Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.127

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.127.1

ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः ।
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥ ७.१२७.१ ॥

昔日承载梵天、自在天、因陀罗与伐楼那的那辆战车,二位黑天乘之而去,他们并无恐惧。

7.127.2

तवाज्ञां शिरसा बिभ्रदेष गच्छामि मा शुचः ।
समेत्य तान्नरव्याघ्रास्तव दास्यामि संविदम् ॥ ७.१२७.२ ॥

我将你的命令置于头顶而去,你不要悲伤。人中虎们啊,与他们相会之后,我会向你们传达音讯。

7.127.3

एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् ।
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनःपुनः।
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥ ७.१२७.३ ॥

如此说罢,有力的毗摩婆那将坚战托付,又与朋友们一再相拥而别,遂离去;而大力的毗摩婆那对猛光说了这番话。

7.127.4

विदितं ते महाबाहो यथा द्रोणो महारथः ।
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥ ७.१२७.४ ॥

大臂者啊,你知道大车将德罗纳正以一切方法谋求捉住法王。

7.127.5

न च मे गमने कृत्यं तादृक्पार्षत विद्यते ।
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥ ७.१२७.५ ॥

普利沙塔之子啊,我的离去并没有像我们保护国王那样紧迫的职责。

7.127.6

एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे ।
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥ ७.१२७.६ ॥

被帕尔塔如此相告,我无力回答;我将前往那位求死的信度王所在之处。

7.127.7

धर्मराजस्य वचने स्थातव्यमविशङ्कया ।
यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः ॥ ७.१२७.७ ॥

应毫无疑虑地坚守法王的话语。我将追随兄长与智者萨特瓦塔的道路。

7.127.8

सोऽद्य यत्तो रणे रार्थं परिरक्ष युधिष्ठिरम् ।
एतद्धि सर्वकार्याणां परमं कृत्समाहवे ॥ ७.१२७.८ ॥

今日在战场上保持警觉,为国王守护坚战。这是一切职责中最高、最完整的一项。

7.127.9

तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् ।
ईप्सितं ते करिष्यामि गच्छ पार्थाविचारयन् ॥ ७.१२७.९ ॥

大王,德里什塔德尤姆那对狼腹(Vṛkodara)说:我会满足你的愿望。不要犹豫,去见阿周那。

7.127.10

नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन ।
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥ ७.१२७.१० ॥

若不在战场上杀死德里什塔德尤姆那,德罗纳绝不能以任何方式制服法王。

7.127.11

ततो निक्षिप्य राजानं धृष्टद्युम्ने च पाण्डवम् ।
अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फल्गुनः ॥ ७.१२७.११ ॥

于是,他把国王和般度之子托付给德里什塔德尤姆那,向尊长致敬后,前往法尔古那所在之处。

7.127.12

परिष्वक्तश्च कौन्तेयो धर्मराजेन मारुतिः ।
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥ ७.१२७.१२ ॥

法王拥抱了贡蒂之子与风神之子,嗅了嗅他们的头顶,并献上吉祥的祝福。

7.127.13

कृत्वा प्रदक्षिणान्विप्रानर्चितांस्तुष्टमानसान् ।
आलभ्य मङ्गलान्यष्टौ पीत्वा कैरातकं मधु ॥ ७.१२७.१३ ॥

绕行婆罗门并以欢悦之心敬礼他们,触摸八样吉祥之物,饮下凯拉塔迦蜜酒。

7.127.14

द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः ।
विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः ॥ ७.१२७.१४ ॥

双倍力量的英雄,因醉意而眼角发红,婆罗门为他诵念吉祥祝福,并以胜利的吉兆为标志。

7.127.15

पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम् ।
अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः ॥ ७.१२७.१५ ॥

看着自己那带来胜利之喜的决心,并借顺风迅速显示胜利的曙光。

7.127.16

भीमसेनो महाबाहुः कवची शुभकुण्डली ।
सगदः सतलत्राणः सशरी रथिनां वरः।
रथमारुह्य निर्युक्तं सर्वोपकरणान्वितम् ॥ ७.१२७.१६ ॥

大臂的毗摩婆那身披铠甲,戴着吉祥的耳环,持铁杵、护臂与箭,是战车武士中的最优者,登上套好、备齐一切器具的战车。

7.127.17

तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् ।
विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः ॥ ७.१२७.१७ ॥

他那用黑铁制成、镶嵌金饰、极为华美的铠甲四面紧贴,闪耀如同带着闪电的乌云。

7.127.18

पीतरक्तासितसितैर्वासौभिश्च सुवेष्टितः ।
कण्ठसूत्रेण विबभौ सेन्द्रायुध इवाम्बुदः ॥ ७.१२७.१८ ॥

