Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.128

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.128.1

समुत्तीर्णं रथानीकं पाण्डवं विहसन्रणे ।
विवारयिषुराचार्यः शरवर्षैरवाकिरत् ॥ ७.१२८.१ ॥

见般度之子的战车大军在战场上冲过,师尊德罗纳笑着,欲阻挡之,便降下箭雨。

7.128.2

पिबन्निव शरौघांस्तान्द्रोणचापपरिच्युतान् ।
सोऽभ्यद्रवत सोदर्यान्मोहयन्बलमायया ॥ ७.१२८.२ ॥

仿佛饮尽德罗纳弓上射出的那些箭流,他以幻术迷惑军队,向自己的同胞兄弟冲去。

7.128.3

तं मृधे वेगमास्थाय परं परमधन्विनः ।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥ ७.१२८.३ ॥

他在战场上以极猛的势头冲上前去,被最优秀的弓手从四面包围,那是受你的儿子们驱使。

7.128.4

स तैस्तु संवृतो भीमः क्रोधेन प्रदहन्निव ।
उद्यच्छन्स गदां तेभ्यः सुघोरां सिंहवन्नदन्।
अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम् ॥ ७.१२८.४ ॥

被他们包围的可怖的毗摩,仿佛怒火焚烧,如狮子般咆哮,向他们高举最可怕的铁棒,并以全力投出那摧毁敌军的武器。

7.128.5

इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे ॥ ७.१२८.५ ॥

如同因陀罗亲自投出的金刚杵,那被坚定之人投掷的铁棒,在战斗中碾碎了你的士兵,大王啊。

7.128.6

घोषेण महता राजन्पूरयन्तीव मेदिनीम् ।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥ ७.१२८.६ ॥

大王啊,它以巨大的轰鸣仿佛充满大地,闪耀着光焰的那可怖铁棒,使你的儿子们惊恐万分。

7.128.7

तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् ।
प्राद्रवंस्तावकाः सर्वे नदन्तो बैरवान्रवान् ॥ ७.१२८.७ ॥

看见她以极快的速度坠落,被光辉所笼罩,你的所有士兵都发出可怖的呼喊而逃散。

7.128.8

सिंहनादमसह्यं हि श्रुत्वा भीमस्य संयुगे ।
प्रापतन्मुनुजास्त्रस्ता रथेभ्यो रथिनस्तदा ॥ ७.१२८.८ ॥

在战场上听到比玛不可忍受的狮吼,惊恐的士卒与车士便从战车上跌落。

7.128.9

ते हन्यमाना भीमेन गदाहस्तेन तावकाः ।
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव ॥ ७.१२८.९ ॥

你的士兵被手持权杖的比玛击打,在战场上惊恐奔逃,如同被老虎抓住的鹿。

7.128.10

स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदान् ।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥ ७.१२८.१० ॥

在战斗中击溃那些难以接近的敌人后,昆提之子如同众鸟之王金翅鸟一般迅速穿过了军队。

7.128.11

तथा तु विप्रकुर्वाणं रथयूथपयूथपम् ।
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥ ७.१२८.११ ॥

大王,于是婆罗堕嘉之子(德罗纳)向那位在车兵群中施行毁灭的比摩森那挺进。

7.128.12

भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः ।
अकरोत्सहसा नादं षाण्डूनां भयमादधत् ॥ ७.१२८.१२ ॥

然而在战斗中,德罗纳以箭的波涛阻挡比摩,并突然发出怒吼,使般度之子心生恐惧。

7.128.13

तद्युद्धमासीत्सुमहद्धोरं देवासुरोपमम् ।
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥ ७.१२८.१३ ॥

大王啊,德罗纳与大灵魂的怖军之间的那场战斗极其惨烈,犹如诸天与阿修罗之战。

7.128.14

यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥ ७.१२८.१४ ॥

当德罗纳弓射出的利箭使战场上的英雄成百上千地倒下之时。

7.128.15

ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥ ७.१२८.१५ ॥

大王啊,于是般度之子从战车跃下,加速前行,闭上双眼,徒步向德罗纳冲去。

7.128.16

अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ ।
वेगमास्थाय बलवान्मनोनिलगरुत्मताम् ॥ ७.१२८.१६ ॥

强大的怖军将头靠在肩上,双手紧贴胸前,以如同意念、风与迦楼罗般的速度前行。

7.128.17

यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥ ७.१२८.१७ ॥

犹如公牛轻松承受雨水,人中猛虎怖军也承受了箭雨。

7.128.18

स वध्यमानः समरे रथं द्रोणस्य मारिष ।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥ ७.१२८.१८ ॥

