Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.10.1

एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् ।
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥ ७.१०.१ ॥

如此询问了御者之子之后,德拉斯特拉因心中的忧愁而极度痛苦,对儿子们的胜利感到绝望,倒在了地上。

7.10.2

तं विसंज्ञं निपतिन्त सिषिचुः परिचारिकाः ।
जलेनात्यर्थशीतेन जीवन्त्यः पुण्यगन्धिना ॥ ७.१०.२ ॥

служанки在他昏倒跌落时,用极冷、带着纯净香气的水洒在他身上,想要使他苏醒。

7.10.3

पतितं चैनमालोक्य समस्ता भरतस्त्रियः ।
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥ ७.१०.३ ॥

看到他倒下,婆罗多家族的所有女人都围绕着这位大王,用手触摸他。

7.10.4

उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् ।
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः ॥ ७.१०.४ ॥

她们慢慢地把国王从地上扶起,那些容颜美丽的女人哽咽着,将他扶到座位上。

7.10.5

आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः ।
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥ ७.१०.५ ॥

虽然他已坐到座位上,国王却被昏厥所笼罩,一动不动,而四周有人向他扇风。

7.10.6

स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ ७.१०.६ ॥

他慢慢恢复知觉,颤抖着的君主再次向牙瓦尔迦尼之子御者详细询问了事情的经过。

7.10.7

यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः ।
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत् ॥ ७.१०.७ ॥

当那如升起的太阳以光明驱散黑暗的阿阇多设勒(阿周那)前来时,谁在德罗纳处阻挡了他?

7.10.8

प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम् ।
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम् ॥ ७.१०.८ ॥

当我看见他如发情而愤怒、迅疾的大象,面带平静,向敌对的象群走去,

7.10.9

वासितासङ्गमे यद्वदजय्यं प्रतियूथपैः ।
निजघान रणे वीरान्वीरः पुरुषसत्तमः ॥ ७.१०.९ ॥

犹如在发情母象的聚会上,大象不被敌对的象群首领所战胜,那位英雄、人中最杰出者在战场上杀死了众英雄。

7.10.10

यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा ।
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ॥ ७.१०.१० ॥

那位独自拥有大力、能以可怖的目光焚毁难敌全军、坚定守信的人。

7.10.11

चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम् ।
दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥ ७.१०.११ ॥

哪些英雄围住并阻挡了他——那夺人双目、专注于胜利、持弓、不坠、自制、在世间备受尊敬之人?

7.10.12

के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम् ।
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥ ७.१०.१२ ॥

我方哪些人在那里靠近了难以攻击的国王、持弓的、不坠的、人中猛虎、昆蒂之子?

7.10.13

तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत् ।
यः करोति महत्कर्म शत्रूणां वै महाबलः ॥ ७.१०.१३ ॥

他迅速冲上前去,扑向德罗纳;他是为敌人建立伟业的大力士。

7.10.14

महाकायो महोत्साहो नागायुतसमो बले ।
तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥ ७.१०.१४ ॥

身躯巨大、雄心勃勃、力量相当于万头象的人——哪些勇士围住并阻挡了前来的毗摩森?

7.10.15

यदायाज्जलदप्रख्यो रथः परमवीर्यवान् ।
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन् ॥ ७.१०.१५ ॥

当勇武无比的毗跋蹉(阿周那)乘着如云般的战车到来时,犹如雷云投下可怕的霹雳。

7.10.16

विसृजञ्छरजालानि वर्षाणि मघवानिव ।
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥ ७.१०.१६ ॥

如因陀罗降雨般倾泻箭网,以战车轮圈的轰鸣震响四方。

7.10.17

चापविद्युत्प्रभो घोरो रथगुल्मवलाहकः ।
सनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥ ७.१०.१७ ॥

弓弦闪电般耀眼,可怖,以战车方阵为云,以轮圈之声为雷鸣,以箭声而极其悦耳。

7.10.18

रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः ।
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः ॥ ७.१०.१८ ॥

以愤怒压倒乌云,迅如心念,穿透要害,持箭,喧嚣,充满血水。

7.10.19

सम्प्लावयन्दिशः सर्वा मानवैरास्तरन्महीम् ।
भीमनिःस्वनितो रौद्रो दुर्योधनपुरोगमान् ॥ ७.१०.१९ ॥

他淹没一切方向,以人众覆盖大地,发出可怖的吼声,凶猛地冲向走在难敌前面的人。

7.10.20

युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः ।
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥ ७.१०.२० ॥

在战斗中,胜利者以鹫羽、经石磨利的箭雨淋湿了他们。执持甘提婆的智者啊,那时你们的心意如何?

