Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.117

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.117.1

काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः ।
भारद्वाजः शरव्रातैर्मर्मभिद्भिरवाकिरत् ॥ ७.११७.१ ॥

当百军被Śaineya (Sātyaki)一次又一次地杀戮时,Bharadvāja之子德罗纳以刺穿要害的箭雨覆盖了他。

7.117.2

स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत् ।
पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥ ७.११७.२ ॥

德罗纳与萨特瓦塔(萨提亚基)之间发生了那场激烈的冲突,宛如跋利与婆娑(因陀罗)之战,众军皆在旁观看。

7.117.3

ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः ।
त्रिभिराशीविपाकारैर्ललाटे समविध्यत ॥ ७.११७.३ ॥

于是德罗纳以三支色彩斑斓、全铁所制、形如毒蛇的箭射穿了希尼之孙的额头。

7.117.4

तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः ।
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥ ७.११७.४ ॥

大王啊,插在他额上那些直飞的箭,使尤尤丹那(萨提亚基)闪耀,犹如三峰之山。

7.117.5

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् ।
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥ ७.११७.५ ॥

于是婆罗堕遮之子德罗纳伺机而动,在战斗中向他射出了其他箭矢,其声如因陀罗的霹雳。

7.117.6

तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् ।
द्वाभ्यांद्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥ ७.११७.६ ॥

精通至上神兵的达沙尔哈(萨提亚基),以羽翼精良的箭矢,两两一对地斩断了从德罗纳弓上射出、飞来的那些箭。

7.117.7

तामस्य लघुतां द्रोणः समवेक्ष्य विशाम्पते ।
प्रहस्य सहसाऽविध्यत्त्रिंशतां शिनिपुङ्गवम् ॥ ७.११७.७ ॥

人主啊!德罗纳见他灵巧,笑着突然以三十支箭射中了西尼族中最优秀的勇士。

7.117.8

पुनः पञ्चशतेषूणां शितेन च समार्पयत् ।
लघुतां युयुधानस्य लाघवेन विशेषयन् ॥ ७.११७.८ ॥

他又以五百支利箭还击,凭借技艺超过了尤尤陀那的敏捷。

7.117.9

समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः ।
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः ॥ ७.११७.९ ॥

如同愤怒的大蛇从蚁穴中窜出,国王啊,德罗纳的战车上射出了穿透身体的箭矢。

7.117.10

तथैव युयुधानेन सृष्टाः सतसहस्रशः ।
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥ ७.११७.१० ॥

同样,尤尤陀那射出的数十万支饮血之箭笼罩了德罗纳的战车。

7.117.11

लाघवाद्दिजमुख्यस्य सात्वतस्य च मारिष ।
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥ ७.११७.११ ॥

先生啊,在那位婆罗门之首与萨特瓦塔的技艺上我们看不出差别;两位人中雄牛不相上下。

7.117.12

सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः ।
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ॥ ७.११७.१२ ॥

于是萨提亚基怒气勃发,以九支弯曲节的箭猛击德罗纳,又以利箭射中他的旗幡。

7.117.13

सारथिं च शतेनैव भारद्वाजस्य पश्यतः ।
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः ॥ ७.११७.१३ ॥

大车将德罗纳见尤尤陀那身手敏捷,而婆罗堕遮之子在旁观看,便以百箭射中了他的御者。

7.117.14

सप्तत्या सारथिं विद्व्वा तुरङ्गांश्च त्रिभिस्त्रिभिः ।
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम् ॥ ७.११७.१४ ॥

他以七十箭射中御者,每匹马各中三箭,又以一箭斩断了立在摩陀婆战车上的旗帜。

7.117.15

अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा ।
धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥ ७.११७.१५ ॥

随后,他以另一支金羽的婆罗箭,在战中斩断了大心的摩陀婆之弓。

7.117.16

सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः ।
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥ ७.११७.१६ ॥

于是愤怒的大车将萨提亚奇弃弓,抓起一根巨大的铁棒,朝婆罗堕遮之子投去。

7.117.17

तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् ।
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥ ७.११७.१७ ॥

那根以皮带缚紧、突然飞来的铁棒,德罗纳以许多形状各异的箭将其挡开。

7.117.18

अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः ।
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥ ७.११७.१८ ॥

于是真正勇武的萨提亚奇又取一弓,以许多在石上磨利的箭射中了英雄婆罗堕遮之子。

7.117.19

स विद्वा समरे द्रोणं सिंहनादममुञ्चत ।
तं वै न मृमषे द्रोणः सिंहनादं महात्मनः ॥ ७.११७.१९ ॥

