摩诃婆罗多 · 章 7.125
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.125.1
अपराह्णे महाराज सङ्ग्रामः सुमहानभूत् ।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥ ७.१२५.१ ॥
大王啊,午后,德罗纳与索摩迦人之间的战斗再次变得极为激烈,其喧嚣如雨云的雷鸣。
7.125.2
शोणाश्वं रथमास्थाय नरवीरः समाहितः ।
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥ ७.१२५.२ ॥
那位人中英雄登上红马之车,心神专一,在战场上迅速冲向般度诸子,占据了中军的位置。
7.125.3
तव प्रियहिते युक्तो महेष्वासो महाबलः ।
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः।
जघान सोमकान्राजन्सृञ्जयान्केकयानपि ॥ ७.१२५.३ ॥
他致力于你所爱之人的利益,这位大弓箭手、大力士,由上佳之瓶所生,以色彩斑斓羽翎的利箭,大王啊,杀伤了索摩迦人、斯陵阇耶人,甚至还有建迦耶人。
7.125.4
वरान्वरान्हि योधानां विचिन्वन्निव भारत ।
आक्रीडत रमे राजन्भारद्वाजः प्रतापवान् ॥ ७.१२५.४ ॥
婆罗多的后裔啊,他仿佛在挑选战士中的最优者,如同游戏一般,大王啊,那勇武的婆罗堕遮之子沉浸其中,乐在其中。
7.125.5
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
भातॄणां नृप पञ्चानां श्रेष्ठः समरकर्कशः ॥ ७.१२५.५ ॥
建迦耶人的大车将布利哈特克沙特拉迎面而来,大王啊。他是五兄弟中的第一,在战场上凶猛无情。
7.125.6
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत् ।
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥ ७.१२५.६ ॥
他发射锐利的箭矢,猛烈地攻击老师(德罗纳),如同大云在乾陀摩陀那山上降下大雨。
7.125.7
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् ।
प्रेषयामास सङ्क्रुद्ध- सायकान्दश पञ्च च ॥ ७.१२५.७ ॥
大王啊,德罗纳向他射出十五支以金羽装饰、在石上磨砺、充满愤怒的箭。
7.125.8
तांस्तु द्रोणविनिर्मुक्तान्क्रुंद्धाशीविषसन्निभान् ।
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥ ७.१२५.८ ॥
然而德罗纳射出的那些箭,犹如愤怒的毒蛇,他在战斗中欣然以五支箭将每一支斩断。
7.125.9
तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः ।
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः ॥ ७.१२५.९ ॥
婆罗门中的至尊见他身手敏捷,便笑了起来,射出八支节缝弯曲的箭。
7.125.10
तान्दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान् ।
अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे ॥ ७.१२५.१० ॥
他看见德罗纳弓上迅速射出、正在下落的那些箭,便在战斗中以同样数量的利箭将它们挡住。
7.125.11
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः ।
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ ७.१२५.११ ॥
大王啊,那时您的军队见到布里哈特克沙特拉所做的极其艰难之事,无不惊叹。
7.125.12
ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन् ।
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम् ॥ ७.१२५.१२ ॥
大王啊,德罗纳特意将布里哈特克沙特拉作为目标,在战斗中显出了神圣的梵天神箭,极难抵挡。
7.125.13
कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे ।
ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत् ॥ ७.१२५.१३ ॥
凯盖耶王子见德罗纳在战斗中射出的神箭,哦,王中之王,便以梵箭本身摧毁了婆罗门箭。
7.125.14
ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत ।
