摩诃婆罗多 · 章 7.145
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.145.1
तदवस्थे हे तस्मिन्भूरिश्रवसि कौरवे ।
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥ ७.१४५.१ ॥
桑闍耶啊,当俱卢族的婆利修罗婆斯陷入那种境地之后,请告诉我战斗又是如何再次发生的。
7.145.2
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत ।
वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥ ७.१४५.२ ॥
婆罗多啊,婆利修罗婆斯既已往生他界,大臂的阿周那便催促婆苏提婆(黑天)。
7.145.3
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः ।
श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते।
प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ ॥ ७.१४५.३ ॥
黑天啊,请猛烈策马,驱往国王沙耶陀罗陀所在之处。莲花眼啊,听说他安住于三种法中。无垢者啊,你也应当成就我的誓愿。
7.145.4
अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥ ७.१४५.४ ॥
大臂者啊,太阳正急速西沉。
7.145.5
एतद्धि पुरुषव्याघ्र महदब्युद्यतं मया ।
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥ ७.१४५.५ ॥
人中之虎啊,这件大事是我所担负的,而它正由俱卢军中的大车战士们守护着。
7.145.6
यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः ।
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥ ७.१४५.६ ॥
黑天啊,为使太阳不落下,并使我的话成真,请策马前行,使我得以杀死沙耶陀罗陀。
7.145.7
ततः कृष्णो महाबाहुरश्वान्रजतसन्निभान् ।
हयज्ञश्चोदयामास जयद्रथवधं प्रति ॥ ७.१४५.७ ॥
于是大臂的黑天驱策着如白银般闪亮的骏马,朝着杀死胜车的方向前进;他精通马匹。
7.145.8
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः ।
त्वरमाणा महाराज सेनामुख्याः समाद्रवन् ॥ ७.१४५.८ ॥
大王,当他向前行进、箭矢从不落空时,军中的统帅们急速地冲向他,如同跃起的疾箭。
7.145.9
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ ७.१४५.९ ॥
难敌、迦尔纳,接着是伐树仙、摩偷王、阿输婆摩、俱缚,以及信度之主胜车自己。
7.145.10
समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम् ।
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ॥ ७.१४५.१० ॥
毗跋蹉到达已近前的信度王身边,以因愤怒而燃烧的双眼凝视他,仿佛要将他焚毁。
7.145.11
यथाग्निरिन्धनेद्धौ वै क्रोधेन्धनसमीरितः ।
सैन्धवस्य मुखं त्यक्त्वा कर्णः सात्वतमभ्ययात् ॥ ७.१४५.११ ॥
如同以柴薪点燃的火焰,被愤怒的燃料所激动,迦尔纳离开了信度王的面前,朝萨谛奇而去。
7.145.12
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः ।
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥ ७.१४५.१२ ॥
大车将帕尔塔见到罗陀之子迦尔纳走来,便笑着对提婆吉之子黑天说了这些话。
7.145.13
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति ।
न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥ ७.१४५.१३ ॥
看哪,阿提罗陀之子迦尔那正向萨谛奇的战车而去。他必定无法忍受婆利输罗婆在战中被杀。
7.145.14
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन ।
न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः ॥ ७.१४५.१४ ॥
闍那陀那啊,他往哪里去,你就往哪里驱马。愿那头公牛(迦尔那)不要让萨谛奇走上婆罗门之子的路。
7.145.15
एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥ ७.१४५.१५ ॥
萨维耶萨钦这样说了,大臂、大光辉的克舍婆回答了这句合乎时宜的话。
7.145.16
अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव ।
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥ ७.१४५.१६ ॥
般度之子啊,这位大臂者独自对付迦尔那便已足够。何况与德劳波蒂的两个儿子合力,萨特瓦特之牛(萨谛奇)又何足道哉!
7.145.17
न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः ।
प्रज्वलन्ती महोल्केव तिष्ठत्यस्मिन्हि वासवी।
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥ ७.१४५.१७ ॥
普利塔之子啊,此刻与迦尔那交战对你并不合适,因为婆薮之女(Śakti神矛)如燃烧的巨大流星般立在他身上。消灭敌方英雄者啊,它正为你而受敬奉和守护。
7.145.18
न कर्णं प्राकृतं मन्ये तेन योद्धुं न साम्प्रतम् ।
यः कर्णो बलवानेष शक्तोऽस्माञ्जेतुमोजसा ॥ ७.१४५.१८ ॥
我不认为迦尔那是平凡之人,所以此刻与他交战并不适宜。这位迦尔那强大有力,能以他的力量征服我们所有人。
7.145.19
कर्णस्यैष महान्दोषो यद्दूयेन पदेपदे ।
प्रमादाच्च घृणित्वाच्च तेन शोचिति मे मनः ॥ ७.१४५.१९ ॥
迦尔纳的大过在于步步都为苦所扰。因为疏忽与残忍,我的心在悲叹。
7.145.20
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा ।
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः ॥ ७.१४५.२० ॥
因此,让迦尔纳无论如何在此面对萨特瓦塔(克里希那)。哦,贡蒂之子,我将知道这个恶人的时限。
7.145.21
यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले ।
तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना ॥ ७.१४५.२१ ॥
当你以锐利的箭将他射倒于地时,那时,哦普利塔之子,你将去与那恶人交战。
7.145.22
योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः ।
हते तु भूरिश्रवसि तद्युद्धमभवत्कथम् ॥ ७.१४५.२२ ॥
在布利什拉瓦斯被杀之后,英雄毗瑞尼耶(萨提亚基)与迦尔纳的那场相遇是如何变成战斗的?
