摩诃婆罗多 · 章 6.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.90.1
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये ।
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ ६.९०.१ ॥
君王啊,正当那场可怕的战斗——勇士中最优秀者的毁灭——仍在进行时,光辉的苏巴拉之子沙仇尼冲向了般度五子。
6.90.2
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा ।
अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ॥ ६.९०.२ ॥
同样,君王啊,诛杀敌方勇士的萨提婆多(萨谛奇)与赫利迪迦之子(克里塔瓦尔曼)也在战场上冲向般度之军。
6.90.3
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् ।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ ६.९०.३ ॥
于是,甘波阁诸首领的河生马、阿罗咤人的地生马以及信度地区的马,从四面八方向前冲去。
6.90.4
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।
वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ॥ ६.९०.४ ॥
许多属于伐那由种的白马以及山居者的马,在战场上从四面八方将军队团团包围。
6.90.5
ये चापरे तित्तिरिजा जवना वातरंहसः ।
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥ ६.९०.५ ॥
还有其他属于提提利种的快马,速度如风,饰以黄金,装备精良的铠甲,向前奔去。
6.90.6
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः ॥ ६.९०.६ ॥
以疾如风的良马为先导,般度的强大之子面带喜色,作为敌人的折磨者,向那支军队挺进。
6.90.7
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् ।
सुतायां नागराजस्य जातः पार्थेन धीमता ॥ ६.९०.७ ॥
阿周那之子,名为伊罗梵,光荣而有力,乃智者般度之子从那伽王之女所生。
6.90.8
ऐरावतेन सा दत्ता अनपत्या महात्मना ।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ ६.९०.८ ॥
此女为大心的爱罗婆多所赐,无子;其夫被金翅鸟(迦卢荼)杀害后,她变得可怜而心志沮丧。
6.90.9
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ ६.९०.९ ॥
为了某事,般度之子取了她,她被欲望所支配而跟随;于是阿周那之子生于他人之田。
6.90.10
स नागलोके संवृद्धो मात्रा च परिरक्षितः ।
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥ ६.९०.१० ॥
他在那伽界长大,受母亲保护;因憎恨般度之子,那恶心的叔父将他抛弃。
6.90.11
खमुत्पत्य महाराज नागराट् सत्यविक्रमः ।
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ ६.९०.११ ॥
大王啊,真正勇猛的那伽王腾空而起,听说阿周那已去了那里,便迅速前往因陀罗界。
6.90.12
सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ ६.९०.१२ ॥
这位大臂、真正勇猛的人走近父亲,沉稳谦恭地合掌向父亲致敬。
6.90.13
न्यवेदयत चात्मानमर्जुनस्य महात्मनः ।
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥ ६.९०.१३ ॥
他向大德的阿周那通报了自己:“主上,愿您吉祥。我是伊罗婆多,您的儿子。”
6.90.14
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ ६.९०.१४ ॥
他又将与母亲相见的一切都告诉了他们;般度之子也回想起了所发生的一切,一一如实。
6.90.15
परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः ।
प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ॥ ६.९०.१५ ॥
他拥抱了这位德行与自己相称的儿子,欢喜的普利塔之子把他带往天王的居所。
6.90.16
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ ६.९०.१६ ॥
于是,国王啊,在天界受阿周那之命,那位大臂者怀着爱意投身于自己的职责,婆罗多啊。
6.90.17
स चापि नरशार्दूलः शार्दूलसमविक्रमः ।
अब्रवीच्च तदा पार्थमयमस्मि तवानघ ॥ ६.९०.१७ ॥
那位人中之虎、武勇如虎之人,此时对普利塔之子说:“无垢者啊,我便是您的。”
6.90.18
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् ।
कं करोमि च ते कामं कं च कामं त्वमिच्छसि ॥ ६.९०.१८ ॥
我始终作为您的仆人与儿子侍立;请吩咐我吧。您的哪一个愿望我应当满足,您又想要哪一种心愿?