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥ ७.१२५.१४ ॥
婆罗多啊,婆罗门箭被摧毁后,布里哈特克沙特拉用六十支金羽、在石上磨利的箭射中了婆罗门德罗纳。
7.125.15
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत् ।
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥ ७.१२५.१५ ॥
双足者中最优秀的德罗纳以纳拉恰箭射中他;箭穿透他的铠甲,没入大地。
7.125.16
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम ।
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥ ७.१२५.१६ ॥
王中之最,如同黑蛇被放出后钻入蚁丘,箭在战斗中射穿凯盖耶,没入大地。
7.125.17
सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः ।
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे ॥ ७.१२५.१७ ॥
大王啊,凯盖耶被德罗纳的箭重伤,被巨大的愤怒所攫住,转动他那双美丽的眼睛。
7.125.18
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।
सारथिं चास्य बाणेन भृशं मर्मस्वताडयत् ॥ ७.१२५.१८ ॥
他以七十支金羽、在石上磨利的箭射中德罗纳,又以一箭猛烈射中他的御者的要害。
7.125.19
द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष ।
असृजद्विशिखांस्तीक्ष्णान्कैकेयस्य रथं प्रति ॥ ७.१२५.१९ ॥
然而德罗纳被布里哈特克沙特拉的许多箭射中,哦主上,他向凯刻耶的战车射出锋利的箭。
7.125.20
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् ।
अश्वांश्चतुर्भिरन्यवधीच्चतुरोऽस्य पतत्त्रिभिः ॥ ७.१२५.२० ॥
德罗纳使那位大车将布里哈特克沙特拉陷入混乱后,用四支带羽箭射死了他的四匹马。
7.125.21
सूतं चैकेन बाणेन रथनीडादपातयत् ।
द्वाभ्यां ध्वजं च च्छत्रं च च्छित्त्वा भूमावपातयत् ॥ ७.१२५.२१ ॥
他一箭将御者从车座上射落,又以两箭斩断旗帜和华盖,使之坠落于地。
7.125.22
ततः साधुविसृष्टेन नाराचेन द्विजर्षभः ।
हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत् ॥ ७.१२५.२२ ॥
于是婆罗门中最优秀的德罗纳以一支发射精准的铁箭射穿了布里哈特克沙特拉的心脏,他心碎倒下。
7.125.23
बृहत्क्षत्रे हते राजन्केकयानां महारथे ।
शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत् ॥ ७.१२५.२३ ॥
大王啊,当凯刻耶族的大车将布里哈特克沙特拉被杀后,希舒帕拉之子极为愤怒,对御者说了这番话。
7.125.24
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीं ॥ ७.१२५.२४ ॥
御者啊,驾车前往披甲的德罗纳所在之处,歼灭所有凯刻耶人和般遮罗的军队。
7.125.25
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।
द्रोणाय प्रापयामास काम्भोजैर्जवनैर्हयैः ॥ ७.१२५.२५ ॥
御者闻其言,作为车战者之最的他,以来自迦波阇的疾马将战车驶至德罗纳处。
7.125.26
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम् ॥ ७.१२५.२६ ॥
车底族的雄牛持律奇克图甚为强盛,他扑向德罗纳欲将其杀害,犹如飞蛾扑火。
7.125.27
सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम् ।
पुनश्चान्यैः सऱैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥ ७.१२५.२७ ॥
于是他以六十支箭射中德罗纳,又射中其马、战车与旗幡;随后又以其他利箭扰乱他,犹如惊扰熟睡的猛虎。
7.125.28
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च ।
चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः ॥ ७.१२५.२८ ॥
德罗纳以利箭“刀刃式箭头”与鹫羽箭,将那奋力作战的勇士之弓从中斩断。
7.125.29
