摩诃婆罗多 · 章 7.136
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.136.1
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् ।
क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत्स जीवितो ॥ ७.१३६.१ ॥
看到你的儿子们倒下,勇猛的迦尔纳被巨大的愤怒所笼罩,他对生命感到厌倦。
7.136.2
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा ।
यत्प्रत्यक्षं तव सुता भीमेन निहता रणे ॥ ७.१३६.२ ॥
那时,阿提拉陀之子迦尔纳觉得自己仿佛有罪,因为你的儿子们在他眼前被比玛在战场上杀死了。
7.136.3
भीमसेनस्ततः क्रुद्धः कर्णस्य निशिताञ्शरान् ।
निचखान् स सम्भ्रान्तः पूर्ववैरमनुस्मरन् ॥ ७.१३६.३ ॥
于是比玛森愤怒而激动,想起旧日的仇怨,向迦尔纳射去锋利的箭。
7.136.4
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव ।
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ ७.१३६.४ ॥
罗陀之子迦尔纳以五支箭射中比玛,然后仿佛在嘲笑,又以七十支在石上磨利、饰有金羽的箭再次射中他。
7.136.5
अविचिन्त्याथ तान्बाणान्कर्णेनास्तान्वृकोदरः ।
रणे विव्याध राधेयं शरेणानतपर्वणा ॥ ७.१३६.५ ॥
比玛不理会迦尔纳射来的那些箭,在战场上以一支箭杆弯折的箭射中了罗陀之子迦尔纳。
7.136.6
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा मर्मसु पञ्चभिः ।
धनुश्चिच्छेद भल्लेन सूत पुत्रस्य मारिष ॥ ७.१३६.६ ॥
他又以五支锋利的箭射中迦尔纳的要害,并用一支新月箭斩断了御者之子的弓,啊,尊者。
7.136.7
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः ।
इषुभिश्छादयामास मीमसेनं परन्तपः ॥ ७.१३६.७ ॥
婆罗多的后裔啊,于是心情沮丧的迦尔纳拿起另一把弓,用箭遮蔽了毗摩先那,这位焚敌者。
7.136.8
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् ।
प्रजहास महाहासं कृतप्रतिकृतं महत् ॥ ७.१३६.८ ॥
毗摩杀死了他的马,又杀死了他的御者,于是大笑起来,因为所作之事得到了巨大的报应。
7.136.9
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः ।
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥ ७.१३६.९ ॥
那位人中雄牛用箭斩断了他的弓;大王啊,那把金背之弓轰然坠地。
7.136.10
अवारोहद्रथात्तस्मादथ कर्णो महारथः ।
गदां गृहीत्वा समरे भीमाय प्राहिणोद्रुषा ॥ ७.१३६.१० ॥
于是大战车武士迦尔纳从那辆战车上下来,在战斗中拿起一柄金刚杵,怒气冲冲地向毗摩投去。
7.136.11
तामापतन्तीमालक्ष्य भीमसेनो महागदाम् ।
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥ ७.१३६.११ ॥
大王啊,毗摩先那看到那柄大杵飞来,便在全军注视之下,用箭将其挡开。
7.136.12
ततो बाणसहस्राणि प्रेषयामास पाण्डवः ।
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥ ७.१३६.१२ ॥
于是般度之子渴望杀死御者之子,急速而勇猛地射出了数千支箭。
7.136.13
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे ।
कवचं भीमसेनस्य पाटयामास सायकैः ॥ ७.१३६.१३ ॥
在大战中,迦尔纳以自己的箭挡住那些箭,用箭射穿了怖军的铠甲。
7.136.14