6.90.19
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम् ।
प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ॥ ६.९०.१९ ॥
Vāsavi深情地拥抱儿子,回答他说:事情应当怀着爱去做,对给予尊荣者也应当施以爱。
6.90.20
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति ।
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥ ६.९०.२० ॥
说了一句:“战时必须给我们援助”,又答应道:“好的”,于是战斗的时刻便来到了这里。
6.90.21
कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः ।
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥ ६.९०.२१ ॥
四面环绕着颜色与速度随心所欲的骏马,它闪耀夺目。这些马佩戴金饰,毛色各异,快如思想。
6.90.22
उत्पेतुः सहसा राजन्हंसा इव महोदधौ ।
ते त्वदीयान्समासाद्य हयसंघान्मनोजवान् ॥ ६.९०.२२ ॥
大王啊,它们忽然如天鹅在大海上般腾跃而起。它们抵达你那快如思想的马群,便跃起。
6.90.23
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ ६.९०.२३ ॥
大王啊,它们胸对胸、鼻对鼻地相互撞击,忽然因极猛烈的冲击而倒在地上。
6.90.24
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् ।
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ ६.९०.२४ ॥
那些马群如此相互倒下时,发出一种可怕的声音,如同金翅鸟降落一般。
6.90.25
तथैव तावका राजन्समेत्यान्योन्यमाहवे ।
परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ ६.९०.२५ ॥
大王,同样地,你的战士在战场上相遇,彼此展开了可怕的相互屠杀;那些骑兵也是如此。
6.90.26
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् ।
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥ ६.९०.२६ ॥
当这场拥挤而极为喧嚣的战斗如此进行时,双方的马群也在四周渐渐平静下来。
6.90.27
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ ६.९०.२७ ॥
箭矢耗尽、战马被杀,疲惫不堪的英雄们走向毁灭,彼此相持不下。
6.90.28
ततः क्षीणे हयानिके किंचिच्छेषे च भारत ।
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥ ६.९०.२८ ॥
婆罗多之王啊,此时马军减少,所剩无几,于是娑婆罗(沙恭尼)的英勇幼弟们便冲出,奔赴战阵的前沿。
6.90.29
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते ।
आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥ ६.९०.२९ ॥
他们骑上了上等骏马,那马的奔驰之感如风一般,速度与风相当,力量充沛,正值壮年。
6.90.30
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः ।
षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥ ६.९०.३० ॥
伽阇、伽婆叉、婆利沙迦、卡尔玛凡、阿尔迦耶与修迦——这六位有力的勇士,从大军中猛然冲出。
6.90.31
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ ६.९०.३१ ॥
虽被沙恭尼和自己的大力战士所阻,但他们身披铠甲,善于作战,形貌凶猛,力大无穷。
6.90.32
तदनीकं महाबहो भित्त्वा परमदुर्जयम् ।
बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ ६.९०.३२ ॥
大臂者啊,他们冲破了那难以战胜的军阵,具备巨大力量,追求天堂与胜利。
6.90.33
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ।
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥ ६.९०.३३ ॥
于是,欢欣而沉醉于战斗骄傲的乾陀罗人冲了进去;看到他们冲入,勇猛的伊罗婆那也。
6.90.34
अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् ।
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥ ६.९०.३४ ॥
他在战场上对站在杂色马旁的自己的战士们说:“正如这些持国之子的战士,连同他们的随从与车驾……
6.90.35
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ।
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥ ६.९०.३५ ॥
“大家都在战场上被杀;所以应当设计一个计策。”他们都说“很好”,那些伊罗婆多的战士……
6.90.36
जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः ।
तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥ ६.९०.३६ ॥
他们在战场上冲击敌人那难以战胜的军阵;看到该军阵被另一军阵击倒……
6.90.37
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ ६.९०.३७ ॥
苏跋罗之子们无法忍受,在战场上冲向伊罗婆那,从四面八方将他包围。
6.90.38
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ ६.९०.३८ ॥