他在战中射伤德罗纳,发出狮子般的吼声。德罗纳无法忍受这位大德者的狮吼。

7.117.20

ततः शक्तिं रणे द्रोणो रुक्मदण्डामयस्मयीम् ।
तरसा प्रेषयामास माधवस्य रथं प्रति ॥ ७.११७.२० ॥

此时在战斗中,德罗纳猛力向摩陀婆(萨谛奇)的战车投掷了一支铁制金柄的标枪。

7.117.21

अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा ।
भित्त्वा रथं जगामोग्ना धरणीं दारुणस्वना ॥ ७.११७.२१ ॥

那支如同死神的标枪未能击中希尼之后,穿透战车,以可怕的声音猛烈地射入大地。

7.117.22

ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा ।
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥ ७.११७.२२ ॥

那时,大王,希尼之孙用箭射中德罗纳;击中他的右臂使其痛苦,婆罗多中的雄牛啊。

7.117.23

द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः ।
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥ ७.११७.२३ ॥

大王,德罗纳也用一支半月形箭斩断了摩陀婆的大弓,并以战车标枪击伤了御者。

7.117.24

मुमोह सारथिस्तस्य रथशक्त्या समाहतः ।
स रथोपस्थमासाद्य मुहूर्तं सन्न्यषीदत ॥ ७.११७.२४ ॥

他的御者被战车标枪击中,昏倒了;他倒在车厢底板上,片刻间瘫坐下去。

7.117.25

चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् ।
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥ ७.११७.२५ ॥

大王啊,萨提亚基在那里完成了超人的壮举:他与德罗纳交战,并亲手抓住了他的缰绳。

7.117.26

ततः शरशतेनैव युयुधानो महारथः ।
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशाम्पते ॥ ७.११७.२६ ॥

于是大车将尤尤达那(萨提亚基)以百支箭在战场上射穿了婆罗门(德罗纳);他面容欢喜,人民之主啊。

7.117.27

तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत ।
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे ॥ ७.११७.२७ ॥

德罗纳向他射出五支箭,婆罗多啊;那些可怕的箭穿透铠甲,在战场上饮尽了鲜血。

7.117.28

निर्विद्धस्तु शरैर्घोरैरक्रुद्ध्यत्सात्यकिर्भृशम् ।
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥ ७.११७.२८ ॥

萨提亚基被那些可怕的箭射中,极为愤怒,那位英雄便向金车、即德罗纳射出箭矢。

7.117.29

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि ।
अश्वान्व्यद्रावयद्बाणैर्हतसूतांस्ततस्ततः ॥ ७.११७.२९ ॥

随后,他以一支箭将德罗纳的御者射倒在地,并以箭驱散了那些马匹,使其四散奔逃,因为御者已被杀死。

7.117.30

स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः ।
चकार राजतो राजन्भ्राजमान इवांशुमान् ॥ ७.११७.३० ॥

那辆战车在战场上奔逃,绕出了成千上万个圈,大王啊,闪耀如同光明的太阳。

7.117.31

अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत ।
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥ ७.११७.३१ ॥

“冲向德罗纳的马匹,抓住它们,快跑!”众王子与诸王如此高声呼喊。

7.117.32

ते सात्यकिमपास्याशु राजन्युधि महारथाः ।
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥ ७.११७.३२ ॥

大王啊,那些大车战士迅速撇下战场上的萨提亚基,突然全部朝德罗纳所在之处一齐冲去。

7.117.33

तान्दृष्ट्वा प्रद्रुतान्सङ्ख्ये सात्वतेन शरार्दितान् ।
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥ ७.११७.३३ ॥

看见他们在战场上被萨特瓦塔(萨提亚基)的箭所折磨而逃奔,您的军队再次溃散,陷入混乱。

7.117.34

व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः ।
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितैः ॥ ७.११७.३४ ॥

德罗纳再次回到阵门处站定;那些疾如风、被毗湿尼(萨提亚基)箭矢所困扰的马匹将他载到了那里。

7.117.35

पाण्डुपाञ्चालसम्भिन्नं व्यूहमालोक्य वीर्यवान् ।
शैनेये नाकरोद्यत्नं व्यूहमेवाभ्यरक्षत ॥ ७.११७.३५ ॥

勇猛的德罗纳见阵势被般度子与潘遮罗人所冲破,便不再对付输尼之子(萨提亚基),只是保卫阵势。

7.117.36

निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव ।
तस्थौ क्रोधेध्मसन्दीप्तः कालसूर्य इवोद्यतः ॥ ७.११७.३६ ॥

德罗纳阻挡了般度子与潘遮罗人,如火焰般燃烧着站立,因愤怒的薪柴而炽烈,宛如升起的死亡之日。