尊者啊,那位大力者在战斗中被击中,便用手抓住德罗纳战车的辕木,将其猛然掷出。

7.128.19

द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे ।
ददृशे तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः।
परिहृत्य रथं द्रोणश्चूर्णितं तं महीतले ॥ ७.१२८.१९ ॥

大王啊,德罗纳在战斗中被婆罗那所掷,很快便显现出来;你的战士们睁大惊讶的眼睛看着他。德罗纳避开那辆碎裂的战车,看见它倒在地上。

7.128.20

रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः ।
तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा ॥ ७.१२८.२० ॥

德罗纳登上另一辆战车,又回到阵门。看见那位失去斗志而前来的老师如此而来,那时……

7.128.21

गत्वा वेगात्पुनर्भीमो धुरं गृह्य रथस्य तु ।
तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः ॥ ७.१२८.२१ ॥

婆罗那再次疾速冲去,抓住战车的辕木,极为愤怒,又将那位大车将也掷了出去。

7.128.22

एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया ॥ ७.१२८.२२ ॥

就这样,婆罗那犹如游戏一般,掷出了八辆战车。

7.128.23

व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः ।
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः ॥ ७.१२८.२३ ॥

顷刻之间,他又被看见站在自己的战车上;你的战士们睁大惊讶的眼睛望着他。

7.128.24

तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् ।
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥ ७.१२८.२४ ॥

就在那一刻,他的御者迅速驱策马匹;考拉瓦啊,婆罗那那一举显得如同奇迹。

7.128.25

ततः स्वरथमास्थाय भीमसेनो महाबलः ।
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम् ॥ ७.१२८.२५ ॥

于是大力的怖军登上自己的战车,迅速冲向你儿子的军队。

7.128.26

स मृद्गन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥ ७.१२८.२६ ॥

他在战场上碾碎刹帝利,撕裂军队前进,如狂风拔起树木,如信度河的激流冲击山岳。

7.128.27

भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात् ॥ ७.१२८.२७ ॥

他到达由希尔迪基亚守护的 Bhoja 军队,这位力量超群的英雄也以武力将其摧破,继续前进。

7.128.28

सन्त्रासयन्ननीकानि तलशब्देन पाण्डवः ।
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥ ७.१२८.२८ ॥

他以拍打手臂的声音使军队惊恐,这位般度之子征服了所有军队,如猛虎征服牛群中的公牛。

7.128.29

भोजानीकमतिक्रम्य दरदानां च वाहिनीम् ।
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान् ॥ ७.१२८.२९ ॥

越过 Bhoja 的军队、达罗陀人的军队,同样也越过了许多其他精通战事的蛮族部众。

7.128.30

सात्यकिं चैव सम्प्रेक्ष्य युध्यमानं महारथम् ।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥ ७.१२८.३० ॥

这时,见到大车士萨谛奇正在作战,贡蒂之子热切地驾着战车迅速前往。

7.128.31

भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् ।
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥ ७.१२८.३१ ॥

大王,Bhīmasena(般度之子)欲见 Dhanañjaya,在战场上越过你的战士,向前而去。

7.128.32

सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम् ।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥ ७.१२८.३२ ॥

他在那里看见大车手阿周那正在战斗,为杀死信度王而奋勇前进。

7.128.33

तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान् ।
प्रावृट्काले महाराज नर्दन्निव बलाहकः ॥ ७.१२८.३३ ॥

大王,人中之虎 Bhīma 见到他,发出巨大的吼声,如同雨季中轰鸣的云。

7.128.34

तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः ।
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे ॥ ७.१२८.३४ ॥

孔武族后裔啊,Pārtha 听见了 Bhīmasena 那可怕的吼声,Vāsudeva 也听见了 Bhīmasena 在战场上的吼声。

7.128.35

तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः ।
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम् ॥ ७.१२८.३५ ॥

二位英雄同时听见那位强者的吼声,渴望见到 Vṛkodara,便一次又一次地吹响海螺。

7.128.36

ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह ।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥ ७.१२८.३६ ॥

于是 Pārtha 发出巨大的吼声,Mādhava 也如此;大王,他们如两头吼叫的公牛般向前推进。

7.128.37

भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः ।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥ ७.१२८.३७ ॥

大王啊,法之子坚战听到怖军的吼声和持弓者法尔古那(阿周那)的吼声,心中欢喜。

7.128.38

विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः ।
धनञ्जयस्य समरे जयमाशास्तवान्विभिः ॥ ७.१२८.३८ ॥