7.10.21

इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ।
यदायात्कथमासीत्तु तदा पार्थं समीक्षताम् ॥ ७.१०.२१ ॥

使天空布满箭矢的猴中之王旗帜者(阿周那)到来时,情形如何?那时你们是如何看见般度之子的?

7.10.22

कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम् ।
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात् ॥ ७.१०.२२ ॥

当阿周那以可怖之势猛烈追击你们时,你们的军力难道不是因甘提婆之声而消亡了吗?

7.10.23

कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः ।
वातो वेगादिवाविध्यन्मेघाञ्शरगणैर्नृपान् ॥ ७.१०.२३ ॥

财富征服者难道没有用箭矢驱散你们的村落(居所)吗?正如风以其威力吹散云朵,阿周那难道不是以众多箭矢射穿了诸王吗?

7.10.24

को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति ।
यमुषश्चुत्य सेनाग्रे जनः सर्वो विदीर्यते ॥ ७.१०.२४ ॥

在战场上,何人能抵挡执甘提婆弓之人?面对那在黎明时分于军前挺立的人,众人都被撕裂。

7.10.25

यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् ।
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥ ७.१०.२५ ॥

当军队颤抖、恐惧甚至触及勇士之时,那里谁没有舍弃德罗纳?哪些卑贱之人因恐惧而逃走?

7.10.26

के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ॥ ७.१०.२६ ॥

或者那里谁舍弃身体,走向敌对的死亡,走向那战胜非人者、甚至战胜战场上的达南阇耶之人?

7.10.27

न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः ।
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिःस्वनम् ॥ ७.१०.२७ ॥

我的人马也无法承受白马者的速度,也无法承受甘狄拔之声,那如同雨季云层的雷鸣。

7.10.28

विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्चयः ।
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥ ७.१०.२८ ॥

那辆以毗湿伐色那为御者、以达南阇耶为战士的战车,我认为即使神与阿修罗也无法战胜。

7.10.29

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥ ७.१०.२९ ॥

那位般度之子柔弱、年轻、勇猛、容貌可爱;聪慧、精通、有智慧,在战场上有真正的勇力。

7.10.30

आरावं विपुलं कुर्वन्व्यथयन्सर्वसैनिकान् ।
यदायान्नकुलो द्रोणं के शूराः पर्यवारयन् ॥ ७.१०.३० ॥

当那伊昆拉大声呼喊、使所有士兵痛苦,向德罗纳逼来时,哪些勇士将他包围?

7.10.31

आशीविष इव क्रुद्धः सहदेवो यदाऽभ्ययात् ।
कदनं करिष्यञ्शत्रूणां तेजसा दुर्जयो युधि ॥ ७.१०.३१ ॥

当愤怒的萨诃提婆如毒蛇般前来、欲以威力歼灭敌人时,他凭其威势在战场上不可战胜。

7.10.32

आर्यव्रतममोघेषुं हीमन्तमपराजितम् ।
सहदेवं तमायान्तं के शूराः पर्यवारयन् ॥ ७.१०.३२ ॥

当忠于高尚誓愿、箭无虚发、谦逊而不败的萨诃提婆前来时,哪些勇士将他包围并阻挡?

7.10.33

यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम् ।
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम् ॥ ७.१०.३३ ॥

他曾摧毁索维罗国王的庞大军队,夺走了博嘉族那位各部位都极其美丽的可爱王后。

7.10.34

सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् ।
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥ ७.१०.३४ ॥

真实、坚定、勇武与纯粹的梵行,这一切都恒常地存在于这位人中雄牛——尤尤达那之中。

7.10.35

बलिनं सत्यकर्माणमदीनमपराजितम् ।
वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥ ७.१०.३५ ॥

他强大、行为真实、无所畏惧且不可战胜,在战斗中与婆修提婆(克里希那)相当,仅次于婆修提婆。

7.10.36

धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि ।
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥ ७.१०.३६ ॥

这位因阿周那(达那闻耶)的教导而在弓箭与兵器之术上居首、在武器上与普利塔之子相当的萨诃提婆,是谁将他从德罗纳面前阻挡下来的?

