摩诃婆罗多 · 章 6.94
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.94.1
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
अभ्यधावत्सुसंक्रुद्धो भीमसेनमरिन्दमम् ॥ ६.९४.१ ॥
见自己的军队被杀,国王难敌自己极为愤怒,冲向折服敌人的怖军(Bhīmasena)。
6.94.2
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ॥ ६.९४.२ ॥
他拿起巨大的弓,其弦声如因陀罗的霹雳,以大量箭雨覆盖了般度之子。
6.94.3
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवापिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ ६.९४.३ ॥
他满怀愤怒,搭上一支半月形、极锋利、能断毛发的箭,斩断了怖军的弓。
6.94.4
तदन्तरं च संप्रेक्ष्य त्वरमामो महारथः ।
प्रसंदधे शितं बाणं गिरीणामपि दारणम् ॥ ६.९४.४ ॥
看到那个空隙,这位大车将急忙搭上一支锋利的箭,能劈开甚至群山。
6.94.5
तेनोरसि महाराज भीमसेनमताडयत् ।
स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन् ॥ ६.९४.५ ॥
大王啊,他以此箭击中了怖军的胸膛。怖军深受重创而痛苦,不停舔着嘴角。
6.94.6
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ।
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ॥ ६.९४.६ ॥
光辉的迦陀葛恰举起饰以黄金的旗帜;看到怖军如此沮丧,他便这样做了。
6.94.7
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ।
अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ॥ ६.९४.७ ॥
他们怒火中烧,宛如要焚尽一切的烈火;潘度之子的大车武士们,以阿比曼尤为首,也同样如此。
6.94.8
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ।
संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान् ॥ ६.९४.८ ॥
他们高声呼喊,慌乱地冲向国王;看到他们愤怒而慌乱地前进。
6.94.9
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ।
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ॥ ६.९४.९ ॥
婆罗堕阇(德罗纳)对你方的大车武士说了这番话:“快去吧,愿你们吉祥;保护国王。”
6.94.10
संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे ।
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ॥ ६.९४.१० ॥
国王陷入极大的危险,在灾难之海中沉沦——看,这些愤怒的大弓箭手,潘度之子的大车武士,正在前来。
6.94.11
भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन् ।
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ॥ ६.९४.११ ॥
以怖军居前,他们向难敌猛扑过去,投掷各种兵器——这些大车武士。
6.94.12
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् ।
तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः ॥ ६.९४.१२ ॥
发出可怕的吼声,惊吓诸王——那时,听到导师的话,以苏摩达塔之子(婆利首罗婆)为首。
6.94.13
तावकाः समवर्तन्त पाम्डवानामनीकिनीम् ।
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ॥ ६.९४.१३ ॥
你方的战士们向般度之子的军队推进:憍利婆、布利室罗婆斯、沙利耶、德罗纳之子与毗汶萨提。
6.94.14
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ ६.९४.१४ ॥
耆多罗塞那、毗迦尔纳、信度王、大力王,以及阿槃提的两位大弓箭手,包围了俱卢军。
6.94.15
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक ॥ ६.९४.१५ ॥
他们前进二十步,展开激烈的交战——般度五子与持国之子,彼此都想置对方于死地。
6.94.16
एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥ ६.९४.१६ ॥
说罢,臂力强大的婆罗堕遮之子(德罗纳)用力拉开大弓,以二十六支箭射中了怖军。
6.94.17
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः ॥ ६.९४.१७ ॥
那位臂力强大者又迅速地以箭雨倾泻于他身上,如雨季的乌云向山峰倾泻水流。
6.94.18
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ ६.९४.१८ ॥
那时,大力的大弓手怖军迅速从左侧以十支箭回射了他。
6.94.19
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥ ६.९४.१९ ॥
他深受重创,痛苦不堪,年事已高,婆罗多啊,他突然失去知觉,坐在战车的底板上。
6.94.20
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥ ६.९४.२० ॥
见老师痛苦不堪,国王难敌亲自与愤怒的德罗纳之子一同冲向毗摩森。
6.94.21
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरम् ॥ ६.९४.२१ ॥
看见二人如死神与阎摩般扑来,臂力强大的毗摩森迅速举起了他的铁杵。
6.94.22
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः ।
समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे। ॥ ६.९४.२२ ॥
他迅速跃下战车,如不动的山岳般屹立,在战场上高举一柄如阎摩之杖般沉重的铁杵。
6.94.23
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ ६.९४.२३ ॥
看见他高举铁杵,宛如有峰峦的凯拉萨山,俱卢族之子与德罗纳之子一同向他冲去。
6.94.24
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥ ६.९४.२४ ॥
两位勇士中的最强者一同急速冲来;于是狼腹(毗摩)急迅地向他们猛冲过去。
6.94.25
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ ६.९४.२५ ॥
众俱卢大车勇士见他怒气冲冲、形貌可怖地扑来,便急速向他冲去。
6.94.26
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ ६.९४.२६ ॥
以德罗纳为首的众人,欲杀毗摩森那,向毗摩的胸膛投掷了各种兵器。
6.94.27
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ।
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ॥ ६.९४.२७ ॥
