Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.123

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.123.1

ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ ७.१२३.१ ॥

于是,大王,难敌之弟难降冲向施尼之孙(萨提亚基),如降雨的乌云一般倾泻成千上万支箭。

7.123.2

स विद्व्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः ।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥ ७.१२३.२ ॥

他以六十支和十六支箭射中萨提亚基,却无法使这位在战场上屹立不动的英雄动摇,正如无人能撼动摩extra那山一般。

7.123.3

तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम् ।
रथव्रातेन महता नानादेशोद्भवेन च ॥ ७.१२३.३ ॥

然而勇猛的难降以箭矢将他彻底遮蔽,并以来自各地的庞大战车群将其团团围住。

7.123.4

सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून् ।
पर्जन्य इव घोषेण नादयन्वै दिशो दश ॥ ७.१२३.४ ॥

婆罗多之最,他从四面八方射出无数箭矢,以如雷鸣般的吼声震动十方。

7.123.5

तमापतन्तमालोक्य सात्यकिः कौरवं रणे ।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः ॥ ७.१२३.५ ॥

萨提亚基见那位俱卢族战士在战场上向自己冲来,这位大臂英雄便冲上前去,以箭矢将他遮蔽。

7.123.6

ते छाद्यमाना बाणौघैर्दुःशासनपुरोगमाः ।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः ॥ ७.१२३.६ ॥

他们被箭雨遮蔽,以难降为首,在战场上惊恐逃散,而您的军队眼睁睁地看着。

7.123.7

तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशानस्तव ।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः ॥ ७.१२३.७ ॥

王中之王啊,当他们逃跑时,你的儿子難降毫无惧色地站立,开始用箭射击萨蒂亚基。

7.123.8

चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः ।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः ॥ ७.१२३.८ ॥

他以四箭射中其马,三箭射中御者,并在战斗中以百箭射中萨蒂亚基,然后发出吼声。

7.123.9

ततः क्रुद्धो महाराज माधवस्तस्य संयुगे ।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः ॥ ७.१२३.९ ॥

大王啊,于是摩陀婆(萨蒂亚基)在战斗中愤怒地以直箭使他的战车、御者和旗帜都不可见。

7.123.10

स तु दुःशासनं शूरं सायकैरावृणोद्भृशम् ।
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥ ७.१२३.१० ॥

他用箭将勇猛的难降完全覆盖,就像蜘蛛用蛛网覆盖飞近的蚊子一样。

7.123.11

त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित् ।
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्। ॥ ७.१२३.११ ॥

征服敌人者迅速用箭将难降完全覆盖。国王看到难降被数百支箭如此覆盖,便——

7.123.12

त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥ ७.१२३.१२ ॥

国王驱使三伽塔人冲向邮由陀那(萨蒂亚基)的战车。

7.123.13

तेऽगच्छन्युयुधानस्य समीपं क्रुरकर्मणः ।
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥ ७.१२३.१३ ॥

他们前往残暴行为的优욱陀那身边:三千辆精通战斗的三摩竭族战车。

7.123.14

ते तु तं रथवंशेन महता पर्यवारयन् ।
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥ ७.१२३.१४ ॥

他们以庞大的战车阵将他包围,坚定地决心作战,作为彼此立誓的三摩竭者。

7.123.15

तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम् ।
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत् ॥ ७.१२३.१५ ॥

他们奋力发射箭雨,在军前击溃了五百名主要战士。

7.123.16

तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः ।
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः ॥ ७.१२३.१६ ॥

他们被śini族最优秀者的箭迅速射杀倒地,如同大风之力将山上的树木折断一般。

7.123.17

नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते ।
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥ ७.१२३.१७ ॥

在那里,人民之主啊,倒下的有象群、多处断裂的旗帜和饰金的马匹,大地被它们覆盖。

7.123.18

शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः ।
अशोभत महाराज किंशुकैरिव पुष्पितैः ॥ ७.१२३.१८ ॥

大王啊,被希尼亚之箭斩断、浸透血流的他们,犹如盛开的金雀花树一般闪耀。

7.123.19

ते वध्यमानाः समरे युयुधानेन तावकाः ।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ ७.१२३.१९ ॥