अथैनं पञ्चविंशत्या नाराचानां समार्पयत् ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ ७.१३६.१४ ॥
随后他以二十五支铁箭射中了他,众军观看,此事仿佛奇迹一般。
7.136.15
ततो भीमो महाबाहुर्नवभिर्नतपर्वभिः ।
प्रेषयामास सङ्क्रुद्धः सूतपुत्रस्य मारिष ॥ ७.१३६.१५ ॥
于是臂力强大的怖军愤怒地向御者之子射出九支弯节之箭,主公啊。
7.136.16
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् ।
अभ्ययुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥ ७.१३६.१६ ॥
那些锐利的箭穿透了他的铠甲和右臂,像蛇钻进蚁穴一样没入大地。
7.136.17
स च्छाद्यमानो बाणौधैर्भीमसेनधनुश्च्युतैः ।
पुनरेवाभवत्कर्णो भीमसेनात्पराङ्मुखः ॥ ७.१३६.१७ ॥
被怖军弓中射出的箭雨所覆盖,迦尔纳再次背向怖军而去。
7.136.18
तं पराङ्मुखमालोक्य पदातिं सूतनन्दनम् ।
कौन्तेयशरसञ्छन्नं राजा दुर्योधनोऽब्रवीत् ॥ ७.१३६.१८ ॥
见他转身徒步而立,被贡蒂之子的箭所覆盖,国王难敌对御者之子说道。
7.136.19
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ।
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् ॥ ७.१३६.१९ ॥
请从四面八方做好准备,赶往罗陀之子的战车。于是,大王,你的儿子们听到兄长的话,立即(照做了)。
7.136.20
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिलीमुखान् ।
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ॥ ७.१३६.२० ॥
他们在战斗中射出箭矢,向般度之子冲去——持弓的有奇特罗、奥帕奇特罗、奇特克沙和美丽的奇特罗。
7.136.21
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ।
तानापतत एवाशु भीमसेनो महारथः ॥ ७.१३६.२१ ॥
奇特武器与奇特甲,是战场上奇妙的勇士;当他们扑向他时,大车将毗摩森纳立即(迎战了他们)。
7.136.22
एकैकेन शरेणाजौ पातयामास ते सुतान् ।
ते हता न्यपतन्भूमौ वातरूग्णा इव द्रुमाः ॥ ७.१३६.२२ ॥
战斗中,他一箭一个,将那些儿子射倒。他们被杀后倒在地上,如同被风吹折的树木。
7.136.23
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् ।
अश्रुपूर्णमुखः कर्णः क्षत्तुः सस्मार तद्वचः ॥ ७.१३६.२३ ॥
大王,看到你那些大车将之子被杀,满面泪水的迦尔纳想起了刹多(维杜罗)的那些话。
7.136.24
रथं चान्यं समास्थाय विधिवत्कल्पितं पुनः ।
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥ ७.१३६.२४ ॥
他登上另一辆依制重新备妥的战车,勇猛的(迦尔纳)急速奔向战场,去迎战般度之子。
7.136.25
तावन्योन्यं शरैर्भित्त्वा स्वर्णपुङ्खैः शिलाशितैः ।
व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः ॥ ७.१३६.२५ ॥
二人以金羽、石上磨利的箭相互射穿,光辉耀眼,宛如被日光缝合的两朵云。
7.136.26
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः ।
व्यधमत्कवनं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥ ७.१३६.२६ ॥
于是愤怒的般度之子以三十六支锐利的宽刃箭击碎了御者之子的铠甲。
7.136.27
सूतपुत्रोऽपि कौन्तेयं शरैः सन्नतपर्वभिः ।
पञ्चाशता महाबाहुर्विव्याध भरतर्षभ ॥ ७.१३६.२७ ॥
御者之子也以五十支带弯节的箭射中了大臂的昆提之子,婆罗多之牛啊。
7.136.28
