摩诃婆罗多 · 章 7.133
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.133.1
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् ।
यत्कर्णं योधयामास समरे लघुविक्रमः ॥ ७.१३३.१ ॥
我认为毗摩森那的勇武极其非凡,他在战场上与迦尔纳交战,而迦尔纳的勇武迅捷。
7.133.2
त्रिदशानपि वा युक्तान्सर्वशस्त्रधरान्युधि ।
वारयेद्यो रणे कर्णः सयक्षासुरमानुषान् ॥ ७.१३३.२ ॥
迦尔纳能在战场上阻挡即使是执持一切武器的诸天神,连同夜叉、阿修罗与凡人。
7.133.3
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया ।
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ॥ ७.१३३.३ ॥
他怎会在战斗中无法超越那位闪耀着荣光的般度之子?亲爱的桑阁耶,请告诉我。
7.133.4
कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे ।
अत्र मन्ये समायत्तो जयो वाऽजय एव च ॥ ७.१३३.४ ॥
他们二人之间的战斗,又是如何因以性命为注的赌局而起的?我想,这里胜利与失败都取决于此。
7.133.5
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः ।
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥ ७.१३३.५ ॥
御者啊,我的儿子苏提那在战场上得到了迦尔纳,便渴望战胜般度之子,连同瞿比陀与萨特瓦塔人。
7.133.6
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा ।
भीमसेनेन समरे मोह आविशतीव माम् ॥ ७.१३३.६ ॥
听闻迦尔纳在战场上屡次被行事可怖的毗摩森那击败,迷惑之情仿佛攫住了我。
7.133.7
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः ।
नहि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय ॥ ७.१३३.७ ॥
我认为,由于我儿子的恶劣策略,俱卢族已经毁灭。桑阁耶啊,迦尔纳不能战胜那些伟大的弓箭手,即普利塔之子们。
7.133.8
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह ।
सर्वत्र पाण्डवाः कर्णमजयंस्ते रणाजिरे ॥ ७.१३३.८ ॥
迦尔纳与般度之子所进行的所有战斗中,般度族在各处战场上都击败了迦尔纳。
7.133.9
अजेयाः पाण्डवास्तात देवैरपि सवासवैः ।
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥ ७.१३३.९ ॥
亲爱的,即使是诸神与因陀罗(婆娑婆)联手,也无法战胜般度族;可是我愚蠢的儿子难敌却不明白这一点。
7.133.10
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः ।
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥ ७.१३३.१० ॥
如同盗取财神财富的人,或贪求蜂蜜的愚人,我的儿子夺取了般度之子(阿周那)的财富,却不察觉悬崖的深渊。
7.133.11
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् ।
जितमित्येव मन्वानः पाण्डवानवमन्यते ॥ ७.१३३.११ ॥
善于欺诈的他夺取了诸大德者的王国,以为“我已获胜”,因而轻视般度族。
7.133.12
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना ।
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥ ७.१३३.१२ ॥
我被对儿子的爱所征服,心志未能自制,也曾欺负那些坚守法道的大德般度之子。
7.133.13
शमकामः ससोदर्यो दीर्घप्रेक्षी युधिष्ठिरः ।
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः ॥ ७.१३३.१३ ॥
渴望和平、与兄弟同在、目光长远的坚战,被我的儿子们以为软弱而拒绝了。
7.133.14
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः ।
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥ ७.१३३.१४ ॥
将那些无数的痛苦与种种侮辱藏在心中,大臂的怖军与御者之子交战。
7.133.15
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे ।
अयुध्येतां युधांश्रेष्ठौ परस्परवधैषिणौ ॥ ७.१३३.१५ ॥
因此,述职者啊,请告诉我迦尔纳与怖军在战场上如何交战,那两位最优秀的战士彼此都欲置对方于死地。
7.133.16
शृणु राजन्यथावृत्तं सङ्ग्रामं कर्णभीमयोः ।
परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव ॥ ७.१३३.१६ ॥
大王请听,迦尔纳与怖军的战斗如实发生了:那二人彼此欲杀,宛如两头林中的野象。
7.133.17
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिन्दमम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥ ७.१३३.१७ ॥
大王,毗迦尔唐之子迦尔纳满怀愤怒,勇猛地攻击同样愤怒的怖军——那制伏敌人者,并以三十支箭射穿了他。
7.133.18
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः ।
नातरद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥ ७.१३३.१८ ॥
婆罗多族之最,以迅猛有力、锋尖闪亮、饰以黄金的箭,毗迦尔唐之子没有让怖军越过他。
7.133.19
तस्यास्यतो धनुर्भीमश्चकर्त विशिखैस्त्रिभिः ।
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥ ७.१३३.१९ ॥
他正要张弓之时,怖军以三支箭射断了他的弓,又以一支婆罗箭把御者从车座上射落于地。
7.133.20
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो भृशम् ।
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत् ॥ ७.१३३.२० ॥
卡尔纳极度渴望杀死怖军,于是握住那支杆身以金与猫眼石装饰的长矛。
7.133.21
प्रगृह्य च महाशक्तिं कालरात्रिमिवापराम् ।
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः।
चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥ ७.१३३.२१ ॥
这位大力的罗陀之子握起那支巨矛,宛如另一位死亡之夜,高举、瞄准,向怖军掷出那夺命之矛。
