Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.111

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.111.1

प्रीतियुक्तं च हृद्यं च माननीयं च सर्वशः ।
कालयुक्तं च चित्रं च स्वधिया चाभिभाषितम् ॥ ७.१११.१ ॥

那些话充满温情,悦耳动人,处处值得尊敬,合乎时宜,巧妙精妙,出自他自己的智慧。

7.111.2

धर्मराजस्य तद्वाक्यं निश्यम्य शिनिपुङ्गवः ।
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥ ७.१११.२ ॥

闻听法王的那番话,śini族中最优秀的萨提亚基回答了坚战,婆罗多中最优秀的人啊。

7.111.3

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाऽच्युत ।
न्याययुक्तं च सत्यं च फल्गुनार्थे यशस्करम् ॥ ७.१११.३ ॥

阿里油多啊,你所说的这一切话,我都听到了;它们合乎正义,真实,并为法尔古那(阿周那)带来荣耀。

7.111.4

एवंविधे तथा काले मादृशं प्रेक्ष्य सत्तम ।
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ॥ ७.१११.४ ॥

善人中最优秀的人啊,在这种时刻,看到像我这样的人,王中之王啊,你应当像对待普利塔之子那样对我说话。

7.111.5

न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन ।
त्वत्प्रयुक्तः पुनरहं किं नकुर्यां महाहवे ॥ ७.१११.५ ॥

为了财主(阿周那),我的性命无论如何都不值得保全。受你差遣,在这场大战中,我还有什么做不到的呢?

7.111.6

लोकत्रयं योधयेयं सदेवासुरमानुषम् ।
त्वत्प्रयुक्तो नरेन्द्रेन्द्र किम्पुनस्तान्सुदुर्बलान् ॥ ७.१११.६ ॥

受你差遣,我即使与包括诸天、阿修罗和人类在内的三界作战,也可以;人王中的因陀罗啊,何况那些极其弱小之人呢?

7.111.7

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः ।
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥ ७.१११.७ ॥

大王啊,今日我将从四面与苏yodhana的军队作战,并在战场上取胜。此乃我对你的真言。

7.111.8

कुशल्यहं कुंशलिनं समासाद्य धनञ्जयम् ।
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥ ७.१११.८ ॥

大王啊,我安然无恙,与安好的达南阇耶相会,待jayadratha被杀之后,我将再次回到你的面前。

7.111.9

अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप ।
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥ ७.१११.९ ॥

人主啊,我必须将一切告知你:世尊(黑天)的话语,以及智慧的般古那的话语。

7.111.10

दृढं त्वभिहितश्चाहमर्जुनेन पुनःपुनः ।
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ ७.१११.१० ॥

在全军之中,世尊(黑天)聆听之际,阿周那一再坚定地对我说。

7.111.11

अद्य माधव राजानमप्रमत्तोऽनुपालय ।
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥ ७.१११.११ ॥

摩陀婆啊,今日你当警觉地护卫国王;在战斗中怀着高尚的决心,直到我杀死jayadratha为止。

7.111.12

त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे ।
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥ ७.१११.१२ ॥

大臂者啊,我将国王托付给你或大车将普罗迪由摩那,便无所顾虑地前往jayadratha处。

7.111.13

जानीषे हि रणे द्रोणं कुरुषु श्रेष्ठसम्मतम् ।
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥ ७.१११.१३ ॥

摩陀婆啊,你知道在战斗中德罗纳被视为俱卢族中最优秀者,你也一直听闻德罗纳的誓言。

7.111.14

ग्रहमे धर्मराजस्य भारद्वाजोऽपि गृध्यति ।
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम् ॥ ७.१११.१४ ॥

婆罗堕阇(德罗纳)也渴望擒获法王,而德罗纳在战斗中确实能够擒住坚战。

7.111.15

एवं त्वयि समाघाय धर्मराजं नरोत्तमम् ।
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ॥ ७.१११.१५ ॥

如此,把最优秀的人、法王托付给你之后,我今天将前往杀死信度王(胜车)。

7.111.16

स त्वमद्य रणे यत्तो रक्ष माधव पाण्डवम् ।
रक्षेणे धर्मराजस्य ध्रुवो हि विजयो मम ॥ ७.१११.१६ ॥

摩陀婆啊,你今日在战斗中务必谨慎,守护般度之子;有法王的守护,我的胜利便是确定的。

7.111.17

जयद्रथं च हत्वाऽहं द्रुतमेष्यामि माधव ।
धर्मराजं न चेद्द्रोणो निगृह्णीयाद्रणे बलात् ॥ ७.१११.१७ ॥

摩陀婆啊,杀死胜车之后我将迅速返回,除非德罗纳在战斗中以武力擒住法王。

7.111.18

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव ।
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥ ७.१११.१८ ॥