他身裹黄、红、黑、白四色衣物,颈上系着颈绳,闪耀如带着彩虹的乌云。

7.127.19

प्रयाते भीमसेने तु तव सैन्यं युयुत्सया ।
पाञ्चजन्यरवो घोरः पुनरासीद्विशाम्पते ॥ ७.१२७.१९ ॥

比摩那已离去,你的军队因渴望交战而躁动,人民之主啊,般遮若耶贝壳的可怕声音又再度响起。

7.127.20

तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् ।
पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत ॥ ७.१२७.२० ॥

听到那可怕而宏大的声音,它使三界震恐,法之子再次对大臂的比摩说话。

7.127.21

एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ।
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥ ७.१२७.२१ ॥

这贝壳之王生于水中,被伐弥的主要英雄用力吹响,使大地与天空回响。

7.127.22

नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि ।
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥ ७.१२७.२२ ॥

必定是因为萨维亚萨钦陷入极大的危难,持轮与棒者正与所有俱卢人作战。

7.127.23

नूनमार्या महत्कुन्ती पापं व्यसनमीदृशम् ।
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः।
तद्भीम त्वरया युक्तो याहि यत्र धनञ्जयः ॥ ७.१२७.२३ ॥

必定是尊贵的贡蒂、德罗波蒂与苏跋陀罗,与亲族一同看着这样巨大而罪恶的灾难。因此,比摩啊,快去Dhanañjaya所在之处。

7.127.24

मुह्यतीव हि मे चित्तं धनञ्जयदिदृक्षया ।
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात् ॥ ७.१२७.२४ ॥

我的心仿佛因渴望见到Dhanañjaya而迷乱;而方位与隅位,啊,普利塔之子,也因萨特瓦塔(黑天)的缘故而在我面前迷乱。

7.127.25

गच्छगच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः ।
ततः पाण्डुसुतो राजन्भीमसेनः प्रतापवान् ॥ ७.१२७.२५ ॥

老师说:“去吧,去吧!”于是,大王,威武的般度之子毗摩森那前进了。

7.127.26

बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः ।
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ॥ ७.१२७.२६ ॥

系好皮革护指,紧握弓箭,受长兄派遣,做兄长所喜之事的兄弟(毗摩前进)。

7.127.27

आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माप्य चासकृत् ।
विनद्य सिंहनादेन ज्यां विकर्षन्पुनःपुनः ॥ ७.१२७.२७ ॥

毗摩击打战鼓,反复吹响海螺,发出狮子般的吼声,一次又一次拉满弓弦。

7.127.28

तेन शब्देन वीराणां पातयित्वा मनांस्युत ।
दर्शयन्घोरमात्मानममित्रान्सहसाऽभ्ययात् ॥ ७.१२७.२८ ॥

他以那声音震慑英雄们的心,显露恐怖的形象,突然冲向敌人。

7.127.29

तमूहुर्जवना दान्ता विरुवन्तो हयोत्तमाः ।
विशोकेन सुसंयत्ता मनोमारुतरंहसः ॥ ७.१२७.२९ ॥

他被迅捷、驯服、嘶鸣的良马载着前行;由毗首迦妥善驾驭,速度如心念与风。

7.127.30

आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना ।
सम्प्रकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥ ७.१२७.३० ॥

他击打、摧破,用手拉弓弦,用力拉弓,般度之子(毗摩)彻底震撼了军队的前锋。

7.127.31

तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः ।
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥ ७.१२७.३१ ॥

般遮罗人与索摩迦人的英雄们立刻从后跟随那位大臂者前进,如诸神跟随因陀罗。

7.127.32

तं समेत्य महाराज तावकाः पर्यवारयन् ।
दुःशासनश्चित्रसेनः कुण्डभेदी विविंशतिः ॥ ७.१२७.३२ ॥

大王啊,你的人马走近他并将他包围:难降、奇军、耳环破者与毗频舍底。

7.127.33

दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा ।
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥ ७.१२७.३३ ॥

难面、难忍、无耳与沙罗亦然;频陀与阿努频陀,善面,长臂者善见。

7.127.34

वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः ।
अभयो रौद्रकर्णा च सुवर्मा दुर्विमोचनः ॥ ७.१२७.३४ ॥

伏陀罗迦、善手、长目善军、无畏、暴业、善甲与难脱。

7.127.35

शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः ।
संयत्ताः समरे वीरा भीमसेनमुपाद्रवन् ॥ ७.१२७.३५ ॥

车战勇士中的翘楚,光彩耀目,随步兵而行,备战的英雄们冲向怖军。

7.127.36

तैः समन्ताद्वृतः शूरैः समरेषु महारथः ।
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी।
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥ ७.१२७.३६ ॥

被那些英雄四面包围的大车将,勇猛的昆蒂之子怖军见到他们,便疾速冲上前去,如狮子扑向小鹿。

7.127.37

ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् ।
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥ ७.१२७.३७ ॥