听到二人的那阵吼声,国王便免除了忧愁;他与众勇士一同期望财获(阿周那)在战场上获胜。

7.128.39

तथा तु नर्दमाने वै भीमसेने मदोत्कटे ।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥ ७.१२८.३९ ॥

当怖军因骄傲而如此怒吼时,双臂有力的法之子坚战微笑了。

7.128.40

हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥ ७.१२८.४० ॥

持法者中的最优秀者沉思后,在心中说出了心里所想:怖军啊,你曾许下诺言,也践行了师长的教诲。

7.128.41

न हि तेषां जयो युद्धे येषां द्वेष्टाऽसि पाण्डव ।
दिष्ट्या जीवति सङ्ग्रमे सव्यसाची धनञ्जयः ॥ ७.१२८.४१ ॥

般度之子啊,凡是你所敌对的人,在战斗中都不会获胜;幸运的是,双手善射的财获(阿周那)在战场上仍然活着。

7.128.42

दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥ ७.१२८.४२ ॥

幸运的是,真正勇武的英雄萨特亚基安然无恙;幸运的是,我听到了瓦苏提婆与财获在吼叫。

7.128.43

येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ॥ ७.१२८.४३ ॥

那位在战斗中战胜帝释天、使火神哈维耶瓦哈那满足的敌人杀手法尔古那,幸运地still活着。

7.128.44

यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।
स हन्ता रि पुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥ ७.१२८.४४ ॥

我们全都依靠其臂力而活着,那位敌军的杀手法尔古那幸运地还活着。

7.128.45

निवातकवचा येन देवैरपि सुदुर्जयाः ।
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति ॥ ७.१२८.४५ ॥

诸神也难以战胜的尼瓦塔卡瓦恰,被他仅用一张弓战胜,那位般度之子幸运地还活着。

7.128.46

कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् ।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥ ७.१२८.४६ ॥

在摩差城中战胜了为劫掠牛群而聚集的全部俱卢人,那位般度之子幸运地还活着。

7.128.47

कालकेयसहस्राणि चतुर्दश महारणे ।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥ ७.१२८.४७ ॥

在大战中以臂力杀死一万四千名迦拉刻亚人的那位般度之子,幸运地还活着。

7.128.48

गन्धर्वराजं बलिनं दुर्योधनकृते च वै ।
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥ ७.१२८.४८ ॥

为了难敌,以神兵之力战胜了强大的乾达婆之王的那位般度之子,幸运地还活着。

7.128.49

किरीटमाली बलवाञ्छेताश्वः कृष्णसारथिः ।
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति ॥ ७.१२८.४९ ॥

戴冠佩花环的强者,驾白马、以黑天为御者,始终为我所爱的那位般度之子,幸而仍然活着。

7.128.50

पुत्रशोकाभिसन्तप्तश्चिकीर्षन्कर्म दुष्करम् ।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः।
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ॥ ७.१२८.५० ॥

为子之丧所痛苦,欲行艰难之事,寻求杀死胜车(Jayadratha)而发誓的那位——财富征服者(阿周那)是否会在战斗中杀死信度王?

7.128.51

कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ।
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥ ७.१२८.५१ ॥

得婆修天(Vāsudeva)守护、已践誓言的那位——在太阳落山之前,我能与阿周那相见吗?

7.128.52

कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ।
नन्दयिष्यत्यमित्रान्हि फल्गुनेन निपातितः ॥ ७.१२८.५२ ॥

那位专心于难敌之利益的信度王,被法尔古那(阿周那)击倒,是否会使敌人欢喜?

7.128.53

कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् ।
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ॥ ७.१२८.५३ ॥

难敌王见信度王被法尔古那击倒于战场,是否会与我们建立和平?

7.128.54

दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे ।
कच्चिद्दुर्योधनो मन्दः शममस्मासु यास्यति ॥ ७.१२८.५४ ॥

愚昧的难敌见其兄弟被毗摩森那(Bhīmasena)战死,是否会与我们和解?

7.128.55

दृष्ट्वा चान्यान्महायोधान्पातितान्धरणीतले ।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति ॥ ७.१२८.५५ ॥

愚昧的难敌见到其他大勇士倒卧于大地之上,是否会感到悔恨?

7.128.56

शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ।
एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा। ॥ ७.१२८.५६ ॥

为了保全残余的军队,苏耶陀那将与敌方议和。那时,国王正从种种方面思量……

7.128.57

कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत ॥ ७.१२८.५७ ॥

被怜悯所包围,他的内心展开了一场可怕的斗争。