अथान्यद्धनुरादाय शैशुपालिर्महारथः ।
विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः ॥ ७.१२५.२९ ॥
于是希舒柏罗之子,一位大车将,另取一弓,以鹤羽与孔雀羽装饰的箭射中德罗纳。
7.125.30
तस्य द्रोणो हयान्हत्वा चतुर्भिश्चतुरः शरैः ।
सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव ॥ ७.१२५.३० ॥
德罗纳以四支箭杀死其四匹马,并仿佛含笑地从躯体上斩下了御者的头颅。
7.125.31
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥ ७.१२५.३१ ॥
随后他用二十五支箭射中了他。
7.125.32
अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः ।
भारद्वाजाय चिक्षेप रुपितामिव पन्नगीम् ॥ ७.१२५.३२ ॥
奇迪耶跳下战车,迅速举起铁棒,像一条雕刻的蛇一样掷向婆罗堕阇。
7.125.33
तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम् ।
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम्।
शरैरनेकसाहस्रैर्भाद्वाजोऽच्छिनच्छितैः ॥ ७.१२५.३३ ॥
他看到它扑面而来,如同毁灭之夜般高举,由铁制成,沉重,饰以黄金,婆罗堕阇便用成千上万支利箭将其斩断。
7.125.34
सा छिन्ना बहुभिर्बाणैभारद्वाजेन मारिष ।
गदा पपात कौरव्य नादयन्ती धरातलम् ॥ ७.१२५.३४ ॥
那铁棒被婆罗堕阇的许多箭射断,先生,轰然落地,震动大地,库鲁的后裔啊。
7.125.35
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।
तोमरं व्यसृजद्वीरः शक्तिं च कन कोज्ज्वलाम् ॥ ७.१२५.३५ ॥
看到自己的铁棒被毁,愤怒的英雄德里什塔克图掷出一支托摩罗矛和一支闪耀金光的长矛。
7.125.36
तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः ।
तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता ॥ ७.१२५.३६ ॥
他用五支箭射穿托摩罗矛,又用五支箭斩断长矛;两者被斩断,如同被迦楼罗击中的蛇一样坠落于地。
7.125.37
ततोऽस्य विशिखं तीक्ष्णं वधाय वधकाङ्क्षिणः ।
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥ ७.१२५.३७ ॥
于是勇猛的婆罗堕遮之子德罗纳,欲杀之,在战场上向他射出一支锐利的箭。
7.125.38
स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।
अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा ॥ ७.१२५.३८ ॥
那支箭穿透了这位力量无量者的铠甲与心脏,没入大地,犹如天鹅降落于莲花丛中。
7.125.39
पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः ।
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे ॥ ७.१२५.३९ ॥
如同饥饿的鹰隼捕食小飞蛾,英勇的德罗纳在大战中吞没了德里斯塔克图。
7.125.40
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् ।
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥ ७.१२५.४० ॥
当赐第王被杀后,其祖传的那一部分军队陷入愤怒之中,精通至上神兵的他的儿子便投身其中。
7.125.41
तमपि प्रहसन्द्रोणः शरैर्नित्ये यमक्षयम् ।
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥ ७.१२५.४१ ॥
德罗纳笑着,以箭将他也送往阎摩之处,如同强大的猛虎在大森林中猎杀小鹿。
7.125.42
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥ ७.१२५.४२ ॥
婆罗多之裔啊,当般度子孙的军队正在被消灭时,乔罗山陀之子英勇的王子亲自冲向德罗纳。
7.125.43
स तु द्रोणं महाबाहुः शरधाराभिराहवे ।
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥ ७.१२५.४३ ॥
那位大臂者在战场上以箭雨迅速使德罗纳不可见,如同乌云遮蔽太阳。
7.125.44
