摩诃婆罗多 · 章 7.138
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.138.1
महानपनयः सूत ममैवात्र विशेषतः ।
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ॥ ७.१३८.१ ॥
御者桑遮耶啊,我认为这场大灾难特别落在了我身上,如今它正降临到悲痛的我身上。
7.138.2
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।
इदानीमत्र किं कार्य प्रकरिष्यामि सञ्जय ॥ ७.१३८.२ ॥
往事已矣,这一想法在我心中根深蒂固。桑遮耶啊,如今我在此该做什么呢?
7.138.3
यथा ह्येष क्षयो वृत्तो ममापनयसंभवः ।
वीराणां तन्ममाचश्व स्थिरीभूतोऽस्मि सञ्जय ॥ ७.१३८.३ ॥
请告诉我,这场因我的灾祸而生的英雄们的毁灭是如何发生的;桑遮耶啊,我现在已经坚定了。
7.138.4
कर्णाभीमौ महाराज पराक्रान्तौ महाबलौ ।
वाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ ॥ ७.१३८.४ ॥
大王,勇猛强大的迦尔纳与毗摩如两朵降雨的云,倾泻出箭雨。
7.138.5
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।
विविशुः कर्णमासाद्य च्छिन्दन्त इव जीवितम् । ॥ ७.१३८.५ ॥
刻有毗摩之名、金色羽翎、在石上磨利的箭,抵达迦尔纳并射入其身,仿佛要斩断他的性命。
7.138.6
तथैव कर्णनिर्मुक्ताः शरा बर्हिणवाससः ।
छादयांचक्रिरे वीरं शतशोऽथ सहस्रशः ॥ ७.१३८.६ ॥
同样,迦尔纳射出的孔雀羽箭,成百上千地覆盖了那位英雄。
7.138.7
तयोः शरैर्महाराज संपतद्भिः समन्ततः ।
बभूव तत्र सैन्यानां संक्षोभः सागरोत्तरः ॥ ७.१३८.७ ॥
大王啊,两人的箭矢四面纷纷落下,两军之中顿时掀起如大海越过堤岸般的骚动。
7.138.8
भीमचापच्युतैर्वाणैस्तव सैन्यमरिंदम् ।
अवध्यत चमूमध्ये घोररुशीविषोषमैः ॥ ७.१३८.८ ॥
降伏敌人者啊,你的大军在阵中被从可怖之弓射出的箭矢所射杀,那箭如同烈焰毒火。
7.138.9
वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।
अदृश्यत मही कीर्णा वातभग्नैरिव द्रुमैः । ॥ ७.१३८.९ ॥
大王啊,倒地的象、马和人遍布大地,宛如被狂风折断的树木散落一地。
7.138.10
ते वध्यमानाः समरे भीमचापच्युतैः शरैः ।
ते शूरा हतभूयिष्ठा हताश्चरथवारणाः । ॥ ७.१३८.१० ॥
那些在战场上被可怖之弓所射之箭杀伤的勇士,大多已经阵亡;战车武士和象群也全部被杀。
7.138.11
उत्सृज्य भीमकर्णै च सर्वतो व्यद्रवन्दिशः ।
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः । ॥ ७.१३८.११ ॥
他们舍弃了毗摩和迦尔纳,向四面八方逃散。想必天上的神灵是为了普利塔之子的利益而迷惑我们。
7.138.12
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ।
एवं ब्रवाणा योधास्ते तावका भयपीडिताः । ॥ ७.१३८.१२ ॥
你的战士们被恐惧折磨,一面说道:“我军正被迦尔纳与毗摩射出的箭杀伤。”如此议论着。
7.138.13
शारपातं समुत्सृज्य स्थिता युध्ददिदृक्षवः ।
ततः ग्रावर्तत नदी घोररुपा रणाजिरे । ॥ ७.१३८.१३ ॥
他们停止射箭雨,站立着想要观看战斗。于是战场上流出一条可怖之形的河流。
7.138.14
शूराणां हर्पजननी भीरुणां भयवर्धिनी ।
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा । ॥ ७.१३८.१४ ॥
