摩诃婆罗多 · 章 7.131
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.131.1
वर्तमाने महाराज सङ्ग्रामे रोमहर्षणे ।
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः ॥ ७.१३१.१ ॥
大王啊,当那场令人毛骨悚然的战斗正在进行,所有人都惶恐不安,四面八方都在受苦之时。
7.131.2
राधेयो भीममानर्च्छ युद्धाय भरतर्षभ ।
यथा नागो वने नागं मत्तो मत्तमभिद्रवेत् ॥ ७.१३१.२ ॥
婆罗多族的雄牛啊,罗陀之子迦尔纳为战斗而向毗摩扑去,犹如林中一头狂象冲向另一头狂象。
7.131.3
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ ।
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥ ७.१३१.३ ॥
于是,这两位征服敌人的勇士各自用箭矢相互较量:罗陀之子迦尔纳起初温和,般度之子起初坚定。
7.131.4
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥ ७.१३१.४ ॥
迦尔纳与毗摩,这两位大力士相互交战时,阿周那战车附近的那场战斗究竟如何?
7.131.5
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।
कथं भूयः स राधेयो भीममागान्महारथः ॥ ७.१३१.५ ॥
从前迦尔纳确实曾在战斗中被毗摩森那击败;那么,这位大车战士、罗陀之子迦尔纳,怎么又来到毗摩面前了呢?
7.131.6
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥ ७.१३१.६ ॥
或者毗摩在战斗中如何迎击那位御者之子?那位在大地上被誉为大车战士中最杰出者的车战士?
7.131.7
भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः ।
नान्यतो भयमादत्त विना कर्णान्महारथात् ॥ ७.१३१.७ ॥
越过毗湿摩与德罗纳之后,法王坚战除大车将迦尔纳之外,不畏惧任何人。
7.131.8
भयाद्यस्य महाबाहो न शेते बहुलाः समाः ।
चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः।
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे ॥ ७.१३१.८ ॥
啊,大臂者!毗摩在战场上如何与那御者之子交战?他因畏惧之故多年不眠,时时思念那大心的罗陀之子的威力。
7.131.9
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् ।
कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः ॥ ७.१३१.९ ॥
般度之子如何让那敬奉婆罗门、具有威力、在战场上从不退缩、为诸战士之冠的迦尔纳与之交战?
7.131.10
यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ ।
कथं तावत्र युध्येतां महाबलपराक्रमौ ॥ ७.१३१.१० ॥
那两位相遇的英雄——毗迦尔坦那之子迦尔纳与狼腹毗摩——二人皆具大力与威武,在此如何交战?
7.131.11
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥ ७.१३१.११ ॥
那曾显示兄弟之情、怀有慈悲的御者之子,记着贡蒂的话,与毗摩如何交战?
7.131.12
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् ।
अयुध्यत कथं शूरः कर्णेन सह संयुगे ॥ ७.१३१.१२ ॥
或者,毗摩记着往昔所结的仇怨,与那御者之子如何交战?那位英雄在战斗中与迦尔纳如何交战?
7.131.13
आशास्ते च सदा सूतपुत्रे दुर्योधनो मम ।
कर्णो जेष्यति सङ्ग्रामे समस्तान्पाण्डवानिति ॥ ७.१३१.१३ ॥
我的儿子难敌始终寄希望于御者之子,认为迦尔纳会在战斗中征服所有般度子孙。
7.131.14
जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे ।
स कथं भीमकर्माणं भीमसेनमयोधयत् ॥ ७.१३१.१४ ॥
那个我愚蠢的儿子在战斗中寄予胜利希望的御者之子,是如何与行事可怖的毗摩setsena交战的?
7.131.15
यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः ।
तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥ ७.१३१.१५ ॥
亲爱的,那个我的儿子们与大车战士们与之结下仇怨的御者之子,毗摩是如何与他交战的?
7.131.16
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् ।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥ ७.१३१.१६ ॥
毗摩想起御者之子所带来的种种侮辱,他是如何与这个御者之子交战的?
7.131.17
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥ ७.१३१.१७ ॥
毗摩是如何在战斗中与那位独自驾一辆战车征服整个大地的勇猛御者之子交战的?
7.131.18
यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥ ७.१३१.१८ ॥
毗摩是如何在战斗中与那位与耳环和铠甲一同降生的御者之子交战的?
