Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.122

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.122.1

दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् ।
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥ ७.१२२.१ ॥

婆罗堕阇之子(德罗纳)看见杜尸耶那的战车停在近旁,便对杜尸耶那说了这些话。

7.122.2

दुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः ।
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥ ७.१२२.२ ॥

杜尸耶那啊,这些战车为何都逃散了?国王安好吗?信度王(胜车)还活着吗?

7.122.3

राजपुत्रो भवानत्र राजभ्राता महारथः ।
किमर्थं द्रवते युद्धे यौवराज्यमवाप्य च ॥ ७.१२२.३ ॥

你在此是王子、国王的兄弟、大车将。已得太子之位,为何在战斗中逃跑?

7.122.4

दासी जिताऽसि द्यूते त्वं यथा कामचरी भव ।
वाससां वाहिका राज्ञो भ्रातुर्ज्येष्ठस्य मे भव ॥ ७.१२२.४ ॥

你在赌局中被赢为奴婢;随你的心意吧。做国王和我长兄的衣物搬运者吧。

7.122.5

न सन्ति पतयः सर्वे तेऽद्य षण्ढतिलैः समाः ।
दुःशासनैवं कस्मात्त्वं पूर्वमुक्त्वा पलायसे ॥ ७.१२२.५ ॥

今日你的丈夫们岂不都像阉人和芝麻一样微不足道吗?杜尸耶那啊,先前说了那样的话,如今为何逃跑?

7.122.6

स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह ।
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥ ७.१२२.६ ॥

你自己与般遮罗和般度五子结下了大仇;独自面对萨谛奇时,为何在战斗中害怕了?

7.122.7

न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे ।
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥ ७.१२२.७ ॥

你以前在掷骰子的赌局中拿起骰子时并不知道;然而这些箭将如同可怕的毒蛇。

7.122.8

अप्रियाणां हि वचनं पाण्डवस्य विशेषतः ।
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥ ७.१२२.८ ॥

从前,对般度诸子说的难听话,尤其是德罗波蒂所受的苦难,都以你为根源而发生。

7.122.9

क्व ते मानश्च दर्पश्च क्व ते वीर्यं क्व गर्जितम् ।
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥ ७.१२२.९ ॥

你的傲慢与骄横在哪里?你的勇力与咆哮在哪里?激怒如毒蛇般的般度之子之后,你将逃往何处?

7.122.10

शोच्येयं भारती सेना राज्यं चैव सुयोधनः ।
यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥ ७.१२२.१० ॥

这支婆罗多军队与苏yodhana的王国都令人同情;而你,他那刚硬的兄弟,却一心逃跑。

7.122.11

ननु नाम त्वया वीर दार्यमाणा भयार्दिता ।
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥ ७.१२२.११ ॥

勇士啊,你本应依靠自己的臂力,保护这支被恐惧撕裂、困扰的军队。

7.122.12

स त्वमद्य रणं हित्वा भीतो हर्षयसे परान् ।
विद्रुते त्वयि सैन्यस्य नायके शत्रुमूदन।
कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ॥ ७.१२२.१२ ॥

你今日弃战而逃,因恐惧而让敌人欢喜。灭敌者啊,既然你这军队的统帅已经逃走,还有谁能在战场上坚持?依靠怯懦者的人,自己也是怯懦的。

7.122.13

एकेन सात्वतेनाद्य युध्यमानस्य तेन वै ।
पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ॥ ७.१२२.१३ ॥

今日与一位萨特瓦塔(萨提亚基)交战之时,你的心意已转向从战场逃走。

7.122.14

यदा गाण्डीवधन्वानं भीमसेनं च कौरव ।
यमौ च द्रक्ष्यसि रणे तदा वै किं करिष्यसि ॥ ७.१२२.१४ ॥

俱卢之子啊,当你在战场上看到手持甘狄拔弓的阿周那、毗摩森那以及双胞胎时,你届时将如何?

