摩诃婆罗多 · 章 7.144
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.144.1
अजितो द्रोणराधेयविकर्णकृतवर्मभिः ।
यश्चैवोत्सहते वेतुं समस्तं मामकं बलम।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥ ७.१४४.१ ॥
德罗纳、罗陀之子(迦尔纳)、毗迦尔纳与克利塔瓦尔曼都无法战胜他,他能够穿越我全部的军队——这位英雄向坚战许下诺言后,渡过了军队的海洋。
7.144.2
स कथं कौरवेयेण समरेष्वनिवारितः ।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥ ७.१४४.२ ॥
在战场上无人能阻挡的他,怎么会被俱卢族的后裔婆利首罗婆以力量抓住,并摔倒在地上?
7.144.3
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।
यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥ ७.१४४.३ ॥
大王,请听我讲述从前赏尼耶(萨提亚基)的起源,以及婆利首罗婆的起源——你对此心存疑惑,君主啊。
7.144.4
ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः ।
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ॥ ७.१४४.४ ॥
梵天生出一位以意念所生的儿子,大苦行者阿特利。阿特利之子为月神苏摩,苏摩之子被称为布陀。
7.144.5
बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः ।
पुरूरवस आयुस्तु आयुषो नहुषः सुतः ॥ ७.१४४.५ ॥
布陀之子是臂膀强大的阿伊罗,名为普鲁罗婆娑。普鲁罗婆娑之子是阿育,阿育之子是那呼沙。
7.144.6
नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः ।
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ॥ ७.१४४.६ ॥
国王耶耶提为诸神与仙人所尊崇,是那呼沙之子。耶耶提与提婆陀尼生下长子,名为耶杜。
7.144.7
यदोरभूदन्ववाये आजमीढ इति स्मृतः ।
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः ॥ ७.१४४.७ ॥
在演度的世系中,有一位被称为阿嘉弥荼的人;他的儿子是耶陀婆,耶陀婆之子是舜罗,在三界中受人尊崇。
7.144.8
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।
तद्वार्यश्चापि तत्रैव कुले शिनिरभून्नृप ॥ ७.१४४.८ ॥
舜罗之子是舍里,即婆苏提婆,人中之最,大名声;箭术无双,战中勇武堪比迦尔塔维利耶。大王,同一家族中又生出多瓦利耶与希尼。
7.144.9
एतस्मिन्नेव काले तु देवकस्य महात्मनः ।
दुहितः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥ ७.१४४.९ ॥
大王,就在那时,在大德提婆迦之女的选婿大会上,众刹帝利都已聚集。
7.144.10
तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै ।
निर्जित्व पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥ ७.१४४.१० ॥
舍尼迅速战胜了所有诸王,为婆苏提婆将天女提婆基扶上战车。
7.144.11
तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभः ।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥ ७.१४४.११ ॥
大王,婆卡提(德瓦基)立于战车之上,人中之牛、大有光辉的英雄苏摩达多见之,不能忍受舍尼的所为。
7.144.12
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमुद्भतम् ।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः ॥ ७.१४४.१२ ॥
大王,他二人之间进行了一场奇特而猛烈的搏斗,持续了半日——两位极其强壮的人中之牛的徒手格斗。
7.144.13
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥ ७.१४४.१३ ॥
尸尼以力将索摩达多摔倒在地;举起剑,抓住他的头发,又用脚踢他。
7.144.14
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।
कृपया च पुनस्तेन स जीवेति विसर्जितः ॥ ७.१४४.१४ ॥
在千万名国王之中、四面观者面前,他出于怜悯又说了一声“活下去”,将其释放。
7.144.15
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।
प्रासादयन्महादेवममर्षवशमास्थितः ॥ ७.१४४.१५ ॥
尊者啊,索摩达多被他弄成那般状况,随后在愤怒的驱使下,开始以苦行取悦大天。
7.144.16
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः ॥ ७.१४४.१६ ॥
大天对他心生欢喜,他是赐予恩惠者中的主宰,便请他求取一个恩惠;国王便选择了一个恩惠。
7.144.17
पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम् ।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥ ७.१४४.१७ ॥
尊者啊,我愿得一子,能击倒尸尼之子,并在千万名国王之中、在战场上以足踢他。
7.144.18
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव ।
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत।
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ॥ ७.१४४.१८ ॥
国王啊,索摩达多说完那些话后,天神说:“就这样吧。”便消失了;凭借这份恩赐,他获得了丰厚的酬报。
7.144.19
अपातयच्च समरे सौमदत्तिः शिनेः सुतम् ।
पश्यतां सर्वसैन्यानां पदा चैनमताडयत् ॥ ७.१४४.१९ ॥
在战斗中,苏摩达多之子击倒了施尼之子,并当着所有军队的面用脚踢他。
7.144.20
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि ।
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः ॥ ७.१४४.२० ॥
大王,你所问的,我已经告诉你了。在战斗中,即使人中雄牛也无法战胜萨特瓦塔。
7.144.21
लब्धलक्ष्याश्च सङ्ग्रामे बहुशश्चित्रयोधिनः ।
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥ ७.१४४.२१ ॥
他们在战斗中箭无虚发,屡屡是神奇的战士,曾战胜天神、檀那婆与乾闼婆,无所畏惧;专注于凭自己的勇力取胜,不依赖他人。
7.144.22
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो ।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥ ७.१४४.२२ ॥
主啊,此间在力量上无物可与伐利施尼族相比,婆罗多的雄牛啊——无论过去、现在还是未来。
7.144.23
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ॥ ७.१४४.२३ ॥
他们不轻视自己的族人,乐于遵从长者的教令。
7.144.24
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे ॥ ७.१४४.२४ ॥
无论天神、阿修罗、乾闼婆、夜叉、蛇神还是罗刹,都无法在战斗中战胜伐利施尼族的英雄,更何况是人类呢?
7.144.25
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः ।
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥ ७.१४४.२५ ॥
不伤害婆罗门、师长或亲族财物之人,并在任何灾难中保护这些人者。
7.144.26
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः ।
समर्थान्नावमन्यन्ते दीनानभ्युद्वरन्ति च ॥ ७.१४४.२६ ॥
虽富有却不傲慢,敬重婆罗门,言语诚实;不轻慢有权势者,而扶助贫弱者。
7.144.27
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः ।
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥ ७.१४४.२७ ॥
常敬神明、克制自律、保护他人且不自夸;因此维里施尼英雄之轮从不受阻。
7.144.28
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् ।
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥ ७.१४४.२८ ॥
或许有人能举起须弥山,或能渡过摩伽罗聚居的大海;但是,大王啊,与维里施尼的英雄相遇者,无人能得善终。
7.144.29
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो ।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान् ॥ ७.१४४.२९ ॥
主上,凡您有疑惑之处,此一切已为您述说。库鲁王啊,人中之最,您的大疑惑将因此消除。