7.10.37

वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् ।
रामेण सममस्त्रेषु यशसा विक्रमेण च ॥ ७.१०.३७ ॥

维里施尼族中最优秀的英雄与勇士,所有弓手中的首位,在武器、名声与勇力上都与罗摩相等。

7.10.38

सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम् ।
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥ ७.१०.३८ ॥

真实、坚韧、智慧、勇气以及至高的梵天神箭,这一切都在萨特瓦塔身上,正如三界都在克沙瓦身上。

7.10.39

तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः ।
समासाद्य महेष्वासं के शूराः पर्यवारयन् ॥ ७.१०.३९ ॥

那些英雄接近这位具备such品质、即使诸神也难以阻挡的大弓手,将他包围并加以阻挡?

7.10.40

पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम् ।
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥ ७.१०.४० ॥

般遮罗族中最杰出的英雄,为高贵家族所爱戴,永远行高尚之事,在战场上具有至高的勇力。

7.10.41

युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम् ।
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥ ७.१०.४१ ॥

忠于达那闍耶的利益,为我的败亡而兴起,如阎摩、俱毗罗、太阳、因陀罗和伐楼那一般。

7.10.42

महारथं समाख्यातं द्रोणायोद्यतमाहवे ।
त्यजन्तं तुमुले प्राणान्के शूराः समवारयन् ॥ ७.१०.४२ ॥

那位在战斗中迎向德罗那、在激烈混战中舍命的著名大战车武士,哪些英雄将他完全阻挡?

7.10.43

एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः ।
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत् ॥ ७.१०.४३ ॥

当他独自从车底国前来投奔般度之子、向德罗纳而来时,谁没有阻拦住持明一族(Dhṛṣṭaketu)?

7.10.44

योऽवधीत्केतुमान्वीरो राजपुत्रं दुरासदम् ।
अपरान्तगिरिद्वारे द्रोणात्कस्तं न्यवारयत् ॥ ७.१०.४४ ॥

在阿帕兰塔山门,杀死了难以接近的王子的英雄凯图曼,当他与德罗纳相遇时,谁没有阻拦德罗纳?

7.10.45

स्त्रीम्पुसयोर्नरव्याघ्रो यः स वेद गुणागुणान् ।
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥ ७.१०.४५ ॥

那位熟知男女长短优劣的人中猛虎,本可阻挡在战场上心志坚定的祭祀之子湿婆坎迪(Śikhaṇḍin)。

7.10.46

देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः ।
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥ ७.१०.४६ ॥

当那位在战场上致使提婆跋罗陀(毗湿摩)死亡的大德,面对德罗纳前进时,哪些勇士从四面将他拦住?

7.10.47

यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् ।
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा ॥ ७.१०.४७ ॥

在那位英雄身上,一切德性都超过持财(阿周那),他身上常有兵器、真实与梵行——

7.10.48

वासुदेवसमं वीर्ये धनञ्जयसमं बले ।
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ ॥ ७.१०.४८ ॥

勇力与婆苏提婆(克里希那)相等,力量与持财(阿周那)相等,光辉如日,智慧与布利哈斯帕提相等——

7.10.49

अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् ।
द्रोणायाभिमुखं यान्तं के शूराः समवारयन् ॥ ७.१०.४९ ॥

那位如张口死神般走向德罗纳的大士阿毗曼尤,是被哪些勇士阻挡的?

7.10.50

तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा ।
यदाभ्यधावद्वै द्रोणं तदाऽऽसीद्वो मनः कथं ॥ ७.१०.५० ॥

当年轻而心智如少年、杀敌英雄的苏跋特罗扑向德罗纳时,你们的心是怎样的?

7.10.51

द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः ।
यद्रोणमाद्रवन्सङ्ख्ये के शूरास्तान्न्यवारयन् ॥ ७.१०.५१ ॥

如河流奔向大海,人中猛虎般的德罗波蒂之子们在战场上冲向德罗纳;哪些勇士阻挡了他们?

7.10.52

एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः ।
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥ ७.१०.५२ ॥

这些少年放弃游戏十二年,为学习兵器之术而居于毗湿摩处,持守至高的誓愿。

7.10.53

क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः ।
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥ ७.१०.५३ ॥

刹陀让阇、刹陀提婆、刹陀跋摩与施予尊荣者,这些是猛光的英勇之子;哪些勇士将他们从德罗纳身边拦下?

7.10.54

शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः ।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥ ७.१०.५४ ॥

谁将德罗纳身边那位胜过百人、被毗湿尼族视为与己等同的大弓手者奇吉塔纳拦下?