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ ।
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥ ७.१३६.२८ ॥
身上涂抹着红檀,被箭造成重伤,浑身沾满鲜血,二人如同升起的劫末太阳般闪耀。
7.136.29
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ ।
विवृताङ्गौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥ ७.१३६.२९ ॥
身体溅满鲜血,铠甲被箭割裂,肢体裸露,二人如同蜕去旧皮的两条蛇般闪耀。
7.136.30
क्रोधाग्नितेजसा दिप्तौ संरम्भाद्रक्तलोचनौ ।
व्यभ्राजेतां महाराज विधूमाविव पावकौ ॥ ७.१३६.३० ॥
二人因愤怒之火的光辉而燃烧,因激怒而双目赤红,大王啊,如同两团无烟之火般闪耀。
7.136.31
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् ।
शरधारासृजौ वीरौ मेघाविव ववर्षतुः ॥ ७.१३६.३१ ॥
这两位人中之虎,如老虎般以獠牙相互扑击;两位英雄如同两朵乌云,倾泻下箭的急雨。
7.136.32
वारणाविव चान्योन्यं विषाणाभ्यामरिन्दमौ ।
निर्भिन्दन्तौ स्वगात्राणि सायकैश्चारु रेजतुः ॥ ७.१३६.३२ ॥
这两位制服敌人的英雄,如象一般以象牙相互撞击,以箭穿透彼此的身体,光彩夺目。
7.136.33
नादयन्तौ प्रहर्षन्तौ विक्रीडन्तौ परस्परम् ।
मण्डलानि विकुर्वाणौ रथाभ्यां रथिषूत्तमौ ॥ ७.१३६.३३ ॥
二人咆哮着,欢欣鼓舞,彼此如戏耍般,在战车上回旋盘绕,是车战勇士中的最上者。
7.136.34
वृषाविवाथ नर्दन्तौ बलिनौ वासितान्तरे ।
सिंहाविव पराक्रान्तौ नरसिंहौ महाबलौ ॥ ७.१३६.३४ ॥
此时两位强者如公牛在发情母牛身旁般咆哮,勇猛如狮,是人中之狮,大力无比。
7.136.35
परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ ।
युयुधाते महावीर्यौ शक्रवैरोचनी यथा ॥ ७.१३६.३५ ॥
二人以因愤怒而通红的双眼相互凝视,两位大勇之人如因陀罗与毗卢遮那一般交战。
7.136.36
ततो भीमो महाबाहुर्बाहुभ्यां विक्षिपन्धनुः ।
व्यराजत रणे राजन्सविद्युदिव तोयदः ॥ ७.१३६.३६ ॥
此时大臂的怖军双臂挥动弓弦,在战场上闪耀,大王啊,如同带着闪电的雨云。
7.136.37
सनेमिघोषस्तनितश्चापविद्युच्छराम्बुभिः ।
भीमसेनमहामेघः कर्णपर्वतमावृणोत् ॥ ७.१३६.३७ ॥
车轮的雷鸣般轰响,弓的闪电,箭的暴雨,大云般的毗摩森那覆盖了迦尔纳这座山。
7.136.38
ततः शरसहस्रेण सम्यगस्तेन भारत ।
पाण्डवो व्यकिरत्कर्णं भीमो भीमपराक्रमः ॥ ७.१३६.३८ ॥
婆罗多啊,于是勇猛可畏的般度之子毗摩以千支精准的兵器覆盖了迦尔纳。
7.136.39
तत्रापश्यंस्तव सुता भीमसेनस्य विक्रमम् ।
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयञ्शरैः ॥ ७.१३६.३९ ॥
在那里,你的儿子们看见了毗摩森那的勇力,他以饰有白鹭羽毛的精美箭矢覆盖迦尔纳。
7.136.40
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् ।
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥ ७.१३६.४० ॥
在战斗中,毗摩使阿周那、光荣的克沙婆、萨提奇以及两位车轮守护者欢喜,并与迦尔纳交战。
7.136.41
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः ।
पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन् ॥ ७.१३६.४१ ॥
大王啊,看见自知者毗摩的臂力、勇武与坚毅,你的儿子们都意志沮丧了。