你的军士在战场上被尤尤丹那所杀,却找不到救护者,如同陷入泥淖的象群。

7.123.20

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ।
भयात्पतगराजस्य गर्तानीव महोरगाः ॥ ७.१२३.२० ॥

于是他们都因恐惧转向德罗纳的战车,如同大蛇因怕金翅鸟之王而逃入洞穴。

7.123.21

हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः ।
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥ ७.१२३.२१ ॥

这位英雄以如毒蛇般的箭射杀五百名战士后,缓缓向持财者(阿周那)的战车前进。

7.123.22

तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव ।
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः ॥ ७.१२३.२२ ॥

那位人中豪杰前进时,你的儿子难降迅速以九支带弯曲箭头的箭射中了他。

7.123.23

स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः ।
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥ ७.१२३.२३ ॥

然而那位大弓箭手以五支锐利的箭还击他,箭杆金饰,鹫羽为翎,直飞而去。

7.123.24

सात्यकिं तु महाराज प्रहसन्निव भारत ।
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ ७.१२३.२४ ॥

难降却仿佛在笑,大王啊,婆罗多,他以三箭射穿萨谛奇,然后又以五箭再次射中。

7.123.25

शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः ।
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥ ७.१२३.२५ ॥

舍奈耶以五支迅疾之箭射伤你的儿子,在战斗中斩断他的弓,令人惊异地转向阿周那而去。

7.123.26

ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ।
सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥ ७.१२३.२६ ॥

于是愤怒的难降以杀害之意,向离去的毗湿尼勇士投出一切波罗舍婆之矛。

7.123.27

तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः ।
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥ ७.१२३.२७ ॥

大王啊,于是萨提亚奇以饰有鹤羽的利箭,将你儿子那可怕的长矛斩为百段。

7.123.28

अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ।
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननाद च ॥ ७.१२३.२८ ॥

人主啊,于是你的儿子取另一张弓,以箭射中萨提亚奇,并发出狮子般的吼声。

7.123.29

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ।
शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥ ७.१२३.२९ ॥

然而萨提亚奇在战斗中愤怒,使你的儿子昏乱,以形如火焰的箭射中他胸膛的正中。

7.123.30

त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ।
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः ॥ ७.१२३.३० ॥

那位大福者以三支纯铁、节部弯曲、锋利如刃的箭射中他,随后又以八支射之。

7.123.31

दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ।
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥ ७.१२३.३१ ॥

难降以二十支箭回射萨提亚基。大王,萨特婆也将他射中胸膛之间。

7.123.32

त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ।
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ॥ ७.१२३.३२ ॥

这位大福之大车战士以三支关节弯曲的箭,随即以利箭射倒了他的马。

7.123.33

सारथिं च सुराङ्क्रुद्धः शरैः सन्नतपर्वभिः ।
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ॥ ७.१२३.३३ ॥

他大怒之下,以关节弯曲的箭射向御者,以一支薄刃箭射断弓,并以五支箭射断护臂。

7.123.34

ध्वजं च रथशक्तिं च भल्लाभ्यां परमस्त्रिवित् ।
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥ ७.१२३.३४ ॥

精通至上武器的他,以两支薄刃箭斩断旗帜与战车长枪,并以利箭斩断双方的车轮护卫。

7.123.35

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥ ७.१२३.३५ ॥

他的弓被斩断,战车已失,马匹被杀,御者也被杀,于是被三乞多国的统帅用自己的战车载走。

7.123.36

तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ।
न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥ ७.१२३.३६ ॥

婆罗多之裔啊,大臂的希尼耶(萨提亚基)冲向他,却想起了毗摩娑那的话,竟不曾杀他,哪怕片刻。

7.123.37

भीमसेनेन तु वधः सुतानां तव भारत ।
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥ ७.१२३.३७ ॥

婆罗多的后裔啊,婒玛森在集会中央,当着所有人的面,发誓要在战斗中杀死你的儿子们。

7.123.38

ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो ।
जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥ ७.१२३.३८ ॥

然后,主啊,萨提亚基在战斗中击败杜尚沙纳后,急忙前往达那闍耶(阿周那)所去的地方。