摩陀婆啊,若最优秀的人被婆罗堕阇所擒,信度王就不会被杀,这也会让我不快。

7.111.19

एवङ्गते नरश्रेष्ठे पाण्डवे सत्यवादिति ।
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ॥ ७.१११.१९ ॥

既然人中之最、说真话的般度之子已如此,显然我们又将不得不返回森林。

7.111.20

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति ।
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥ ७.१११.२० ॥

若德罗纳在战中愤怒地擒住坚战,那么我的这次胜利显然将变得毫无意义。

7.111.21

स त्वमद्य महाबाहो प्रियार्थं मम माधव ।
जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥ ७.१११.२१ ॥

因此,大臂的摩达婆啊,今日为我的喜悦、为胜利与名声,请在战中护卫国王。

7.111.22

स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना ।
भारद्वाजाद्भयं नित्यं मन्यमानेन वै प्रभो ॥ ७.१११.२२ ॥

主啊,正是你这份托付,由善射者阿周那托付于我,因为他一直畏惧婆罗堕遮之子德罗纳。

7.111.23

तस्यापि च महाबाहो नित्यं पश्यामि संयुगे ।
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ॥ ७.१११.२३ ॥

大臂的主啊,在战中我总见他除了罗克米尼之子外,并无别的对手。

7.111.24

मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः ।
सोऽहं संभावनानं चैतामाचार्यवचनं च तत्।
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ॥ ७.१११.२४ ॥

智慧的婆罗堕遮之子德罗纳,即便在战中也尊重我;那份敬重与师长之言,我不能从背后弃置,也不能抛弃你,大地之主啊。

7.111.25

आचार्यो लघुहस्तत्वादभेद्यकवचावृतः ।
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥ ७.१११.२५ ॥

师尊德罗纳手法轻灵,身披刀枪不入的铠甲;他在战场上将如孩童得了小鸟般嬉戏。

7.111.26

यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः ।
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथाऽर्जुनः ॥ ७.१११.२६ ॥

若手持弓箭、旗帜为摩伽罗的迦尔什尼(阿周那)在此,我便将你托付于他;他会像阿周那一样护卫你。

7.111.27

कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।
यः प्रतीयाद्रमे द्रोणं यावद्गच्छामि पाण्डवम् ॥ ७.१११.२७ ॥

请你自己保护自己吧。我走后谁来护卫你?我前往般度之子那边时,谁敢迎上德罗纳去与他交战?

7.111.28

मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् ।
न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥ ७.१११.२८ ॥

大王啊,今日你不必因阿周那而惧怕;那位大臂者一旦担起重任,便永不倒下。

7.111.29

ये च सौवीरका योधास्तथा सैन्धवपौरवाः ।
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ॥ ७.१११.२९ ॥

那些索维罗(Sauvīra)的战士、信度人与保罗婆人,北方与南方的战士,以及其他大车战士——

7.111.30

ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तितः ।
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥ ७.१११.३० ॥

大王啊,以迦尔纳为首、名声远扬的那些高贵大车战士——他们全部,连愤怒的阿周那的十六分之一都不配。

7.111.31

उद्युक्ताः पृथिवीपाल ससुरासुरमानुषाः ।
सराक्षसगणा राजन्सकिन्नरमहोरगाः ॥ ७.१११.३१ ॥

地上的守护者啊,即使诸天神、阿修罗、人类,连同罗刹众,大王啊,以及紧那罗与大蛇,都已列阵待战。

7.111.32

जङ्गमस्थावरैः सार्धं नालं पार्थस्य संयुगे ।
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ॥ ७.१११.३२ ॥

即便与一切动与不动的众生联合,在战斗中也无法抵挡般度之子。知此之后,大王啊,愿你对持财者(阿周那)的恐惧消散。

7.111.33

एवं वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ ।
न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते। ॥ ७.१११.३३ ॥

如此,那两位英雄、大弓箭手、具真实勇力的两位黑天,在他们身上任何情况下都找不到行动上的失败。

7.111.34

दैवं कृतास्त्रतां योगममर्षं शौर्यमाहवे ।
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥ ७.१११.३४ ॥

请思量你兄弟的神圣之力、精通兵器、修习苦行、愤怒、战场上的勇武、感恩与慈悲。

7.111.35

मयि चापि सहाये ते गच्छमानेऽर्जुनं प्रति ।
द्रोणे चित्रास्त्रतां सह्ख्ये राजंस्त्वमनुचिन्तय ॥ ७.१११.३५ ॥

当我也作为你的助手前去对阵阿周那时,大王啊,请你思量德罗纳奇妙的兵器技艺。

7.111.36

आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति ।
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥ ७.१११.३६ ॥

大王啊,老师极力渴望擒获你,为的是守护自己的誓言并使之成真,婆罗多的后裔啊。

7.111.37

कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।
यस्याहं प्रत्ययात्पार्थं गच्छेयं फल्गुनं प्रति ॥ ७.१११.३७ ॥

现在就为自己的安全作出安排吧。我离去之后,谁来做你的保护者?我将凭借谁的信任前往普利塔之子、法尔古那(阿周那)那里?

