摩诃婆罗多 · 章 7.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.13.1
सान्तरे तु प्रतिज्ञाने राज्ञो द्रोणेन निग्रहे ।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्।
सिंहनादरवांश्चक्रुर्बाहुशब्दांश्च कृत्स्नशः ॥ ७.१३.१ ॥
在附有条件的誓言中,德罗那将擒获国王;那些士兵听闻俘获坚战之事,便四面发出狮吼和拍臂的声音。
7.13.2
तच्च सर्वं यथान्यायं धर्मराजेन भारत ।
आप्तैश्चारैः परिज्ञातं भारद्वाजचिकीर्षितम् ॥ ७.१३.२ ॥
婆罗多之裔啊,法王依法尽知了这一切;通过可靠的探子,薄多伽阇(德罗那)的意图也被完全探明。
7.13.3
ततः सर्वान्समानाय्य भ्रातृनन्यांश्च सर्वशः ।
अव्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ॥ ७.१३.३ ॥
随后,法王召集了所有兄弟和其他人,对财主(阿周那)说了这番话。
7.13.4
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् ।
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥ ७.१३.४ ॥
人中之虎啊,你今日已听闻德罗那的意图;愿筹划出一个策略,使其不能成真。
7.13.5
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रघातिना ।
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥ ७.१३.५ ॥
灭敌者德罗那立下了附有条件的誓言;而那条件,啊,箭无虚发者,他已将之加在你身上。
7.13.6
तत्त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ।
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥ ७.१३.६ ॥
因此,啊,大臂者,今日你应代我作战,使难敌不能如愿从德罗那那里得到此事。
7.13.7
यथा मे न वधः कार्य आचार्यस्य कथञ्चन ।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥ ७.१३.७ ॥
我绝不应当以任何方式杀害师尊,同样,王啊,我也不愿舍弃您。
7.13.8
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि ।
प्रतियाताऽहमाचार्यं त्वां न जह्यां कथञ्चन ॥ ७.१३.८ ॥
即便我在战场上舍弃性命,俳哦潘达瓦,我既已向师尊立下誓言,也绝不会以任何方式舍弃你。
7.13.9
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति ।
न स तं जीवलोकेऽस्मिन्कामं प्राप्ता कथञ्चन ॥ ७.१३.९ ॥
王啊,他若在战场上擒获您,持国之子也绝不会在这世间实现他所渴望的愿望。
7.13.10
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकली भवेत् ।
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥ ७.१३.१० ॥
纵使星辰连同天空坠落,大地碎裂成片,只要我还活着,德罗纳必定无法擒获您。
7.13.11
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् ।
विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे ॥ ७.१३.११ ॥
即便执金刚者亲自,或毗湿奴与诸神一起在战场上助他,他也绝不能在战斗中得到您。
7.13.12
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि ।
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥ ७.१३.१२ ॥
王中之王啊,只要我还活着,您就不应畏惧德罗纳——他是持弓者中最杰出的,也是一切持兵器者中最杰出的。
7.13.13
अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम् ॥ ७.१३.१३ ॥
王中之王啊,我还要说一件事:这是我坚定不移的誓言。
7.13.14
न स्मराम्यनृतं तावन्न स्मरामि पराजयम् ।
न स्मरामि प्रतिश्रुत्य विस्मृत्य मनस्वऽकृतम् ॥ ७.१३.१४ ॥
我不记得曾说过谎话,也不记得有过失败。我不记得曾许诺后又忘记,做出有志者所不为之事。
7.13.15
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥ ७.१३.१५ ॥
于是,大王啊,在般度子孙的营中,海螺、战鼓、鼍鼓与大鼓一同鸣响。
7.13.16
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् ।
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥ ७.१३.१६ ॥
伟大的般度子孙发出狮吼,弓弦与手掌的响声直达天空,极其可怖。
7.13.17
श्रुत्वा शङ्खस्य निर्घोषं पाण्डवस्य महौजसः ।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥ ७.१३.१७ ॥
听到大力的般度子孙的海螺声,你们的军中也响起了乐器。
7.13.18
ततो व्यूढान्यनीकानि तव तेषां च भारत ।
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥ ७.१३.१८ ॥