那些勇士在那里展示了神圣的大神兵,以箭雨遮蔽毗摩,如乌云遮蔽升起的太阳。

7.127.38

ततः क्रुद्धो महाराज भीमसेनः पराक्रमी ।
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥ ७.१२७.३८ ॥

于是,大王啊,愤怒而勇猛的毗摩森那以箭雨覆盖了前方的战车军。

7.127.39

ते वध्यमानाः समरे तव पुत्रा महारथाः ।
भीमं भीमबला युद्धे योधयन्ति जयैषिणः ॥ ७.१२७.३९ ॥

你的诸子大战车武士在战斗中受创,渴望胜利,便与力量可怖的毗摩交战。

7.127.40

ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् ।
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥ ७.१२७.४० ॥

于是愤怒的难降欲杀般度之子,投掷了名为萨尔瓦帕拉萨维的锐利车枪。

7.127.41

आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम् ।
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥ ७.१२७.४१ ॥

你的儿子投出的那支飞来的大枪,被毗摩一劈为二;那情景仿佛奇迹。

7.127.42

अथान्यैर्विशिखैस्तीक्ष्णैः सङ्क्रुद्धः कुण्डभेदिनम् ।
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥ ७.१२७.४२ ॥

于是勇猛的毗摩怒火中烧,以其他锐利箭矢击杀了穿耳者苏舍那和长目,各以三箭射之。

7.127.43

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥ ७.१२७.४३ ॥

随后他又击杀了英雄乌陀罗迦(Vṛndāraka),这位增益俱卢族荣耀者,还有正在作战的你的英勇诸子。

7.127.44

अभयं रौद्रकर्माणं दुर्विमोचनमेव च ।
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥ ७.१२७.४४ ॥

毗摩以每次三箭,三次射杀了无畏和行残酷之业的难以解脱(Durvimocana),又再次杀死了你的儿子们。

7.127.45

वध्यमाना महाराज पुत्रास्तव बलीयसा ।
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥ ७.१२७.४५ ॥

大王,你的儿子们正被这位强者所杀,他们便从四面包围了攻击者中最优秀的毗摩。

7.127.46

ते शरैर्भीमकर्माणं ववर्षुः पाण्डवं युधि ।
मेघा इवातपापाये धाराभिर्धरणीधरम् ॥ ७.१२७.४६ ॥

他们在战场上向行可怖之业的般度之子倾泻箭雨,犹如暑季末云朵向山峦倾下雨流。

7.127.47

स तद्बाणमयं वर्षमश्मवर्षमिवाचलः ।
प्रतीच्छन्पाण्डुदायादो न प्राव्यथत शत्रुहा ॥ ७.१२७.४७ ॥

这位击敌者、般度的继承人,承受着那箭雨犹如承受石雨,如山岳一般,丝毫不为所动。

7.127.48

विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् ।
प्रहसन्नेव कौन्तेयः शरैर्निन्यं यमक्षयम् ॥ ७.१२७.४८ ॥

毗陀与阿努毗陀二人一同,还有你的儿子苏伐摩,都被这位俱蒂之子笑着以箭送往阎摩的住所。

7.127.49

ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ ।
विव्याध समरे तूर्णं स पपात ममार च ॥ ७.१२७.४९ ॥

于是,婆罗多之牛啊,他在战斗中迅速射中了你名为苏达尔沙纳的英勇之子。他倒下死去了。

7.127.50

सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः ।
दिशः सर्वाः समालोक्य व्यधमत्पाण्डुनन्दनः ॥ ७.१२७.५० ॥

不久,他便以疾箭包围了那支战车军队;环视四面八方之后,般度之子将其驱散。

7.127.51

ततो वै रथघोषेण गर्जितेन मृगा इव ।
भज्यमानाश्च समरे तव पुत्रा विशाम्पते।
प्राद्रवन्सहसा सर्वे भीमसेनभयर्दिताः ॥ ७.१२७.५१ ॥

于是,人民之主啊,在战车的轰鸣与吼声中,你的儿子们在战场上如鹿般溃散,被毗摩西那的恐惧折磨,忽然全部逃走了。

7.127.52

अनुयायाच्च कौन्तेयः पुत्राणां ते महद्बलम् ।
विव्याध समरे राजन्कौरवेयान्समन्ततः ॥ ७.१२७.५२ ॥

昆提之子追击你儿子们的大军;大王啊,他在战斗中从四面八方射中了俱卢族人。

7.127.53

वध्यमाना महाराज भीमसेनेन तावकाः ।
त्यक्त्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान्। ॥ ७.१२७.५३ ॥

大王啊,你的部下被毗摩西那击伤,他们抛下毗摩,驱策着良马离开了战场。

7.127.54

तांस्तु निर्जित्य समरे भीमसेनो महाबलः ।
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥ ७.१२७.५४ ॥