他们以锐利的长矛攻击,彼此激励,那些英雄四处奔走,造成极大的混乱。
6.90.39
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।
स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥ ६.९०.३९ ॥
于是伊罗婆那被大德勇士们锐利的长矛刺穿,浑身沾满流淌的鲜血,就像被刺棒击伤的大象。
6.90.40
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ ६.९०.४० ॥
国王啊,虽然他的胸口、背部和两侧遭受猛烈打击,独自一人被众多敌人狠狠围攻,但凭借坚定的意志,他并未因此而痛苦。
6.90.41
इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः ।
मोहयामास समरे विद्ध्वा परपुरंजयः ॥ ६.९०.४१ ॥
伊罗婆那也极为愤怒,在战斗中用锐利的箭射穿了他们所有人,使他们迷乱;他是征服敌城的英雄。
6.90.42
प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः ।
तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ ६.९०.४२ ॥
降伏敌人的伊罗婆那用力从自己身上拔出长矛,并用这些长矛在战场上击打苏跋罗之子们。
6.90.43
विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् ।
पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ॥ ६.९०.४३ ॥
他拔出利剑,持起好盾,徒步疾奔而来,想在战斗中杀死苏波罗的儿子们。
6.90.44
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ॥ ६.९०.४४ ॥
于是,那些重获生命的苏波罗之子们,又被愤怒充满,冲向伊罗婆多。
6.90.45
इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् ।
अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ॥ ६.९०.४५ ॥
伊罗婆多也以剑展示手上的敏捷,在战斗中向天神和凡人推进。
6.90.46
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥ ६.९०.४६ ॥
苏波罗的众子骑着迅捷的马来回奔驰,却因他的敏捷而找不到他的破绽。
6.90.47
भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् ।
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥ ६.९०.४७ ॥
于是,他们众人猛烈地将他包围,他刚从天空跃下,站立在地上,他们便开始抓捕他。
6.90.48
अथाभ्याशगतानां तेषां गात्राण्यकृन्तत ।
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ॥ ६.९०.४८ ॥
于是他手持利剑,砍断了靠近者的肢体;他砍断了手持兵器者的肢体。
6.90.49
आयुधानि च सर्वेषां बाहूनपि विभूषितान् ।
अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥ ६.९०.४९ ॥
众人的兵器和饰以装饰的臂膀也都坠落;肢体被斩断,失去生命,他们倒在地上。
6.90.50
वृषकस्तु महाराज बहुधा विपरिक्षतः ।
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ ६.९०.५० ॥
然而大王,伐律沙卡多处身受重伤,却从那场可怕的、斩杀英雄的大屠杀中逃脱了。
6.90.51
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः ।
अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ॥ ६.९०.५१ ॥
看到他们全都倒下,恐惧的难敌随即怒不可遏,冲向那形貌可怖的罗刹。
6.90.52
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् ।
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ ६.९०.५२ ॥
阿利耶吉仁伽(Ārśyaśṛṅgi),大弓手,幻术师,制服敌人者,因往昔杀死巴卡而成为般度次子怖军的仇敌。
6.90.53
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली ।
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥ ६.९०.५३ ॥
勇士,你看,这位阿周那的强大之子,这位幻术师,为了加害于我,摧毁了我的军队。
6.90.54
त्वं च कामगमस्तात मायास्त्रे च विशारदः ।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ ६.९०.५४ ॥
你啊,亲爱的,可以随意前往,精通幻术兵器,又与普利塔之子结下仇怨。所以,就在战场上杀了他吧。
6.90.55
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ ६.९०.५५ ॥
"很好",说罢,那形貌可怖的罗刹发出狮吼,前往阿周那的年轻之子所在之处。
6.90.56
स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥ ६.९०.५६ ॥
他被善战的勇士、持明亮长矛的枪手、英勇的冲击者以及自己的军队所包围。
6.90.57
हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः ।
निहन्तुकामः समरे इरावन्तं महाबलम् ॥ ६.९०.५७ ॥
大王啊,他带着两千匹在杀戮中幸存的良马,想在战场上杀死大力的伊罗婆。
6.90.58
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी ।
हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ॥ ६.९०.५८ ॥