7.131.19
अस्त्रहेतोः पुरा तात भार्गवं समपूजयत् ।
तस्य प्रसादाद्ब्रह्मास्त्रं लब्धवांश्च भृगूत्तमात् ॥ ७.१३१.१९ ॥
孩子啊,往昔他为求武器而恭敬地供养婆迦婆(持斧罗摩);凭借他的恩惠,他从婆利古族中最杰出者那里获得了梵天箭。
7.131.20
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥ ७.१३१.२० ॥
请如实告诉我他们二人之间的战斗如何进行,谁是胜利者;桑闍耶,你确实精通此事。
7.131.21
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्चयौ ॥ ७.१३१.२१ ॥
怖军抛下车战勇士中最杰出的罗陀之子(迦尔纳),想前往那两位英雄黑天与财天(阿周那)所在之处。
7.131.22
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥ ७.१३१.२२ ॥
大王啊,罗陀之子(迦尔纳)冲向离去的他,以鹤羽之箭倾泻如雨,犹如乌云向山岳降雨。
7.131.23
फुल्लता पङ्कजेनेव वक्त्रेण विहसन्बली ।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥ ७.१३१.२३ ॥
此时,阿提罗陀之子(迦尔纳)面如盛开的莲花,含笑向离开战场的大力怖军挑战交战。
7.131.24
भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः। ॥ ७.१३१.२४ ॥
你们一方因怖军所造成的创伤,连在梦中都未曾料想到这场战争。
7.131.25
तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया ।
कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन। ॥ ७.१३१.२५ ॥
那么你为何想见阿周那而向我展示背脊?般度之子的喜悦啊,这不配贡蒂之子。
7.131.26
तेन मामभितः स्थित्वा शरवर्षैरवाकिर ।
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥ ७.१३१.२६ ॥
他站在我的四周,以箭雨将我覆盖。那时,毗摩娑那在战斗中无法忍受迦尔纳的挑战,便结成半圆阵,与御者之子交战。
7.131.27
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः ।
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम् ॥ ७.१३१.२७ ॥
这位大名鼎鼎者以直飞的箭矢向他倾泻,向那身披铠甲、准备单挑、精通一切兵器的迦尔纳射去。
7.131.28
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ॥ ७.१३१.२८ ॥
他想要结束争斗,又想杀死迦尔纳,便伤了迦尔纳。
7.131.29
हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः ।
तस्मै व्यसृजदुग्राणि विविधानि परन्तपः।
अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥ ७.१३१.२९ ॥
他杀死了迦尔纳的部属,又想杀死迦尔纳本人,这位强大的敌人焚烧者便向他射出种种猛烈的箭。尊者啊,愤怒的般度之子出于愤恨,降下箭雨。
7.131.30
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः ।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित् ॥ ७.१३१.३० ॥
那位通晓最高兵器的御者之子,以兵器幻术吞没了这位行走如发狂大象者的箭雨。
7.131.31
स यथावन्महाबाहुर्विद्यया वै सुपूजितः ।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली ॥ ७.१३१.३१ ॥
如此,因学识而备受尊敬的大臂者、大弓手、强者迦尔纳,像对待老师一样侍奉他。
7.131.32
युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव ।
अभ्यपद्यत कौन्तेयं कर्णो राजन्वृकोदरम् ॥ ७.१३१.३२ ॥
大王啊!见怒火中战斗的毗摩色那,迦尔纳仿佛含笑,迎向了贡蒂之子狼腹(毗摩)。
7.131.33
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥ ७.१३१.३३ ॥
在战斗中,贡蒂之子无法忍受迦尔纳的那一笑;众勇士交战,四面观望。
7.131.34
तं भीमसेनः सङ्ग्राप्तं वत्सदन्तैः स्तनान्तरे ।
विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम् ॥ ७.१३१.३४ ॥
勇猛而愤怒的毗摩色那,在他靠近时,以牛犊齿箭刺中胸膛正中,如同用刺棒刺击大象。
7.131.35
पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः ।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥ ७.१३१.३५ ॥
他又以二十一支金羽、磨于石上、善于发射的箭,射穿了这位御者之子、身披华甲者。
7.131.36
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः ।
हयान्विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः ॥ ७.१३१.३६ ॥
迦尔纳以每匹五箭,射中毗摩的马——它们疾如风,被金网覆盖。
7.131.37
ततो बाणमयं जलं भीमसेनरथं प्रति ।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥ ७.१३१.३७ ॥
于是,大王啊,迦尔纳向坚战之子怖军的战车射出一股由箭组成的洪流,半瞬之间便显现出来。
7.131.38
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥ ७.१३१.३८ ॥
此时,这位般度之子连同他的战车、旗帜和御者,大王啊,被迦尔纳弓上射出的箭雨所遮蔽。
7.131.39
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।
क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः ॥ ७.१३१.३९ ॥
迦尔纳以六十四支箭射穿了他坚固的铠甲;他愤怒之下,又用能穿透要害的铁箭击伤了普利塔之子。
7.131.40
ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान् ।