7.10.55

वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि ।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥ ७.१०.५५ ॥

谁从德罗纳手中拦住了无畏之心的阿那提利瑟提?他就是在战场上掠走羯陵国少女的伐尔达克谢弥。

7.10.56

भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः ॥ ७.१०.५६ ॥

五位凯刻耶兄弟,正直而勇武真实,如因陀罗虫般光彩,披红色铠甲,持红色兵器与旌旗。

7.10.57

मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥ ७.१०.५७ ॥

般度之子的姨表兄弟们,求胜心切,前来要杀德罗纳——哪些勇士把他们团团围住拦下?

7.10.58

यं योधयन्तो राजानो नाजयन्वारणावते। ॥ ७.१०.५८ ॥

那位在婆罗那婆多作战的诸王也未能战胜的人。

7.10.59

धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् ।
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत् ॥ ७.१०.५९ ॥

谁从德罗纳手中拦住了弓手中的翘楚、英勇、守誓、大力、人中虎般的犹由茨?

7.10.60

यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात् ॥ ७.१०.६० ॥

在婆罗奈城,以钩箭将迦尸王之子、大车战士(在战场上贪恋女人者)从战车上射落之人。

7.10.61

धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् ।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥ ७.१०.६१ ॥

大弓箭手、般度子的谋士猛光,是为难敌之利、为杀死德罗纳而被造就的。

7.10.62

निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः ।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन् ॥ ७.१०.६२ ॥

在战场上焚烧战士、四面撕裂,朝德罗纳而来的他,被哪些英雄阻挡?

7.10.63

उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम् ।
शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन् ॥ ७.१०.६३ ॥

在德鲁帕达怀中长大、精通兵器、受武器护持的世尼坎丁,是谁从德罗纳面前将他挡开?

7.10.64

य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ।
महता रथघोषेण मुख्यारिघ्नो महारथः ॥ ७.१०.६४ ॥

他像包裹皮革一样将整个大地环绕,以战车的巨响杀死主要敌人——那位大车战士。

7.10.65

दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान् ।
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥ ७.१०.६५ ॥

他举行了十次马祀,供奉食物、饮料,并给予完备的布施;所有祭祀都顺利进行,他像爱护儿子一样保护臣民。

7.10.66

विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत् ।
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥ ७.१०.६६ ॥

他的祭礼布施甚至阻断了恒河之水;恒河水流中有多少沙粒,那位英雄乌希纳罗之子便在祭祀中布施多少头牛。

7.10.67

न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥ ७.१०.६७ ॥

前世与后世的人都未曾做过此事;当这件艰难之业完成时,诸神如此高声呼喊。

7.10.68

पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु ।
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम् ॥ ७.१०.६८ ॥

在三界之中,于动与不动之物里,我们见不到像他那样的人——既无已生者,亦无将生者,此时也无第二人。

7.10.69

अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत ।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥ ७.१०.६९ ॥

除乌奢那罗之子伽耶之外,又有另一位承担重任者——世间居民无人能走他的道路。

7.10.70

तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम् ॥ ७.१०.७० ॥

当他的孙子伽耶面对德罗纳而来,渴望如张口的死神,谁阻拦了他?

7.10.71

विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥ ७.१०.७१ ॥

谁是那些围住并阻挡了毗罗吒的战车军队的英雄?那位摩差国王,敌人的屠戮者,在战斗中寻求德罗纳。

7.10.72

सद्यो वृकोदराज्जातो महाबलपराक्रमः ।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम् ॥ ७.१०.७२ ॥

刚从狼腹(毗摩)所生,大力勇猛的幻术罗刹英雄——因他,我心中生起巨大的恐惧。

7.10.73

पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम् ।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत् ॥ ७.१०.७३ ॥

谁从德罗纳手中救下了那位渴望般度之子取胜、是我诸子之刺的大德瓶首(Ghaṭotkaca)?

7.10.74

एते चान्ये च बहवो येषामजितं युधि ।
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥ ७.१०.७४ ॥

这些人和其他许多在战斗中不可战胜、在战场上舍弃性命的人,他们在战斗中的不败又何在?

7.10.75

येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ।
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः। ॥ ७.१०.७५ ॥

谁以那位人中之虎、执沙尔嘎弓者为庇护——世界的至上导师、世界之主、永恒者。

7.10.76

नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः ।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। ॥ ७.१०.७६ ॥

那罗延,无战之域的主宰,神圣,具神性本质,主君;其神圣的功业为智者所宣说。

7.10.77

तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ७.१०.७७ ॥

我将以虔诚宣说那些功业,以安定我自己的心。

7.10.88

षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं ॥ ७.१०.८८ ॥

即便六个月间怒火中烧,渴望杀死武士之主,他们仍然交战。