7.111.38

न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे ।
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥ ७.१११.३८ ॥

大王,我不会在大战中撇下你而去。库鲁的后裔,我对你说的正是实情。

7.111.39

न पश्यामि रथं कञ्चिद्यस्ते गोप्ता भवेदिह ।
शक्तं यं मन्यसे राजन्गोप्तारं प्रति पाण्डव ॥ ७.१११.३९ ॥

大王啊,我在此看不到能成为你保护者的战车。般度之子啊,你认为能做保护者的,又是谁?

7.111.40

एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर ।
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ॥ ७.१११.४० ॥

智者中的最优秀者啊,你以智慧反复思量此事,以智慧看清了最高的善,那么,大王,请指示我吧。

7.111.41

एवमेतन्महाबाहो यथा वदसि माधव ।
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष ॥ ७.१११.४१ ॥

大臂的摩陀婆啊,你所说的正是如此;但是,先生,我对白马者(阿周那)的心意仍然无法纯净。

7.111.42

करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम् ।
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ॥ ७.१११.४२ ॥

为了保护我自己,我将竭尽最大努力。你得到允许后,去往达南遮耶(阿周那)所去之处吧。

7.111.43

आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति ।
विचार्यैतत्स्वयं बुद्ध्या गमनं तत्र रोचये ॥ ७.१११.४३ ॥

在战斗中保护自己,并前往阿周那处——我以自己的智慧思量此事,赞同前往那里。

7.111.44

स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः ।
ममापि रक्षणं भीमः करिष्यति महाबलः ॥ ७.१११.४४ ॥

你登上战车,前往达那阳耶(阿周那)所去之处;我的护卫也将由大力的婆罗多(怖军)承担。

7.111.45

पार्षतश्च ससोदर्यः पार्थिवाश्च मबाहलाः ।
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥ ७.१११.४५ ॥

般沙塔与他的兄弟们、大臂诸王,以及德罗波蒂的儿子们——亲爱的,他们将护卫我,毫无疑问。

7.111.46

केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ।
विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥ ७.१११.४६ ॥

迦吠耶的五位兄弟、罗刹瓦托特迦恰、毗罗吒、德鲁帕达,以及大车士湿利根丁(也将护卫我)。

7.111.47

धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मातुलः ।
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा।
एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥ ७.१११.४७ ॥

勇武的德利湿吒刚图、我的舅舅昆提婆阇、那拉与萨诃提婆,以及般遮罗人与苏遮耶人——他们全都一心,亲爱的,将护卫我,毫无疑问。

7.111.48

न द्रोणः सह सैन्येन कृतवर्मा च संयुगे ।
समासादयितुं शक्तो न च मां धर्षयिष्यति ॥ ७.१११.४८ ॥

德罗纳连同他的军队,以及战斗中的克里特瓦尔曼,都无法接近我与我对阵,也不能攻击我。

7.111.49

धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः ।
वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥ ७.१११.४९ ॥

在战斗中,折磨敌人的德立斯塔衍那将以勇力阻挡愤怒的德罗纳,如同海岸阻挡大海。

7.111.50

यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा ।
न द्रोणस्य बलं तात क्रमेत्तत्र कथञ्चन ॥ ७.१११.५० ॥

亲爱的,在战斗中,杀害敌方英雄的普里沙塔之子屹立之处,德罗纳的军队绝不能前进一步。

7.111.51

एष द्रोणविनाशाय समुत्पन्नो हुताशनात् ।
कवची स शरी खङ्गी धन्वी च वरभूषणः ॥ ७.१११.५१ ॥

他为毁灭德罗纳而生于祭火之中;身披铠甲,携带箭矢、剑与弓,佩戴精美饰物。

7.111.52

एष द्रोणं रणे क्रुद्धं वारयेत स वै प्रभो ।
पाञ्चालः सहितैः सर्वैः पाण्डवानां च धन्विभिः ॥ ७.१११.५२ ॥

主上,这位般遮罗王子定会在战斗中与般度诸子的所有弓箭手一起,阻挡愤怒的德罗纳。

7.111.53

विक्रुधं गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् ।
धृष्टद्युम्नो रणे क्रुद्धं द्रोणमावारयिष्यति ॥ ७.१११.५३ ॥

噫,席尼之子,去吧,莫怒,也莫为我慌乱;德立斯塔衍那将在战斗中阻挡愤怒的德罗纳。