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥ ७.१३१.४० ॥
于是,臂力强大的狼腹(怖军)不理会迦尔纳弓上射来的箭,镇定自若地与御者之子展开搏斗。
7.131.41
स कर्णचापप्रभवानिषूनाशीविषोपमान् ।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥ ७.१३१.४१ ॥
大王啊,尽管怖军承受着迦尔纳弓中射出的、如毒蛇般的箭矢,他在战斗中并未陷入痛苦。
7.131.42
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः ।
विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥ ७.१३१.४२ ॥
于是勇猛的怖军以三十二支锐利的薄刃箭射中了迦尔纳。
7.131.43
अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत् ।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥ ७.१३१.४३ ॥
迦尔纳不费吹灰之力,以箭密密地覆盖了那位臂力强大、欲杀信度王者的怖军。
7.131.44
मृदुपूर्वं तु राधेयो भीममाजावयोधयत् ।
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥ ७.१३१.४४ ॥
罗陀之子迦尔纳起初温和地在战场上与怖军交战;怖军也先怀着愤怒,想起旧日的仇恨。
7.131.45
तं भीमसेनो नामृष्यदवमानममर्षणः ।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा ॥ ७.१३१.४५ ॥
怖军不能忍受这种侮辱,那位斩杀敌人者立即向他倾泻了一场箭雨。
7.131.46
ते शराः प्रेषितास्तेन भीमसेनेन संयुगे ।
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः ॥ ७.१३१.४६ ॥
怖军在战斗中射出的那些箭,从四面八方落在那位英雄身上,如同鸣叫的飞鸟。
7.131.47
हेमपुङ्खा महावेगा भीमसेनधनुश्च्युताः ।
प्राच्छादयंस्ते राधेयं शलभा इव पावकम् ॥ ७.१३१.४७ ॥
那些金羽、疾速的箭从怖军的弓上射出,覆盖了罗陀之子迦尔纳,如同飞蛾覆盖火焰。
7.131.48
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।
राजन्व्यसृजदुग्राणि शरवर्षाणि भारत ॥ ७.१३१.४८ ॥
然而,车战勇士中的翘楚迦尔纳被四面覆盖,于是,国王啊,婆罗多啊,他射出了猛烈的箭雨。
7.131.49
तस्य तानशनिप्रख्यानिषून्समरशोभिनः ।
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥ ७.१३१.४९ ॥
狼腹(毗摩)以许多薄刃箭斩断了那些如雷电般、装点战场的箭矢,在它们抵达他之前。
7.131.50
पुनश्च शरवर्षेण च्छादयामास भारत ।
कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः ॥ ७.१३१.५० ॥
婆罗多啊,维迦尔坦之子迦尔纳又以箭雨遮蔽了在战中降伏敌人的毗摩娑那。
7.131.51
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।
समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ॥ ७.१३१.५१ ॥
婆罗多啊,我们在那里看见毗摩的身体在战中被箭所覆盖,如同豪猪被刺覆盖。
7.131.52
हेमपुङ्खाञ्छिलाधौतान्कर्णचापच्युताञ्छरान् ।
दधार समरे वीरः स्वरश्मीनिव रश्मिमान् ॥ ७.१३१.५२ ॥
那位英雄在战中承受着迦尔纳之弓射出的箭矢——金羽、石上磨砺——正如光芒的太阳承载着自己的光线。
7.131.53
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत ।
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत् ॥ ७.१३१.५३ ॥
毗摩娑那全身溅满鲜血,闪耀如春天里盛开满枝花簇的无忧树。
7.131.54
तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे ।
नामृष्यत महाबाहुः क्रोधादुद्वृत्तलोचनः ॥ ७.१३१.५४ ॥
然而大臂的毗摩无法忍受迦尔纳在战中的那种行为;他因愤怒而双目圆睁、转动不已。
7.131.55
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् ।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥ ७.१३१.५५ ॥
他以二十五支那罗遮箭射中迦尔纳,如同击打白色山峰,箭头隐藏且淬毒可怖。
7.131.56
पुनरेव च विव्याध षङ्भिरष्टाभिरेव च ।
मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम् ॥ ७.१३१.५६ ॥
勇猛如天神的他,又以六支和八支箭射中了随时准备舍身的御者之子的要害。
7.131.57
पुनरन्येन बाणेन भीमसेनः प्रतापवान् ।
चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव ॥ ७.१३१.५७ ॥
勇猛的婆罗摩之子怖军又以另一支箭迅速斩断了迦尔纳的弓,仿佛在笑。
7.131.58
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः ।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥ ७.१३१.५८ ॥
他迅速以箭射倒迦尔纳的四匹马和御者,并以如阳光般明亮的那罗遮箭射中迦尔纳的胸膛。
7.131.59
ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः ।
यथा जलधरं भित्त्वा दिवाकरमरीचयः ॥ ७.१३१.५९ ॥
穿透迦尔纳之后,那些带羽的箭迅速落到地上,如同阳光穿透云层。
7.131.60
स वैक्लव्यं महत्प्राप्य च्छिन्नधन्वा शराहतः ।
तथा पुरुषमानी स लज्जामुत्सृज्य भारत।
भीमसेनभयात्कर्णः प्रत्यपायाद्रथान्तरम् ॥ ७.१३१.६० ॥
迦尔纳陷入极大的慌乱,弓被斩断,身受箭伤。婆罗多,那自负勇气的人抛弃羞耻,因畏惧怖军而退到另一辆战车上。