7.122.15

युधि फल्गुनबाणानां मूर्याग्निसमवर्चसाम् ।
न तुल्याः सात्यकिशरा येभ्यो भीतः पलायसे ॥ ७.१२२.१५ ॥

战斗中,萨提亚基的箭不及那与日火同辉的法尔古那(阿周那)之箭;而你却正是畏惧那些箭而逃走。

7.122.16

त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश ।
पृथिव्यां धावमानस्य नान्यत्पश्यामि जीवनम् ॥ ७.१२२.१६ ॥

英雄啊,快去吧,进入甘陀利的子宫;因为我看不到你在大地上奔逃还有别的生路。

7.122.17

यदि तावत्कृता बुद्धिः पलायनपरायणा ।
पृथिवी धर्मराजाय शमेनैव प्रदीयताम् ॥ ७.१२२.१७ ॥

如果你已经决意逃走,那就以和平之道把大地交给法王坚战吧。

7.122.18

यावत्फल्गुननाराचा निर्मुक्तोरगसन्निभाः ।
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥ ७.१२२.१८ ॥

趁阿周那那如释放之蛇般的铁箭尚未射入你的身体,与般度之子们讲和吧。

7.122.19

यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे ।
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥ ७.१२२.१९ ॥

在普利塔之子于战场上杀死你的百名兄弟、夺取整个大地之前,请与般度五子讲和。

7.122.20

यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः ।
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥ ७.१२२.२० ॥

在法之子国王坚战与以战为荣的黑天尚未发怒之前,请与般度五子讲和。

7.122.21

यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् ।
सोदरांस्ते न मृद्राति तावत्संशाम्य पाण्डवैः ॥ ७.१२२.२१ ॥

在大力臂的怖军冲入大军、尚未碾碎你的兄弟之前,请与般度五子讲和。

7.122.22

पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः ।
अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य तैः सह ॥ ७.१२२.२२ ॥

从前毗湿摩曾告诉你的兄弟苏约达那,般度五子在战场上不可战胜。善良的人啊,请与他们讲和。

7.122.23

मया शमवता चोक्तो रक्ष शेषं सुयोधन ।
संशाम्य पार्थैस्त्वं रक्ष वीर सर्वान्महीक्षितः ॥ ७.१२२.२३ ॥

我这个求和平的人也说过:苏约达那啊,保全余下的人吧。英雄啊,与普利塔之子讲和,保护大地上所有的国王。

7.122.24

न च तत्कृतवान्मन्दस्तव भ्रातां सुयोधनः ।
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः ॥ ७.१२२.२४ ॥

然而你那愚蠢的兄弟苏约达那没有这样做。现在让他在战斗中坚定、专注地与般度五子作战吧。

7.122.25

तवापि शोणितं भीमः पास्यतीति मया श्रुतम् ।
तच्चाप्यवितथं तस्य तत्तथैव भविष्यति ॥ ७.१२२.२५ ॥

我听说毗摩也将饮你的血,他的话并非虚妄,必将如此实现。

7.122.26

किं भीमस्य न जानासि विक्रमं त्वं सुबालिश ।
यत्त्वया वैरमारब्धं संयुगे प्रपलायिना ॥ ७.१२२.२६ ॥

极愚蠢的人啊,你难道不知毗摩的勇力吗?你这临阵逃走的人竟挑起了这场仇怨。

7.122.27

गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः ।
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥ ७.१२२.२७ ॥

快乘战车前往萨提亚基所在之处。婆罗多啊,失去你的这支军队必将溃散。为了你自己,请在战斗中与真勇的萨提亚基交战。

7.122.28

एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ ।
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥ ७.१२२.२८ ॥

虽被如此说,你的儿子却一言不发;他假装没有听见,便朝萨提亚基所在的方向去了。

7.122.29

सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् ।
आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥ ७.१२२.२९ ॥

率领一支不退缩的蛮族大军,在战斗中全力以赴,他上前与尤尤陀那交战。

7.122.30

द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा ।
अभ्यद्रवत सङ्क्रुद्धौ जवमास्थाय मध्यमम् ॥ ७.१२२.३० ॥