它使勇士欢喜,使怯懦者恐惧增长,由象、马和人的血流而生。
7.138.15
संवृता गतसत्वैश्च मनुष्यगजवाजिभिः ।
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः । ॥ ७.१३८.१५ ॥
它被失去生命的人、象和马所覆盖,还有轭、旗帜以及象、马、车的饰物。
7.138.16
स्यन्दनैरपविध्दैश्च भग्नचक्राक्षकूवरैः ।
जातरुपरिष्कारैर्धनुर्भिः सुमहास्वनैः । ॥ ७.१३८.१६ ॥
其中散落着被弃的战车,车轮、车轴、车辕皆已断毁,还有饰以黄金、发出巨响的弓。
7.138.17
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ।
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः । ॥ ७.१३८.१७ ॥
成千上万支金羽箭与铁制箭,由迦尔纳和般度五子射出,躺卧其间,如蛇蜕下的皮。
7.138.18
प्रासतोमरसंघातैः खङ्गैश्च सपरश्वथैः ।
सुवर्णविकृतैश्चापि गदामुसलपट्टसैः । ॥ ७.१३८.१८ ॥
其中堆满了枪与投矛,有刀剑与战斧,有以金打造的铁锤、棍棒与短刀。
7.138.19
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ।
शतघ्निभिश्च चित्राभिर्वभौ भारतमेदिनी । ॥ ७.१३८.१९ ॥
以金刚杵、各种形状的长矛、铁棒与斑斓的百杀器,婆罗多大地闪耀光芒。
7.138.20
कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा ।
वलयैरपविध्दैश्च तत्रैवाङ्गुलिवेष्टकैः । ॥ ७.१३८.२० ॥
金臂钏与项链、耳环与冠冕,以及散落在那里的手镯与指环。
7.138.22
चूडामणिभिरुष्णीषैः खर्णसूत्रैश्च मारिष ॥ ७.१३८.२२ ॥
以冠顶宝珠、头巾与金线,啊,尊者。
7.138.23
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ।
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ॥ ७.१३८.२३ ॥
以铠甲、盾牌、项链与金币,啊婆罗多;还有衣物、破损的伞盖与牦牛尾拂扇。
7.138.24
गजाश्चमनुजैर्भिन्नैः शोणिताक्तैश्च पत्रिभिः ।
तैश्तैश्च विविधैर्भिन्नैस्तत्रतत्र वसुन्धरा ॥ ७.१३८.२४ ॥
象群与人身,被撕裂并沾满鲜血,还有马匹;各种碎裂之物散落各处,大地到处被覆盖。
7.138.25
परतितैरपविध्दैश्च विबभौ द्यौरिव ग्रहैः ।
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ॥ ७.१३८.२५ ॥
大地因倒落与抛弃之物而闪耀,犹如天空因星辰而明亮。那二人的功业不可思议、奇妙绝伦、超越人间。
7.138.26
दृष्ट्वा चारणसिध्दानां विस्मयः समजायत ।
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ॥ ७.१३८.२६ ॥
仙众与成就者见此皆感惊异,其行进如同风助之火在战中掠过干草。
7.138.27
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।
निपातितध्वजरथं हतवाजिनरद्विपम् ॥ ७.१३८.२७ ॥
以毗摩为助手者,其行动甚为猛烈;阿提罗陀之子(迦尔纳)亦然。其战车与旗帜被击落,马匹、人与象皆被杀。
7.138.28
गजाभ्यां संप्रयुक्ताभ्यामासीन्नलवनं यथा ।
तथारुपं महत्सैन्यमासीत्तव नराधिप ॥ ७.१३८.२८ ॥
如两象相合践踏芦苇丛林,人主啊,你的大军也就成了那样的景象。
7.138.29
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥ ७.१३८.२९ ॥
战中迦尔纳与毗摩之间发生了极为惨烈的厮杀。