7.133.22
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम् ।
ननाद सुमहानादं बलवान्सूतनन्दनः ॥ ७.१३३.२२ ॥
放出长矛之后,如同因陀罗掷出雷霆,这位强大的御者之子、罗陀之子发出巨大的吼声。
7.133.23
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन् ॥ ७.१३३.२३ ॥
听到那吼声,你的儿子们都欢喜起来。
7.133.24
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ॥ ७.१३३.२४ ॥
怖军以七支疾箭在空中将长矛斩断。
7.133.25
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम् ।
मार्गमाणामिव प्राणान्सूतपुत्रस्य मारिष ॥ ७.१३३.२५ ॥
于是毗摩以斩断那犹如刚被释放之蛇的标枪,仿佛在寻求御者之子的生命之气,尊者啊。
7.133.26
प्राहिणोत्कृतसंरम्भः शरान्बर्हिणवाससः ।
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥ ७.१३३.२६ ॥
他充满愤怒,在战场上射出以孔雀羽为尾、金制箭镞、石上磨砺、如同阎摩之杖的箭矢。
7.133.27
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् ।
विकृष्य तन्महच्चापं व्यसृजत्सायकांस्तदा ॥ ७.१३३.२७ ॥
迦尔纳也取过另一张金背、难以接近的弓,拉开那张大弓,然后射出箭矢。
7.133.28
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः ।
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान्।
छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥ ७.१३३.२८ ॥
般度之子以九支弯节之箭斩断了它们。哦,国王,他又斩断了婆率犀那所射的九支大箭,大王啊,毗摩如狮子般吼叫。
7.133.29
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम् ॥ ७.१३३.२९ ॥
二人如同在母牛面前咆哮的强壮公牛,又如为争肉而相吼的老虎,彼此怒吼。
7.133.30
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ ।
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥ ७.१३३.३० ॥
二人各欲击倒对方,各寻对方的破绽,彼此凝视,如同牛栏中的两头巨牛。
7.133.31
महागजाविवसाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ७.१३३.३१ ॥
如同两头大象相逼,以象牙尖互相抵触,他们也以从满张之弓射出的箭互相攻击。
7.133.32
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम् ।
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥ ७.१३३.३२ ॥
大王啊,二人以兵器如雨互相焚烧,彼此怒目相视,双目圆睁。
7.133.33
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः ।
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥ ७.१३३.३३ ॥
彼此嘲笑,反复辱骂,吹响海螺,二人互相交战。
7.133.34
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष ।
शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम्।
सारथिं च तथाप्यस्य रथनीडादपातयत् ॥ ७.१३३.३४ ॥
高贵者啊,婆罗摩再次在握把处斩断他的弓,以箭将那些贝色的马送往阎摩之地,又将其御者从车座上打落。
7.133.35
ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम् ।
स च्छाद्यमानः समरे हताश्वो हतसारथिः।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ ७.१३३.३५ ॥
于是毗迦尔摩之子迦尔纳陷入难以排解的忧虑。他在战斗中被箭网覆盖,马与御者皆已被杀,他迷惑不知所措。
7.133.36
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः ।
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥ ७.१३३.३६ ॥
杜尤陀那王见迦尔纳陷于如此困境,仿佛因愤怒而颤抖,于是向那支难以战胜的军队下令。
7.133.37
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः ।
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ॥ ७.१३३.३७ ॥
去吧,不可战胜者!趁般度之子吞没罗陀之子迦尔纳之前,迅速击杀那个阻挡迦尔纳军力的人。
7.133.38
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः ।
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरैः ॥ ७.१३३.३८ ॥
听罢此言,说道“就这样吧”,你的儿子,你自己的孩子,便冲向正在激战、倾洒箭矢的怖军。
7.133.39
स भीमं नवभिर्बाणैरश्वानष्टभिरार्दयत् ।
षङ्भिः सूतं त्रिभिः केतं पुनस्तं चापि सप्तभिः ॥ ७.१३३.३९ ॥
他以九箭射怖军,以八箭射马,以六箭射御者,以三箭射旗,又以七箭再射怖军。
7.133.40
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः ।
दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥ ७.१३३.४० ॥
怖军也极为愤怒,以疾速之箭,将那位不可战胜、要害被刺穿的敌人,连同其马匹与御者,送往阎摩之所。
7.133.41
बाढं हतं क्षितौ क्षुण्णं वेष्टमानं यथोरगम् ।
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥ ७.१३३.४१ ॥
迦尔纳见你的儿子倒卧在地,被碾碎,像蛇一样扭动,便悲痛地哭泣着绕行致敬。
7.133.42
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् ।
समाचिनोद्बाणगणैः शतघ्नीभिश्च शङ्कुभिः ॥ ७.१३३.४२ ॥
他使那位极大的敌人失去战车,微笑着用成群的箭、铁杵与尖矛将他覆盖。
7.133.43
तथाप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः ।
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥ ७.१३३.४३ ॥
然而大车士迦尔纳虽被其箭所射,仍不在战场上舍弃形如愤怒的怖军;他是焚烧敌人者。