车战之中最优秀的德罗纳也怒气冲冲,采取中等速度,冲向般遮罗和般度之子。

7.122.31

प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम् ।
द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥ ७.१२२.३१ ॥

德罗纳在战斗中冲入般度族的军队,使数百乃至数千名战士逃散。

7.122.32

ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥ ७.१२२.३२ ॥

大王,于是德罗纳在战斗中自报姓名,对般度族、般遮罗族和摩差族造成了大屠杀。

7.122.33

तं जयन्तमनीकानि भारद्वाजं ततस्ततः ।
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥ ७.१२२.३३ ॥

面对四处征服军队的婆罗堕遮(德罗纳),光辉的般遮罗王子毗罗盖图迎击上前。

7.122.34

स द्रोणं पञ्चभिर्विद्व्वा शरैः सन्नतपर्वभिः ।
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥ ७.१२२.३४ ॥

他以五支杆身弯曲的箭射中德罗纳,一支射中他的旗幡,七支射中他的御者。

7.122.35

तत्राद्भुतं महाराज दृष्ट्वानस्मि संयुगे ।
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नात्यवर्तत ॥ ७.१२२.३५ ॥

大王,我在那里的战斗中目睹了一件奇事:德罗纳虽然怒气冲冲地作战,却未能胜过般遮罗王子。

7.122.36

सन्निरुद्धं रमे द्रोणं पाञ्चला वीक्ष्य मारिष ।
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥ ७.१२२.३६ ॥

尊者啊,般遮罗人见德罗纳被包围,大王啊,他们希望法之子获胜,便从四面八方将他围住。

7.122.37

ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः ।
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥ ७.१२२.३७ ॥

他们以如火般的箭矢、贵重的投枪和各种兵器,王啊,向独自一人的德罗纳倾泻而下。

7.122.38

निवार्य तान्बाणगणान्द्रोणो राजन्समन्ततः ।
महाजलधरान्व्योम्नि मातरिश्वेव चाबभौ ॥ ७.१२२.३८ ॥

王啊,德罗纳挡开从四面八方射来的箭群,光芒四射,如同风吹散天空中巨大的云团。

7.122.39

ततः शरं महाघोरं मूर्यपावकसन्निभम् ।
सन्दधे परवीरघ्नो वीरकेतो रथं प्रति ॥ ७.१२२.३९ ॥

于是,斩杀敌方英雄的毗罗盖图向那辆战车搭上一支极为可怖、如日如火的箭。

7.122.40

स भित्त्वा तु शरो राजन्पाञ्चालकुलनन्दनम् ।
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥ ७.१२२.४० ॥

王啊,那支箭刺穿了般遮罗族的骄傲,浸透鲜血,如同燃烧一般,迅速没入大地。

7.122.41

ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः ।
पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥ ७.१२२.४१ ॥

于是,般遮罗族的那位骄傲者迅速从战车上坠落,如同被风吹倒的大瞻蔔树从山巅倒下。

7.122.42

तस्मिन्हते महेष्वासे राजपुत्रे महाबले ।
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥ ७.१२२.४२ ॥

当那位大弓手、大力的王子被杀之后,般遮罗人急忙从四面八方包围了德罗纳。

7.122.43

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत ।
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः ॥ ७.१२२.४३ ॥

婆罗多啊,持明王、善弓、持甲以及持车,也因兄弟之难而悲伤憔悴。

7.122.44

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः ।
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव
अदृश्यं समरे चक्रुर्भारद्वाजं सुधन्विनः ॥ ७.१२२.४४ ॥

他们渴望战斗,一齐冲向婆罗堕奇之子德罗纳,如夏末的云般倾泻箭雨;那些善射者在战场上使婆罗堕奇之子不可见。

7.122.45

स वध्यमानो बहुधा राजपुत्रैर्महारथैः ।
क्रोधमाहारयत्तेषामभावाय द्विजर्षभः ॥ ७.१२२.४५ ॥

