摩诃婆罗多 · 章 6.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.97.1
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः ।
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ ६.९७.१ ॥
于是国王难敌、苏跋罗之子沙恭尼、你的儿子难降,以及不可战胜的御者之子迦尔纳[聚集]。
6.97.2
समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् ।
कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति ॥ ६.९७.२ ॥
大王,他们聚集起来,商议所愿:如何在战场上连同随从击败般度之子。
6.97.3
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः ।
सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ ६.९७.३ ॥
于是国王难敌对所有那些谋臣说话,称呼御者之子迦尔纳与大力的苏跋罗之子沙恭尼。
6.97.4
द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे ।
न पार्थान्प्रति बाधन्ते न जाने किंनु कारणम् ॥ ६.९७.४ ॥
德罗纳、毗湿摩、克立巴、沙利亚,以及苏摩达多之子在战场上并不阻挡普利塔之子,我不知是何缘故。
6.97.5
अवध्यमानास्ते चापि क्षपयन्ति बलं मम ।
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ ६.९७.५ ॥
他们虽未被杀,却消耗着我的力量。迦尔纳啊,我在战场上力量衰竭,兵器也所剩无几。
6.97.6
द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम ।
भीमसेनेन राधेय मम चैव च पश्यतः ॥ ६.९७.६ ॥
在德罗纳面前,我那些英勇的兄弟被杀了——啊,罗陀之子,被毗摩西那所杀,而我就在眼前看着。
6.97.7
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि ।
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ ६.९७.७ ॥
我被那些即使诸神也无法杀死的英勇般度之子所击败,如今陷入疑惑,我该如何作战?
6.97.8
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् ।
मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ॥ ६.९७.८ ॥
大王啊,御者之子对那位人主说:婆罗多中最优秀的人,不要悲伤;我将为你做你所喜爱的事。
6.97.9
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् ।
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ ६.९७.९ ॥
愿商塔努之子毗湿摩迅速退出这场大战;婆罗多啊,待恒河之子退出战斗、放下武器之后(我便作战)。
6.97.10
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः ।
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ ६.९७.१० ॥
在毗湿摩眼前,我将在战斗中杀死般度之子与所有索摩迦人。国王啊,我以真理向你发誓。
6.97.11
पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै ।
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ ६.९७.११ ॥
那毗湿摩总是对般度之子心怀怜悯;而且毗湿摩在战斗中无力战胜这些大车战士。
6.97.12
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः ।
स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ॥ ६.९७.१२ ॥
毗湿摩在战斗中傲慢,且始终热爱战争——亲爱的孩子,他如何能战胜那些聚集在一起的般度之子呢?
6.97.13
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति ।
अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ॥ ६.९७.१३ ॥
你从此地迅速前往毗湿摩营帐,征得年迈师长的同意,放下武器吧,婆罗多之子。
6.97.14
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् ।
मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ ६.९७.१४ ॥
毗湿摩放下武器之后,国王啊,你看那些被我一人在战场上所杀的般度之子,连同他们的朋友、亲族与盟友。
6.97.15
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव ।
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ ६.९७.१५ ॥
被迦尔纳如此说后,你的儿子难敌在那里对他的兄弟难降说了这番话。
6.97.16
अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः ।
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ ६.९७.१६ ॥
难降啊,迅速准备一切,使全军的装备完全就绪。
6.97.17
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः ।
अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ॥ ६.९७.१७ ॥
国王啊,那位人主如此说后,对迦尔纳说道:"我,人中之最,在战场上征得毗湿摩的同意,现在就来。"
6.97.18
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम ।
अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ॥ ६.९७.१८ ॥
随后我将迅速到你身边,降伏敌人者啊。毗湿摩退下之后,你便可在战场上出击。
6.97.19
निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते ।
सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ॥ ६.९७.१९ ॥
于是你的儿子迅速起身,与兄弟们一同,如同百祭者因陀罗与诸天同行。
6.97.20
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् ।
आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ ६.९७.२० ॥
于是他的兄弟难降迅速将那位如虎般英勇的王中之虎扶上马背。
6.97.21
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप ।
धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ॥ ६.९७.२१ ॥
陛下,戴着臂钏,束好冠冕,手上佩戴饰物,那位持国之子,大王,行走在路上时光彩照人。
6.97.22
भण्डीपुष्पनिकाशेन तपनीयनिभेन च ।
अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ॥ ६.९७.२२ ॥
他身上涂抹着珍贵芳香的檀香,色如婆帝花与黄金。