在战斗中击败他们之后,大力的般度族毗摩西那发出狮子般的吼声,并拍打双臂发出声响。

7.127.55

महान्तं तलशब्दं च कृत्वा द्रोणान्तिकं ययौ ।
तमावारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥ ७.१२७.५५ ॥

他发出巨大的拍击声,走近德罗纳。师尊阻挡了他,犹如海岸阻挡翻腾的大海。

7.127.56

तस्य द्रोणो रथं राजञ्छादयामास संयुगे ।
साश्वसूतध्वजं तूर्णं तदद्भुतमिवाभवत् ॥ ७.१२७.५६ ॥

大王啊,战斗中德罗纳迅速遮蔽了他的战车,连同马匹、御者和旗帜,那景象仿佛奇迹一般。

7.127.57

ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव ।
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥ ७.१२७.५७ ॥

他仿佛含笑,用铁箭击中他的额头,那位般度之子便如光芒高扬的太阳一般闪耀。

7.127.58

स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा ।
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥ ७.१२७.५८ ॥

他想:'我这个弟子会像法尔古那(阿周那)一样致敬。'于是对狼腹(怖军)说道。

7.127.59

भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् ।
मामनिर्जित्य समरे शत्रुमद्य महाबल ॥ ७.१२७.५९ ॥

婆罗多(怖军)啊,你若不先在战斗中胜过我,今天便不可能进入敌军之阵,大力者啊。

7.127.60

यदि ते सानुजः कृष्णः प्रविष्टोऽनुमते मम ।
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया ॥ ७.१२७.६० ॥

即便你的幼弟黑天已经经我允许进入,你在此处也不可能进入我的军队。

7.127.61

अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमशेषतः ।
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥ ७.१२७.६१ ॥

于是,毗摩听完师尊的全部言辞,怒火中烧,双目赤红如铜,喘息着对德罗纳说道。

7.127.62

तवार्जुनो नानुमते ब्रह्बन्धो रमाजिरम् ।
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥ ७.१२७.६२ ॥

婆罗门亲族啊,未经你的同意,阿周那已进入战场;他不可战胜,甚至能冲入因陀罗的军队。

7.127.63

येन त्वं परमां पूजां कुर्वता मानितो ह्यसि ।
नार्जुनोऽहं घृणी विप्र भीमसेनोऽस्मि ते रिपुः ॥ ७.१२७.६३ ॥

你因之受到最高敬重的阿周那并非我,婆罗门啊;我是无慈悲的毗摩森那,是你的敌人。

7.127.64

पिता नस्त्वं गुरुर्बन्धुस्तदा पुत्रा हि र्ते वयम् ।
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥ ७.१२७.६४ ॥

你是我们的父亲、师尊和亲族;我们都视自己为你的儿子,恭敬地低头站在你面前。

7.127.65

तदद्य विपरीतं ते वदतोऽस्मासु दृश्यते ।
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथाऽस्त्विह।
एष ते सदृशं कर्म शत्रोर्भीमः करिष्यति ॥ ७.१२७.६५ ॥

今天你的言辞对我们似乎颠倒了;若你视自己为敌,那就这样吧;毗摩将对你做这件与敌人相称的事。

7.127.66

अथोद्धाम्य गदां वीरः कालदण्डमिवान्तकः ।
द्रोणायावासृजद्राजन्स रथादवपुप्लुवे ॥ ७.१२७.६६ ॥

于是这位英雄挥舞起铁杵,如同终结者死神的死亡之杖;大王啊,他将它掷向德罗纳,并从战车上跃下。

7.127.67

साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा ।
तदद्भुतमपश्याम पाण्डवेयस्य विक्रमम् ॥ ७.१२७.६७ ॥

彼时他摧毁了德罗纳的战车,连同马匹、御者和旗帜。我们惊见了般度之子那非凡的勇武。

7.127.68

द्रोणं तु विरथं कृत्वा भीमसेनो महाबलः ।
अभ्यवर्तत सैन्यानि तावकानि समन्ततः ॥ ७.१२७.६८ ॥

使德罗纳失去战车之后,大力的怖军从四面向你的军队冲去。

7.127.69

स मृद्रंस्तरसा योधान्वायुर्वृक्षानिवौजसा ।
विचचार रणे राजन्वायुतुल्यपराक्रमः ॥ ७.१२७.६९ ॥

他迅猛地碾压战士,如风以力摧倒树木,在战场上纵横驰骋,哦王,他的勇武堪比风。

7.127.70

निर्जितस्तु तदा तेन पाण्डवेन महात्मना ।
अन्यं तु रथमातिष्ठद्द्रोणः प्रहरतां वरः ॥ ७.१२७.७० ॥

那时,德罗纳被那位大心的般度之子击败,作为战士中的最优者,他登上了另一辆战车。