摩诃婆罗多 · 章 7.135
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.135.1
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायत्तौ नातरत्पाण्डवं रणे ॥ ७.१३५.१ ॥
我认为天命至高;人的努力徒劳无益,真可耻。阿迪罗陀之子虽受其支配,在战场上却未能胜过般度之子。
7.135.2
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे ।
न च कर्णसमं लोके पश्यामि कञ्चन।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥ ७.१३५.२ ॥
迦尔纳渴望在战场上与戈文达同在的般度之子们作战并取胜;我在世上看不到任何人能与迦尔纳相比。我屡次听到难敌这样说。
7.135.3
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः ।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥ ७.१३५.३ ॥
迦尔纳确实强大、英勇,持弓坚定,能克服疲劳。御者啊,愚蠢的难敌先前曾这样对我说。
7.135.4
वसुषेणसहायं मां नालं देवाऽपि संयुगे ।
किं नु पाण्डुसुता राजन्गतसत्वा विचेतसः ॥ ७.१३५.४ ॥
有婆苏舍那为助,即便诸天在战场上也无法胜过我。大王啊,般度之子为何丧失勇气、心神迷乱?
7.135.5
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् ।
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत् ॥ ७.१३५.५ ॥
难敌见迦尔纳在彼处战败,如同无毒之蛇般退出战斗,便说了什么?
7.135.6
अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ॥ ७.१३५.६ ॥
唉!这个言语粗鲁、不善战阵的愚人,因迷惑而把迦尔纳送上前去,如同把飞蛾投入火中。
7.135.7
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः ।
न शक्त्याः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ॥ ७.१३५.७ ॥
阿湿婆摩、摩德罗王、克里帕与迦尔纳即使联合,也必定无法抵挡怖军,桑闍耶啊。
7.135.8
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥ ७.१३५.८ ॥
他们也知道他那如万头象般的可怕力量,以及风神之子的残酷决心与威势,
7.135.9
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् ।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥ ७.१३५.९ ॥
既知其力量、愤怒与勇武,他们为何要在战场上激怒这位行事残酷、如阎摩、时间与死神般的人?
7.135.10
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम् ।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥ ७.१३५.१० ॥
御者之子、大臂的迦尔纳独自一人,倚仗自己臂力而骄傲,无视怖军,在战场上奋战。
7.135.11
योऽजयत्समरे कर्णं पुरन्दर इवासुरम् ।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥ ७.१३५.११ ॥
在战场上击败迦尔纳的那位般度之子,犹如因陀罗战胜阿修罗,无人能在战场上战胜他。
7.135.12
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषु ॥ ७.१३५.१२ ॥
怖军击溃德罗纳,独自闯入我军,寻找阿周那——谁想活命,敢去迎战他?
7.135.13
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः ।
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः ॥ ७.१३५.१३ ॥
桑贾耶啊,谁敢站在毗摩面前?正如达婆在手持高举霹雳的大因陀罗面前无法站立。
7.135.14
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः ।
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ॥ ७.१३५.१४ ॥
人即使到达死王的城市也可能返回,但遇见毗摩森那的人,从来不会回来。
7.135.15
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः ।
ये भीमसेनं सङ्क्रुद्धमन्वधावन्विमोहिताः ॥ ७.१३५.१५ ॥
那些心智愚弱、被迷惑的人追随愤怒的毗摩森那,如飞蛾投入火中。
7.135.16
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥ ७.१३५.१६ ॥
毗摩在集会上因愤怒所说的关于杀害我子的那番话,当时众俱卢正在聆听。
7.135.17
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥ ७.१३५.१७ ॥
他必定已经思量过,又见迦尔纳被击败,于是难降与其兄因畏惧毗摩而退却。
7.135.18
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥ ७.१३५.१८ ॥
桑贾耶啊,那恶意之人在集会上反复说:迦尔纳、难降和我将在战场上战胜般度子孙。
7.135.19
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् ।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः ॥ ७.१३५.१९ ॥