6.97.23
अरजोम्बरसंवीतः सिंहखेलगतिर्नृप ।
शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ॥ ६.९७.२३ ॥
陛下,身着纤尘不染的衣衫,步伐如狮子般从容,他光彩照人,如同天空中明净光辉的太阳。
6.97.24
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति ।
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ।
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ ६.९७.२४ ॥
那位人中之虎前往毗湿摩的营地,天下的大弓箭手跟随在他身后,他的兄弟们这些大弓箭手也随行,如同诸天跟随因陀罗。
6.97.25
हयानन्ये समारुह्य गजानन्ये च भारत ।
रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ॥ ६.९७.२५ ॥
婆罗多啊,有人骑马,有人骑象,也有人乘车,从四面八方将那位人中之雄围绕起来。
6.97.26
पदातयश्च त्वरिता नखरप्रासयोधिनः ।
परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम् ॥ ६.९७.२६ ॥
善于以爪与长矛作战的步兵迅速赶来,将那位大弓箭手、大车战士、持国之子团团围住。
6.97.27
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः ।
प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ ६.९७.२७ ॥
手持武器的朋友们为保护国王聚集而出,如同天上的诸神围绕因陀罗出现。
6.97.28
स पूज्यमानः कुरुभिः कौरवाणां महाबलः ।
प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः ।
अन्वीयमानः सततं सोदरैः परिवारितः ॥ ६.९७.२८ ॥
受到俱卢人尊敬的那位大力国王,前往名声显赫的恒河之子的住所。他的兄弟们不断跟随,将他团团围住。
6.97.29
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा ।
हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम् ॥ ६.९७.२९ ॥
此时那位娴熟的英雄适时举起右臂,那手臂如象鼻般柔和,能摧毁一切敌人。
6.97.30
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः ।
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ ६.९७.३० ॥
他接受四方人们举起的合掌致敬,聆听着来自各地居民的甜美话语。
6.97.31
संस्तूयमानः सूतैश्च मागधैश्च महायशाः ।
पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ॥ ६.९७.३१ ॥
受到苏陀与摩揭陀颂者的赞颂,大名远扬,尊敬他们所有人,是诸世界之主的主宰。
6.97.32
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः ।
परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ॥ ६.९७.३२ ॥
那里,洒有香油、熊熊燃烧的金灯从四面八方环绕着大王。
6.97.33
स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन् ।
शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः ॥ ६.९७.३३ ॥
被那些金灯环绕的大王,光辉闪耀,犹如月亮与明亮的大行星相伴。
6.97.34
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ।
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम् ॥ ६.९७.३४ ॥
那里,身着长袍与头巾、手持竹杖和摇铃之杖的侍者,从四面八方轻轻驱散人群。
6.97.35
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् ।
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ ६.९७.३५ ॥
随后,大王抵达毗湿摩吉祥的住所,下马,走近毗湿摩,这位人主。
6.97.36
अभिवाद्य ततो भीष्मं निषण्णः परमासने ।
काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते।
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ ६.९७.३६ ॥
随后,他向毗湿摩致敬,坐在最尊贵的座位上,即覆盖着可爱毯褥的金色萨尔瓦陀婆陀罗座上,双手合十,哽咽着,泪眼盈盈,对毗湿摩说道。
6.97.37
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन ।
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ।
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ॥ ६.९७.३७ ॥
倚仗你,灭敌者啊,我们在战斗中甚至能战胜因陀罗率领的天神与阿修罗;何况那些英勇的般度之子,连同他们的朋友、随从与亲属。
6.97.38
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ।
जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान् ॥ ६.९७.३८ ॥
因此,恒河之子啊,主啊,你应当怜悯我:像大因陀罗击杀檀那婆那样,去击杀般度的英勇之子吧。
6.97.39
पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् ।
पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत ॥ ६.९७.३९ ॥
正如先前所说,大臂者啊,我将与喀喀耶人一同杀死索摩迦、般遮罗、迦卢沙人,婆罗多之后。
6.97.40
त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् ।
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ ६.९७.४० ॥
愿你的话成真:击杀聚集在此的普利塔之子与大弓箭手索摩迦人;婆罗多之后,请言而有信。
6.97.41
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो ।
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ ६.९७.४१ ॥
国王啊,主啊,无论你是出于怜悯,还是出于对我的敌意,或是出于我的不幸,你都在保护般度的儿子们。
6.97.42
अनुजानीहि समरे कर्णमाहवशोभिनम् ।
स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥ ६.९७.४२ ॥
请允许украсить战场的迦尔纳出战;他将在战争中,连同朋友、随从与亲属,战胜普利塔之子。
6.97.43
स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव ।
नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम् ॥ ६.९७.४३ ॥
国王、你的儿子难敌如此说完,对真正勇武的毗湿摩一句话也没有说。