于是,婆罗多的后裔啊,你的列阵之军与他们的列阵之军,准备在战场上交锋,缓缓地向彼此靠近。
7.13.19
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥ ७.१३.१९ ॥
于是,般度之子与俱卢族之间,德罗纳与般遮罗人之间,爆发了令人毛骨悚然的激烈大战。
7.13.20
यतमानाः प्रयतेन द्रोणानीकविशातने ।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम् ॥ ७.१३.२० ॥
虽然悉陀耶人竭尽全力想要冲破德罗纳的军队,却在战斗中无法取胜,因为那支军队由德罗纳亲自守护。
7.13.21
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटीना ॥ ७.१३.२१ ॥
同样,你儿子的勇猛车兵虽奋力冲杀,也无法击败由戴冠者(阿周那)守护的般度大军。
7.13.22
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् ।
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥ ७.१३.२२ ॥
愿那两支军队静止不动,彼此守卫,如同夜里沉睡的繁花盛开的林木。
7.13.23
ततो रुक्मरथो राजन्नर्केणेव विराजता ।
वरूथिना विनिष्पत्य व्यचरत्पृतनामुखे ॥ ७.१३.२३ ॥
于是,大王啊,那位金车之主披着如太阳般耀眼的甲胄冲出,在军阵前列驰骋。
7.13.24
तमुद्यन्तं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव सन्त्रसान्मेनिरे पाण्डुसृञ्जयाः ॥ ७.१३.२४ ॥
他独自乘车在战场上疾驰,般度之子与悉陀耶人在恐惧中竟以为他是许多人。
7.13.25
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥ ७.१३.२५ ॥
他射出的可怕箭矢四散飞向各个方向,大王啊,使般度之子的军队恐惧。
7.13.26
मध्यन्दिनमनुप्राप्तो गभस्तिशतसंवृतः ।
यथा दृश्येत घर्मोशुस्तथा द्रोणोऽप्यदृश्यत ॥ ७.१३.२६ ॥
如同正午时分被百道光芒环绕的太阳清晰可见,德罗纳也清晰可见。
7.13.27
न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत ।
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥ ७.१३.२७ ॥
婆罗多啊,般度之子中无人能在战场上直视他——他愤怒时如同檀那婆无法直视发怒的因陀罗。
7.13.28
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥ ७.१३.२८ ॥
于是威猛的婆罗堕遮使军队迷惑,迅速以锐利的箭摧毁了猛光的军队;当阿周那被调开后,你便战胜了法王。
7.13.29
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः ।
पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम्
ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ ।
ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे।
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि ॥ ७.१३.२९ ॥
他四面封锁各个方向,以直飞的箭遮蔽天空,到处刺穿般度的军队。人中之牛啊,他的胜利在于俘获而非杀戮;你认为俘获法王比杀死他更好。正是借这一方法,你将得到他的俘获。
7.13.30
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥ ७.१३.३० ॥
我将擒获那位信守真理与法的国王,今日便将他带到你的掌控之下,大王,此事毫无疑问。
7.13.31
यदि स्यास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः ।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥ ७.१३.३१ ॥
若在战斗中它在我面前哪怕停留片刻,待那人中之虎、贡提之子德哈南遮耶被移开之后。
7.13.32
फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः ।
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः ॥ ७.१३.३२ ॥
只要法尔古那在近旁,大王,即便是因陀罗率领的诸天与阿修罗,也无法在战场上擒获坚战。
7.13.33
एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे ।
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥ ७.१३.३३ ॥
在那场如天神与阿修罗之战般的战斗中,此话既已说出,德罗纳又立誓擒拿国王,你那些极其愚蠢的儿子便以为他已被擒获。
7.13.34
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् ।
स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम ॥ ७.१३.३४ ॥
此后,难敌也在所有营地、各自所在之处以及军队的所有驻地,大肆宣告了般度之子被擒的消息,哦,降敌者。
7.13.35
पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः ।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ ७.१३.३५ ॥
你的儿子知道德罗纳偏袒般度五子。于是为了让誓言坚定,那一计策便被广泛传播。