伊罗婆也极为愤怒,急速行动,勇猛而善杀敌,欲将其杀死,于是阻挡了那罗刹。
6.90.59
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः ।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥ ६.९०.५९ ॥
那极为强大的罗刹见他向自己扑来,便急忙开始施展幻术。
6.90.60
तेन मायामयाः सृष्टा हयास्तावन्त एव हि ।
स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ॥ ६.९०.६० ॥
他以幻术化出同样数量的马匹,上面骑着手持长矛与刀剑的可怖罗刹。
6.90.61
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः ।
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ ६.९०.६१ ॥
两千名愤怒的战士相遇后,很快便彼此送往幽冥之界。
6.90.62
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ ।
संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥ ६.९०.६२ ॥
那支军队被歼灭后,二人沉醉于战斗的狂傲,在战场上面对面站立,如同伐栗多与婆娑婆。
6.90.63
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।
इरावाथ संरब्धः प्रत्यधावन्महाबलः ॥ ६.९०.६३ ॥
见那沉醉于战斗的罗刹逃走,大力的伊罗婆那怒火中烧,向他冲去。
6.90.64
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः ।
चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ॥ ६.९०.६४ ॥
战斗中,那狂妄者以剑斩断了前来者闪亮的弓,连同箭囊与铠甲。
6.90.65
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् ।
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥ ६.९०.६५ ॥
见自己的弓被斩断,他迅速冲入天空,仿佛以幻术迷惑了盛怒的伊罗婆那。
6.90.66
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् ।
विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ॥ ६.९०.६६ ॥
于是伊罗婆那也升入空中,以幻术迷惑罗刹,并用箭射穿了他的肢体。
6.90.67
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ।
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥ ६.९०.६७ ॥
那位知晓一切要害、能随意变化形貌、难以接近的勇士将其斩断。而那位罗刹中的最优者,被箭一次又一次地射断。
6.90.68
संबभूव महाराज समवाप च यौवनम् ।
माया हि सहराज समवाप च यौवनम् ॥ ६.९०.६८ ॥
大王,他重新生成,又恢复了青春;实际上,幻术仍与他同在,大王,他再次获得了青春。
6.90.69
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत ।
इरावानपि संक्रुद्धो राक्षसं त महाबलम् ॥ ६.९०.६९ ॥
如此,那罗刹的身体被斩断又斩断,却又重新长出。伊罗梵也极为愤怒,(注视着)那位大力的罗刹。
6.90.70
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः ।
स तेन बलिना वीरश्छिद्यमान इव द्रुमः ॥ ६.९०.७० ॥
他用锋利的斧头一次又一次地砍他。那位强大的勇士被斧砍着,看起来就像被砍伐的树木。
6.90.71
राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत् ।
परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ॥ ६.९०.७१ ॥
罗刹发出可怕的吼声,那声音变得喧嚣。被斧子所伤的罗刹流出了大量鲜血。
6.90.72
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे ।
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ॥ ६.९०.७२ ॥
于是强大的鹿角仙人愤怒起来,在战斗中加快速度;然后看到敌人在战斗中昏厥,(他)
6.90.73
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥ ६.९०.७३ ॥
他化作恐怖而巨大的形体,开始去抓捕阿周那的英勇而光荣的儿子伊罗缚那。
6.90.74
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ।
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥ ६.९०.७४ ॥
在战阵前沿中央,众人皆目睹之时,见那邪恶罗刹如此的幻术,
6.90.75
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे ।
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥ ६.९०.७५ ॥
伊罗缚那也愤怒起来,开始施展幻术;他被愤怒所支配,在战斗中从不退缩。
6.90.76
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ।
स नागैर्बहुभी राजन्निरावान्संवृतो रणे ॥ ६.९०.७६ ॥
其母系的那支龙族来到他身边。大王啊,在那场战斗中,伊罗缚那被众多龙族所包围。
6.90.77
दधार सुमहद्रूपमनन्त इव भोगवान् ।
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ ६.९०.७७ ॥
他化作如多头的阿难陀般巨大的形体,然后用各种龙族遮蔽了罗刹。