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः ।
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥ ७.१२५.४४ ॥
德罗纳见其身手敏捷,这位摧毁刹帝利者立即射出成百上千的箭矢。
7.125.45
छादयित्वा रमे द्रोणं रथस्थं रथिनां वरम् ।
जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम् ॥ ७.१२५.४५ ॥
他遮蔽了站在战车上的车士之首德罗纳,迅速击杀了jarāsandha之子,所有射手都在旁观看。
7.125.46
योयो विधीयते खण्डस्तंतं द्रोणोऽन्तकोपमः ।
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥ ७.१२५.४६ ॥
无论被委派到哪一支军队,德罗纳都如同死神;如同阎摩在时辰到来时带走一切众生。
7.125.47
ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
शरैरनेकसाहस्रैः पाण्डवेयान्समावृणोत् ॥ ७.१२५.४७ ॥
于是,大王啊,德罗纳在战斗中报出自己的名字,以数千支箭矢覆盖了般度之子们。
7.125.48
ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः ।
नरान्नागान्हयांश्चैव निजघ्नुः शतशो मृधे ॥ ७.१२५.४८ ॥
那些刻有名字、由德罗纳射出、在石上磨砺的箭矢,在战斗中杀死了数百人、象和马。
7.125.49
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः ।
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥ ७.१२५.४९ ॥
被德罗纳击杀的般遮罗人一齐颤抖,如同被因陀罗击中的大阿修罗,又如同被寒冷折磨的牛群。
7.125.50
ततो निष्टानको घोरः पाण्डवानामजायत ।
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥ ७.१२५.५० ॥
那时,在德罗纳击杀军队之际,般度子孙中响起了可怖的哀号,婆罗多中的雄牛啊。
7.125.51
प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः ।
अन्वपद्यन्त पाञ्चालास्तदा सन्त्रस्तचेतसः ॥ ७.१२५.५१ ॥
般遮罗人被太阳灼烤、被箭矢射伤,于是心中惊恐地退却了。
7.125.52
मोहिता बाणजालेन भारद्वाजेन संयुगे ।
ऊरुग्राहगृहीतानां पाञ्चालानां महारथाः ॥ ७.१२५.५२ ॥
般遮罗的大车将们在战场上被婆罗堕嗣子的箭网迷惑,又被恐惧所擒。
7.125.53
चेदयश्च महाराज सृञ्जयाः काशिकोसलाः ।
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥ ७.१२५.५३ ॥
大王啊,车底、震闍耶、迦尸与憍萨罗人欢欣鼓舞,怀着求战之心,向婆罗堕嗣子冲去。
7.125.54
ब्रुवन्तश्च रणेऽन्योन्यं चेदिपाञ्चालसृञ्जयाः ।
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ॥ ७.१२५.५४ ॥
他们在战场上相互呼喊:“杀死德罗纳!杀死德罗纳!”车底、般遮罗与震闍耶人便向德罗纳冲去。
7.125.55
यतन्तः पुरुपव्याघ्राः सर्वशक्त्या महाद्युतिम् ।
निनीपवो रणे द्रोणं यमस्य सदनं प्रति ॥ ७.१२५.५५ ॥
人中之虎们竭尽全力,欲在战场上将光辉灿烂的德罗纳送往阎摩之居。
7.125.56
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।
यमाय प्रेपयामास चेदिमुख्यान्विशेपतः ॥ ७.१२५.५६ ॥
然而婆罗堕遮之子德罗纳以箭将那些奋力的英雄送往阎摩,尤其是车底的首领们。
7.125.57
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः ।
पाञ्चलाः समकम्पन्त द्रोणसायकपीडिताः ॥ ७.१२५.५७ ॥
当车底的首领们在其中被全然摧毁时,被德罗纳之箭所伤的般遮罗人全都一齐颤抖。
7.125.58
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नं च भारत ।
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥ ७.१२५.५८ ॥
婆罗多啊,见德罗纳如此的所作所为,他们便大声呼唤婆罗婆那与德里什塔德尤姆纳。尊者啊!