众人齐心,从四面夹击般夹攻这位般度之子;见这位大车勇士被困扰、陷入危境,
6.94.28
अभिमन्युप्रभृतयः पाण्डवानां महारथाःक ।
अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ ६.९४.२८ ॥
以阿毗曼尤为首的般度众大车勇士,欲保护他,舍弃那极难舍弃的性命,向前奔去。
6.94.29
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात् ॥ ६.९४.२९ ॥
阿奴波国之主、英勇的尼罗——毗摩的爱友,形如青云——怒气冲冲地冲向德罗纳之子。
6.94.30
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः ।
स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ॥ ६.९४.३० ॥
这位大弓手总是与德罗纳之子竞争。他拉开大弓,以箭射中了德罗纳之子。
6.94.31
यथा शक्रो महाराज पुरा विव्याध दानवम् ।
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ॥ ६.९४.३१ ॥
大王啊,犹如往昔帝释(因陀罗)射中了让诸神畏惧、难以抵挡的檀那婆毗婆赐提。
6.94.32
येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक ।
स रुद्रेण जितः पूर्वं निहतो मातरिश्वना
तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा ॥ ६.९४.३२ ॥
昔日以自身光辉与愤怒使三界恐惧者,曾被楼陀罗战胜,又被摩多利舍湾(风神)杀死;同样,那罗被一支善射的箭射穿。
6.94.33
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ।
स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ॥ ६.९४.३३ ॥
德罗纳之子浑身染血、痛楚不堪,怒气填胸,拉满了那张奇异的弓,其弦声如因陀罗的霹雳。
6.94.34
दध्रे नीलविनाशाय मतिं मतिमतां वरः ।
ततः संधाय विमलान्भल्लान्कर्मारमार्जितान् ॥ ६.९४.३४ ॥
智者中最为殿堂者决意要毁灭那罗;随即搭上铁匠打磨过的洁净钵罗箭。
6.94.35
जघान चतुरो वाहान्पातयामास च ध्वजम् ।
सूतं चैकेन भल्लेन रथनीडादपाहरत्
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ॥ ६.९४.३५ ॥
他射杀四匹马,又射倒旗幡;一支钵罗箭将御者从车座上射落,第七支钵罗箭射中那罗的胸膛。
6.94.36
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम् ॥ ६.९४.३६ ॥
他深受重伤、痛苦不堪,坐倒在车厢底板上;他看到国王那罗昏迷不醒,宛如一堆石头。
6.94.37
घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः ।
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।
तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ ६.९४.३७ ॥
愤怒至极的迦托迦恰被他的亲族围绕,迅速冲向在战场上熠熠生辉的德罗尼之子。其他沉醉于战斗的罗刹也同样冲了上去。
6.94.38
भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम् ।
आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत् ॥ ६.९४.३८ ॥
大臂的怖军把如黑色眼膏般光亮的尼罗搭上自己的战车,这位英雄便向难敌冲去。
6.94.39
घटोत्कचं च संप्रेक्ष्य राक्षसं घोरदर्शनम् ।
अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन् ॥ ६.९४.३९ ॥
见到相貌可怖的罗刹迦托迦恰,光辉的婆罗堕遮之子急速冲了上去。
6.94.40
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् ।
योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ।
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ॥ ६.९४.४० ॥
他愤怒地杀死了走在罗刹前面的那些相貌可怖的罗刹;看到他们被德罗尼之子弓上射出的箭矢逼得转身逃走……
6.94.41
अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः ।
प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ॥ ६.९४.४१ ॥
身躯庞大的怖军之子迦托迦恰愤怒了。接着他施展出一种形象可怖、极为骇人的幻术。
6.94.42
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ।
ततस्ते तावकाः सर्वे मायया विमुखीकृताःक ॥ ६.९४.४२ ॥
罗刹之主、精通幻术的迦托迦恰在战斗中迷惑了德罗尼之子,随后用幻术使你方所有人都转身败退。
6.94.43
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले ।
विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ॥ ६.९४.४३ ॥
他们看见彼此被砍倒在大地之上,凄惨地挣扎,浑身浸透鲜血。
6.94.44
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।
प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ॥ ६.९४.४४ ॥
德罗纳、难敌、沙利耶和马嘶,以及大多数作为首领的大弓箭手俱卢族人。
6.94.45
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः ।
हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ॥ ६.९४.४५ ॥
所有车兵都被击溃,象被击倒,马匹与骑手成千上万地被砍杀。
6.94.46
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ ६.९४.४६ ॥
大王啊,看见您的军队向营地逃去,尽管我与提婆跋多声声呼喊。
6.94.47
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ॥ ६.९४.४७ ॥
“战斗吧,不要逃跑;这是战场上罗刹的幻术,由迦托迦查释放。”然而他们迷惑不已,无法坚守。
6.94.48
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ।
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ॥ ६.९४.४८ ॥
他们惊恐之中不信我们二人的话;见他们逃走,般度子孙便获得了胜利。
6.94.49
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ॥ ६.९४.४९ ॥
他们与迦托迦恰一同发出狮吼,在海螺与战鼓的轰鸣中,四方回响震天。
6.94.50
एवं तव बलं सर्वं हैडिम्बेन महात्मना ।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ६.९४.५० ॥
如此,这位宏大的希丁巴之子使你的全军在日落时溃散,四散奔逃。