我的儿子见到迦尔纳失去战车、被婆罗奢于战场击败,又因黑天的拒绝,必定深感悲痛。
7.135.20
दृष्ट्वा भ्रातॄन्हतान्सङ्ख्ये भीमसेनेन दंशितान् ।
आत्मापराधात्सम्मूढो नूनं तप्यति पुत्रकः ॥ ७.१३५.२० ॥
我的儿子见到他那些披甲的兄弟在战场上被婆罗奢那所杀,因自身过错而迷惑,必定悲痛。
7.135.21
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥ ७.१३५.२१ ॥
谁愿意保全性命,会走向敌方般度之子?那持可怖武器、愤怒而立的婆罗奢,宛如死神本尊。
7.135.22
बडबामुखमध्यस्थो मुच्येतापि हि मानवः ।
न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम ॥ ७.१३५.२२ ॥
陷入巴达婆火之口的人或许还能脱身,但落入婆罗奢之口的人则无法逃脱,这是我的看法。
7.135.23
न पार्था न च पञ्चाला न च केशवसात्यकी ।
जानते युधि संरब्धा जीवितं परिरक्षितुम् ॥ ७.१३५.२३ ॥
在战场上一旦愤怒,无论是般度之子、般遮罗人,还是克舍婆与萨谛亚基,都不知如何保全自己的性命。
7.135.24
अहो मम सुतानां हि विपन्नं सूत जीवितम् ॥ ७.१३५.२४ ॥
唉!御者啊,我儿子们的性命确已毁灭。
7.135.25
यस्त्वं शोचसि कौरव्य वर्तमाने महाभये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥ ७.१३५.२५ ॥
俱卢后裔啊!当这大险正在发生之时,你却在悲叹。你正是这世界毁灭的根源,此事毫无疑问。
7.135.26
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः ।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥ ७.१३५.२६ ॥
你自己造成了大仇怨,又固执于诸子之言,别人劝告你也不接受,就像凡人不肯服用良药。
7.135.27
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥ ७.१३५.२७ ॥
大王啊!你自己饮下了难以消化的迦罗迦吒毒,现在就承受它全部的果报吧,人中之最。
7.135.28
यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान् ।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत ॥ ७.१३५.२८ ॥
至于你责备那些正在作战的大力勇士,我将为你讲述那里的战事是如何进行的。
7.135.29
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत ॥ ७.१३५.२९ ॥
婆罗多的后裔啊!看到迦尔纳被怖军击败,你的五位同母的大弓箭手之子无法忍受。
7.135.30
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् ॥ ७.१३५.३० ॥
Durmarṣaṇa、Duḥsaha、Durmada、Durdhara 与 Jaya 身披华丽的铠甲,逆着向般度之子冲去。
7.135.31
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥ ७.१३५.३१ ॥
他们从四面包围了大臂者狼腹(Vṛkodara),用箭矢遮蔽四方,如同蝗虫群一般。
7.135.32
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥ ७.१३५.३२ ॥
毗摩娑那看到那些形貌如神的王子突然逼近,便在战场上迎战他们,仿佛在含笑一般。
7.135.33
तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान् ।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥ ७.१३५.३३ ॥
看到你的儿子们在杜尔马尔沙那的率领下前进,罗陀之子迦尔纳便向大力的毗摩娑那冲去。
7.135.34
विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खांञ्छिलाशितान् ।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥ ७.१३५.३४ ॥
迦尔纳射出镶有金羽、在石上磨砺的锐利箭矢,而毗摩虽被你的儿子们阻拦,仍迅速冲向他。
7.135.35
कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः ॥ ७.१३५.३५ ॥
于是众俱卢围住迦尔纳四面,用弯曲节羽的箭矢如雨般射向毗摩娑那。
7.135.36
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥ ७.१३५.३६ ॥
大王啊,毗摩以他可怖的弓射出二十五支箭,把那些人中雄牛连同他们的马匹和御者送往阎摩之所。
7.135.37
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥ ७.१३५.३७ ॥
他们失去生命,与御者一同从战车上坠落,好似被风折断的、开着彩花的大树。
7.135.38
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥ ७.१३५.३८ ॥
我们在那里亲眼看见了毗摩森那的非凡勇武:他以箭阻住阿提罗陀之子(迦尔纳),并杀死了你的儿子们。
7.135.39
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥ ७.१३५.३९ ॥
大王啊,被毗摩以利箭四面阻挡的御者之子(迦尔纳)望向了毗摩森那。
7.135.40
तं भीससेनः संरम्भात्क्रोधसंरक्तलोचनः ।
विष्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥ ७.१३५.४० ॥
毗摩森那双眼因愤怒而通红,怒气冲冲地拉开他那张大弓,一次又一次地望向迦尔纳。