7.125.59
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् ।
तथा हि युधि सङ्क्रुद्धो दहति क्षत्रियर्पभान् ॥ ७.१२५.५९ ॥
婆罗门必定修习了伟大而艰难的苦行,因为他在战斗中愤怒,如此焚烧刹帝利中的雄牛。
7.125.60
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः ।
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥ ७.१२५.६० ॥
刹帝利的法是战斗,婆罗门的至高苦行也正是如此;修习苦行、精通学问的婆罗门,即便一瞥也能焚烧。
7.125.61
द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्पभाः ।
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥ ७.१२५.६१ ॥
众多刹帝利中的雄牛,进入德罗纳的火焰与箭矢的接触之中,婆罗多啊,在那里以难以逾越、可怕的境况被焚烧。
7.125.62
यथाबलं यथोत्साहं यथासत्वं महाद्युतिः ।
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥ ७.१२५.६२ ॥
德罗纳以其力量、热忱与勇气,大放光辉,迷惑一切众生,正在摧毁我们的军队。
7.125.63
तस्य तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः ।
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥ ७.१२५.६३ ॥
听了他的话,恪守刹帝利之法的英雄以半月箭斩断了德罗纳连同箭矢的弓。
7.125.64
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ॥ ७.१२५.६४ ॥
德罗纳愈加愤怒,乃是摧毁刹帝利者……
7.125.65
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ।
तत्राधाय शरं तीक्ष्णं परानीकविशातनम् ॥ ७.१२५.६५ ॥
取另一张明亮而极其迅捷的弓,在其上搭上摧毁敌阵的利箭……
7.125.66
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ।
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् ॥ ७.१२५.६६ ॥
德罗纳将弓拉至耳边,那位强大的师尊放出箭矢;箭射中恪守刹帝利之法的英雄,便坠落于大地之上。
7.125.67
स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले ।
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ॥ ७.१२५.६७ ॥
他心被刺穿,与马一同倒在大地上。那时,德里斯塔德尤姆纳之子被杀,诸军都颤抖起来。
7.125.68
अथ द्रोणं समारोहच्चेकितानो महाबलः ।
स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे ॥ ७.१२५.६८ ॥
于是大力的车基探那进攻德罗纳。他以十支箭射穿德罗纳,反过来刺中其胸膛中央。
7.125.69
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ।
तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥ ७.१२५.६९ ॥
他以四箭射中其御者,以四箭射中其四匹马;导师则以三箭射中他的双臂和胸膛。
7.125.70
ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः ।
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ॥ ७.१२५.७० ॥
他以七箭射断其旗帜,以三箭杀死了御者。御者被杀后,那些马拖着战车逃走了。
7.125.71
समरे शरसंवीता भारद्वाजेन मारिष ।
चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम् ॥ ७.१२५.७१ ॥
尊者啊,在战斗中,被婆罗堕遮之子的箭所覆盖,看见车基探那的战车,马已被杀,御者已被杀。
7.125.72
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् ।
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥ ७.१२५.७२ ॥
德罗纳在四面驱散那些聚集于战场的英勇的遮底人、般遮罗人与苏兰遮耶人,他光辉耀眼,尊者啊。
7.125.73
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः ।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ ७.१२५.७३ ॥
发白及耳、肤色黝黑、年已八十五的德罗纳在战场上往来奔走,虽已年老,却如十六岁少年一般。
7.125.74
अथ द्रोणं महाराज विचरन्तमभीतवत् ।
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥ ७.१२५.७४ ॥
大王啊,此时敌人看见德罗纳无所畏惧地往来奔走,便以为他是手持金刚杵、摧毁敌人的神。
7.125.75
ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप ।
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥ ७.१२५.७५ ॥
那时,智慧的大臂德鲁帕达,大王啊,说道:"这贪婪之人杀戮刹帝利,犹如猛虎杀戮小鹿。"
7.125.76
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः ।
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥ ७.१२५.७६ ॥
罪恶而心术不正的难敌,将艰难地获得诸界;由于他的贪欲,最优秀的刹帝利在战场上被杀。
7.125.77
शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः ॥ ७.१२५.७७ ॥
成百上千的人倒在地上,如被砍倒的公牛,肢体满是鲜血,成了犬和豺狼的食物。
7.125.78
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः ।
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥ ७.१२५.७८ ॥
大王啊,说完这番话,统领一个阿克绍希尼军的德鲁帕达把般度之子置于前列,迅速地向德罗纳冲去。