6.90.78
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः ।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ॥ ६.९०.७८ ॥
罗刹之雄被龙族所遮,于是沉思,随即化作迦楼罗之形,吞食了那些毒蛇。
6.90.79
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।
विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥ ६.९०.७९ ॥
当他在那母系血脉中被幻术吞噬时,罗刹以剑斩杀了迷惑的伊罗婆多。
6.90.80
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।
इरावतः शिरो रक्षः पातयामास भूतले ॥ ६.९०.८० ॥
那罗刹将伊罗婆多的头颅砍落在地,头上戴着耳环与宝冠,光辉如莲花与月亮。
6.90.81
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे ।
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ ६.९०.८१ ॥
当那位英雄、阿周那之子被罗刹所杀时,持国的诸子与诸王都摆脱了忧愁。
6.90.82
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः ।
महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥ ६.९०.८२ ॥
在那场宏大而可怖的战斗中,两军之间再次爆发了巨大而惨烈的冲突。
6.90.83
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।
रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ ६.९०.८३ ॥
象、马与步卒混杂在一起,被象群所杀;战车、马匹与象在那里被步卒践踏。
6.90.84
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे ।
रथिभिर्निहता राजंस्तव तेषां च संकुले ॥ ६.९०.८४ ॥
同样,国王啊,战斗中许多步兵与战车之群以及众多战马,无论是你的还是他们的,都在密集的混战中被车战士所杀。
6.90.85
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् ।
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ ६.९०.८५ ॥
阿周那也不知道自己的亲生儿子已被杀死,在战斗中击杀了守卫毗湿摩的国王的那些勇士。
6.90.86
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः ।
जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ॥ ६.९०.८६ ॥
同样,大王啊,你的人和斯兰遮耶人成千上万,在战斗中献出生命作为祭品,彼此击杀。
6.90.87
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ ६.९०.८७ ॥
披散着头发,无甲无车,弓已折断,彼此相聚,仅以双臂相互搏斗。
6.90.88
तथा मर्मातिगैर्भीष्मो निजघान महारथान् ।
कम्पयन्समरे सेनां पाण्डवानां परंतपः ॥ ६.९०.८८ ॥
如此,克敌的毗湿摩以穿透要害的箭杀死了大车战士,使般度之子的军队在战斗中颤抖。
6.90.89
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः ।
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥ ६.९०.८९ ॥
由于他,尤迪什提拉的军中许多人被杀:象骑士、骑兵、车兵,还有马匹。
6.90.90
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥ ६.९०.९० ॥
婆罗多啊,我们在那里看见毗湿摩在战斗中的勇力,那勇力极为奇妙,如同因陀罗的勇力。
6.90.91
तथैव भीमसेनस्य पार्षतस्य च भारत ।
रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥ ६.९०.९१ ॥
同样,婆罗多啊,在战场上,比摩センa、般沙陀(猛光)与善弓者萨提奇之间也发生了可怕的战斗。
6.90.92
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।
एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥ ६.९०.९२ ॥
看到德罗纳的勇猛,般度子孙心生恐惧,因为他独自一人便能在战场上杀尽所有士兵。
6.90.93
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः ।
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥ ६.९०.९३ ॥
大王啊,在战场上被德罗纳所困扰的人们说:‘当他被大地的英雄和众多战士所包围时,岂不更加可怕!’
6.90.94
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ ।
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥ ६.९०.९४ ॥
婆罗多族中的雄牛啊,在这场可怕的战斗正激烈进行时,双方军队的英雄彼此无法容忍。
6.90.95
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः ।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ ६.९०.९५ ॥
仿佛被强大的罗刹之灵附身,他们战斗着:你的部下与般度之子,亲爱的,都是怒火中烧的弓箭手。
6.90.96
न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति ।
दैवासुराभे समरे तस्मिन्योधा नराधिप ॥ ६.९०.९६ ॥
人主啊,在那场如同神与阿修罗之战的战斗中,我们看不到有谁能保护自己的性命。