那位再生者中的最优者,被王子们与大车战士多方击打,便为了他们的毁灭而生起愤怒。

7.122.46

ततः शरमयं जालं द्रोणस्तेषामवासृजत् ।
ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः।
कर्तव्यं नाभ्यजानन्वै कुमारा राजसत्तम ॥ ७.१२२.४६ ॥

于是德罗纳向他们撒下一张箭织的网;被德罗纳拉弓至耳所射的箭矢所伤,那些王子,啊,诸王中最优者,不知该如何是好。

7.122.47

तान्विमूढान्रणे द्रोणः प्रहसन्निव भारत ।
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥ ७.१२२.४७ ॥

婆罗多啊,德罗纳仿佛在笑,愤怒地使那些在战场上迷乱的王子失去了马匹、御者与战车。

7.122.48

अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः ।
पुष्पाणीव विवान्वायुः सोत्तमाङ्गान्यपातयत् ॥ ७.१२२.४८ ॥

此后,那位大名者以另外极其锋利的婆罗箭,使他们优秀的头颅落地,如同风吹散花朵。

7.122.49

ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः ।
देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥ ७.१२२.४९ ॥

大王啊,那些光辉的勇士被从战车上击落,倒在地上,如同往昔神与阿修罗之战中,提耶与檀那婆倒下一般。

7.122.50

तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् ।
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥ ७.१२२.५० ॥

大王啊,在战场上杀死他们之后,威猛的婆罗堕阇之子(德罗纳)挥舞起他那金背、不可战胜的弓。

7.122.51

तदस्य भ्राजते राजन्मेघमध्ये तडिद्यथा ॥ ७.१२२.५१ ॥

大王啊,他的那张弓在云中闪耀,如同闪电。

7.122.52

पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् ।
धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम्।
अभ्यवर्तत सङ्गारमे क्रुद्धो द्रोणरथं प्रति ॥ ७.१२२.५२ ॥

看到般遮罗的天神般的大车将被杀,德里斯塔duāmna极为痛苦;眼中落泪,愤怒地在战斗中朝德罗纳的战车冲去。

7.122.53

ततो हाहेति सहसा नादः समभवन्नृप ।
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥ ७.१२२.५३ ॥

于是,大王啊,当般遮罗王子看见德罗纳在战斗中被箭矢覆盖时,突然响起一片“哎呀,哎呀!”的喊声。

7.122.54

से च्छाद्यमानो बहुधा पार्षतेन महात्मना ।
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥ ७.१२२.५४ ॥

尽管这位宽厚的普利沙塔之子(德里斯塔duāmna)以种种方式将他覆盖,德罗纳并不慌乱;他微笑着继续作战。

7.122.55

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः ।
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥ ७.१२२.५५ ॥

大王,于是潘查拉王子被愤怒所蒙蔽,怒气冲冲地用九十支弯曲关节的箭射中德罗纳的胸膛。

7.122.56

स गाढविद्धो बलिना भारद्वाजो महायशाः ।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ ७.१२२.५६ ॥

这位大名的婆罗堕伽之子被强者深深射中,坐在战车的底板上,昏厥过去。

7.122.57

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी ।
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान् ॥ ७.१२२.५७ ॥

见他如此状况,勇猛的德里什塔德尤姆纳迅速放下弓,身强力壮地拿起了剑。

7.122.58

अवप्लुत्य रथाच्चापि त्वरितः स महारथः ।
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष।
हर्तुमिच्छञ्शिरः कायात्क्रोधसंरक्रलोचनः ॥ ७.१२२.५८ ॥

这位大车将跳下战车,急速登上婆罗堕伽的战车,先生啊,他怒目赤红,想要把他的头从身上砍下。

7.122.59

प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महारवम् ।
आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया ॥ ७.१२२.५९ ॥

