक्षया तानि विनिर्ययुर्द्रुतं ।
गजाश्वपादातरथायुतानि ॥ ६.८०.१३ ॥
于是他欣喜地对所有军队和所有国王说:「出发!」在他的号令下,那些数以万计的象、马、步兵和战车迅速开拔。
6.80.14
प्रहर्षयुक्तानि तु तानि राज-
न्महान्ति नानाविधशस्त्रवन्ति।
स्थितानि नागाश्वपदातिमन्ति ।
विरेजुराजौ तव राजन्बलानि ॥ ६.८०.१४ ॥
国王啊,那些充满喜悦的庞大军队,手持各式兵器,配备象、马与步兵,列阵于战场之上,光彩夺目——你的军队啊,国王。
6.80.15
शस्त्रास्त्रविद्भिर्नरवीरयोधै-
रधिष्ठिताः सैन्यगणास्त्वदीयाः।
रथौघपादातगजाश्वसङ्घैः ।
प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥ ६.८०.१५ ॥
你的军团由精通兵器与投射武器的人中英雄统率,依照礼法被驱赶着向战场推进,战车、步兵、象与马的大群一同前进。
6.80.16
समुद्धतं वै तरुणार्कवर्णं ।
रजो बभौ च्छादयत्सूर्यश्मीन्।
रेजुः पताका रथदन्तिसंस्था ।
वातेरिता भ्राम्यमाणाः समन्तात् ॥ ६.८०.१६ ॥
那扬起的尘土,呈初升太阳的颜色,闪耀着,遮住了太阳的光芒。立在战车和象背上的旗帜,被风吹动,四面飘转,颤动不已。
6.80.17
नानालिङ्गैः समरे तत्र राजन् ।
मेघैर्युता विद्युतः खे यथैव।
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता-
श्चकाशिरे दन्तिगणाः समन्तात् ॥ ६.८०.१७ ॥
大王啊,那里战场上,身带各种标记、装备精良的象群成群站立,四面闪耀,如同天空中与云相连的闪电。
6.80.18
धनूंषि विष्फारयतां नृपाणां ।
बभूव शब्दस्तुमुलोऽतिघोरः।
विमथ्यतो देवमहासुरौघै-
र्यथार्णवस्यादियुगे तदानीम् ॥ ६.८०.१८ ॥
国王们拉开弓弦,发出极其可怕、喧嚣的声音,正如远古时代诸神与众大阿修罗搅动大海时所发出的声音。
6.80.19
तदुग्रनागं बहुरूपवर्णं ।
तवात्मजानां समुदीर्णकोपम् ।
बभूव सैन्यं रिपुसैन्यहन्त-
युगान्तमेघौघनिभं तदानीम् ॥ ६.८०.१९ ॥
你的儿子们的那支军队,满是凶猛的象群,形貌色彩各异,怒火升腾,此时竟成了摧毁敌军的力量,如同劫末的云团。