于是德罗纳恢复神志,拿起轰鸣的大弓,看见德里什塔德尤姆纳走近,便怀着杀意望着他。

7.122.60

शरैर्वैतस्तिकै राजन्विव्याधासन्नवेधिभिः ।
योधयामास समरे धृष्टद्युम्नं महारथम् ॥ ७.१२२.६० ॥

大王啊,德罗纳以一柄长的、近距离射中目标的箭射中了他,并在战场上与大车将德里什塔德尤姆纳交战。

7.122.61

ते हि वैतस्तिका नाम शरा आमन्नयोधिनः ।
द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत् ॥ ७.१२२.६१ ॥

那是名为吠多斯提迦的箭,擅长近战;大王啊,德罗纳射出的这些箭射伤了德里斯塔俄姆那。

7.122.62

स वध्यमानो बहुभिः सायकैस्तैर्महाबलः ।
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥ ७.१२२.६२ ॥

这位大力士被许多那样的箭射中,迅速从战车上跃下;他的冲势已被打断,却仍然英勇。

7.122.63

आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः ।
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥ ७.१२२.६३ ॥

这位英雄登上自己的战车,拿起大弓,在战斗中射中了德罗纳——大车将德里斯塔俄姆那。

7.122.64

द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम् ॥ ७.१२२.६४ ॥

大王啊,德罗纳也用箭射中了普利沙塔之子。

7.122.65

तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तदा ।
त्रैलोक्यकाङ्क्षिणोरासीच्छक्रप्रह्लादयोरिव ॥ ७.१२२.६५ ॥

那时,德罗纳与般遮罗之间的战斗变得奇异,宛如渴求三界的因陀罗与钵罗诃罗陀之战。

7.122.66

मण्डलानि विचित्राणि यमकानीतराणि च ।
चरन्तौ युद्धमार्गज्ञौ ततक्षतुरथेषुभिः ॥ ७.१२२.६६ ॥

二人施展奇妙的环形、成对及其他机动,精通战阵之道的两人以战车箭互相射伤。

7.122.67

मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ ।
सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ।
छादयन्तौ महात्मानौ शरैर्व्योम दिशो महीम् ॥ ७.१२२.६७ ॥

二人在战场上迷惑战士们的心,如雨季中的两朵乌云般倾泻箭雨;这两位伟大的英雄以箭矢遮蔽了天空、四方与大地。

7.122.68

तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् ।
क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः ॥ ७.१२२.६८ ॥

大王啊,众生之群见到二人那奇妙的战斗,都赞叹敬佩;刹帝利和您的其他士兵也同样如此。

7.122.69

अवश्यं समरे द्रोणो दृष्टद्युम्नेन सङ्गतः ।
वशमेष्यति नो राजन्पाञ्चाला इति चुक्रुशुः ॥ ७.१२२.६९ ॥

“德罗纳已与达湿陀衍那相遇于战场,他必定会落入我们掌中!”——大王啊,般遮罗人便这样大声呼喊。

7.122.70

द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः ।
शिरः प्रच्यावयामास फलं पक्वं तरोरिव ॥ ७.१२२.७० ॥

然而德罗纳在战斗中迅速地使达湿陀衍那的御者之头落下,如同熟果从树上坠落一般。

7.122.71

ततस्तु प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥ ७.१२२.७१ ॥

于是,大王啊,那位大丈夫的马匹逃散了。

7.122.72

तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा ।
अयोधयद्रणे द्रोणस्तत्रतत्र पराक्रमी ॥ ७.१२२.७२ ॥

当那些马匹奔逃之时,勇猛的德罗纳在战场上到处与般遮罗人和娑罗延人交战。

7.122.73

विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् ।
स्वं व्यूहं पुनरास्थाय स्थितोऽभवदरिन्दमः।
न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो ॥ ७.१२२.७३ ॥

勇猛的婆罗堕遮之子击败了般度族与般遮罗人,重新布好自己的阵势,屹立在那里,降伏了敌人。主啊,般度子们在战斗中不敢战胜他。