7.145.23
सात्यकिश्चापि विरथः कं समारूढवान्रथम् ।
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥ ७.१४५.२३ ॥
哦,桑迦亚,失去战车的萨提亚基登上了哪一辆战车?般遮罗的两位车轮守卫又做了什么?请告诉我。
7.145.24
हन्त ते कथयिष्यामि यथावृत्तं महारणे ।
पश्यतां सर्वसैन्यानां केशवार्युनयोरपि।
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥ ७.१४५.२४ ॥
好吧,我将把那场大战中发生的事如实告诉你,当时所有军队都在观看,连克舍瓦和阿周那也在看。请坚定地听着,这是你自己恶行的果报。
7.145.25
…मेव हि कृष्णस्य मनोगतमिदं प्रभो ।
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना ॥ ७.१४५.२५ ॥
…主啊,这正是克里希纳心中所想:英雄萨蒂亚基应如何被索摩达塔之子所击败。
7.145.26
अतीतानागते राजन्स हि वेत्ति जनार्दनः ।
ततः सूतं समाहूय दारुकं संदिदेश ह। ॥ ७.१४५.२६ ॥
大王,唯有遮那达那知晓过去与未来。于是他召来御者达卢迦,向他下令。
7.145.27
रथो मे युज्यतां कल्यमिति राजन्महाबालः ।
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः।
मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन। ॥ ७.१४५.२७ ॥
大王,那位大臂者说:“明晨为我套好战车。”无论天神、乾达婆、夜叉、龙或罗刹,还是任何凡人,都无法战胜那两位克里希纳。
7.145.28
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः ।
तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा ॥ ७.१४५.२८ ॥
以祖父为首,天神与成就者也都认识他。请听那两位无与伦比的威力,以及那一场战斗。
7.145.29
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे ।
दध्मौ शङ्खं महानादमार्षभेणाथ माधवः ॥ ७.१४५.२९ ॥
摩陀婆见萨提亚基失去战车,而迦尔纳在战场上逼近,便吹响海螺,发出如公牛吼叫般的巨响。
7.145.30
दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् ।
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥ ७.१४५.३० ॥
达卢迦领会了命令,听到海螺之声,便将那挂着高举金翅鸟旗帜的战车为他牵来。
7.145.31
स केशवस्यानुमते रथं दारुकसंयुतम् ।
आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् ॥ ७.१४५.३१ ॥
在迦沙婆的许可下,失尼之孙登上与达鲁迦相配的战车,那车如火如日般光辉。
7.145.32
कामगैः शैव्यसुग्रीवमेघपुष्पवलाहकैः ।
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥ ७.१४५.३२ ॥
驾以名为沙伊婆、苏羯利婆、云花与云团的骏马;马随意而行,高大,速度极快,饰以金制马具。
7.145.33
युक्तं समारुह्य च तं विमानप्रतिमं रथम् ।
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥ ७.१४५.३३ ॥
他登上那辆相似天车的战车,向罗陀之子迦尔纳冲去,射出许多箭矢。
7.145.34
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ ।
धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः ॥ ७.१४५.३४ ॥
那时,两位车轮护卫育陀摩尼与乌塔玛奥闍也离开了阿周那的战车,向罗陀之子迦尔纳迎去。
7.145.35
राधेयोऽपि महाराज शरवर्षं समुत्सृजन् ।
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥ ७.१४५.३५ ॥
大王!罗陀之子亦放出箭雨,怒气冲冲,在战场上向失尼之后和阿集多冲去。
7.145.36
नैव दैवं न गान्धर्वं नासुरं न च राक्षसम् ।
तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत।
उपारसत तत्सैन्यं सरथाश्वनरद्विपम् ॥ ७.१४५.३६ ॥
既非天神之战,也非乾闼婆、阿修罗或罗刹之战;如此的战斗,我们在大地上未曾见过,天界也未曾听闻。如此说着,那支军队连同战车、马匹、人众与象群一同停下了。
7.145.37
तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतसः ।
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ॥ ७.१४५.३७ ॥
大王啊,众人看见那二人的功业,心神迷惑,都注视着那超越人间的战斗。
7.145.38
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥ ७.१४५.३८ ॥
大王啊,那二位人中俊杰与达鲁迦的御车之术。
7.145.39
गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः ।
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥ ७.१४५.३९ ॥
进退、回旋、盘绕与转向之间,立于车上的迦叶波之子的御者令众人惊叹。
7.145.40
नभस्तलगताश्चैव देवगान्धर्वदानवाः ।
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥ ७.१४५.४० ॥
停留在天空中的诸神、乾闼婆与檀那婆都极为专注地观看迦尔纳与希尼之子的战斗。
7.145.41
मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रमे ॥ ७.१४५.४१ ॥
为了朋友,那二人勇猛、有力,彼此争锋,啊,罗摩。
7.145.42
कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ।
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ॥ ७.१४५.४२ ॥
迦尔纳如白拂一般洁白,尤尤丹那·萨谛奇,大王啊,二人彼此降下箭雨。
7.145.43
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ।
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः ॥ ७.१४५.४३ ॥
迦尔纳无法忍受考罗婆耶与迦耶桑狄之死,以箭雨击倒了希尼之孙。
7.145.44
कर्णः शोकसमाविष्टो महोरग इव श्वसन् ।
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा।
अभ्यधावत वेगेन पुनःपुनररिन्दम ॥ ७.१४५.४४ ॥
迦尔纳被悲痛所攫,如大蛇般嘶嘶作响,怒目如欲焚烧,在战场上一次又一次疾速冲向希尼之后,哦,制敌者。
7.145.45
तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुध्यत ।
महता शरवर्षेण गजं प्रतिगजो यथा ॥ ७.१४५.४५ ॥
萨提亚基见他怒气冲冲而来,便以大量箭雨回击,正如一头象迎战对手象。
7.145.46
तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥ ७.१४५.४६ ॥
这两位人中之虎,如虎般迅猛,在战场上勇武无比,彼此不断地重创对方。
7.145.47
ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः ।
बिभेद सर्वगात्रेषु पुनःपुनररिन्दम ॥ ७.१४५.४७ ॥
于是希尼之孙(萨提亚基)以所有波罗舍婆箭,一次又一次地射穿迦尔纳的全身,哦,制敌者。
7.145.48
सारथिं चास्य भल्लेन रथनीडादपातयत् ।
अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः ॥ ७.१४५.४८ ॥
他以一支钹形箭将迦尔纳的御者击落车座,又以利箭射杀了他的四匹白马。
7.145.49
छित्त्वा ध्वजं रथं चैव शतधा पुनर्षर्षभ ।
चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥ ७.१४५.४९ ॥
人中之牛啊!他将旗帜与战车击碎成百片,在你的儿子眼前,再次使迦尔纳失去了战车。
7.145.50
ततो विमनसो राजंस्तावकास्ते महारथाः ।
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा। ॥ ७.१४५.५० ॥
于是,大王啊,你的那些大车战士们都黯然神伤——迦尔纳之子伐利舍那和摩德罗王沙利耶亦然。
7.145.51
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ।
ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन ॥ ७.१४५.५१ ॥
德罗纳之子也从四面八方包围了舍尼耶。于是一切陷入混乱,什么也辨认不清。
7.145.52
तथा सात्यकिना वीरे विरथे सूतजे कृते ।
हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान् ॥ ७.१४५.५२ ॥
如此,英雄、御者之子被萨提亚基夺去战车,大王啊,所有军队中都爆发出巨大的哀号。
7.145.53
कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः ।
दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन् ॥ ७.१४५.५३ ॥
大王啊,迦尔纳也被萨特瓦塔的箭夺去战车,他叹息着迅速登上了难敌的战车。
7.145.54
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् ।
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥ ७.१४५.५४ ॥
尊重你儿子自童年以来的情谊,并履行当年授予王国时所立下的誓言。
7.145.55
तथा तु विरथं कर्णं पुत्रांश्च परिपालयन् ।
दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी ॥ ७.१४५.५५ ॥
如此,守护着失去战车的迦尔纳和你的儿子们,自制的萨谛奇没有杀死以难降为首的勇士们。
7.145.56
रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम् ।
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥ ७.१४५.५६ ॥
守护着比玛和阿周那先前许下的誓言,他使他们失去战车、陷入慌乱,却没有夺走他们的性命。
7.145.57
भीमसेनेन तु वदः पुत्राणां ते प्रतिश्रुतः ।
अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥ ७.१४५.५७ ॥
毗摩娑那曾许下杀死你儿子们的誓言;在掷骰之时,阿周那也曾誓言杀死迦尔纳。
7.145.58
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा ।
नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः ॥ ७.१४५.५८ ॥
那时,以迦尔纳为首的你方最优秀的车战勇士,没有努力杀他,也不能杀死萨谛奇。
7.145.59
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः ।
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः।
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥ ७.१४५.५९ ॥
德罗纳之子马嘶和流军,以及其他大车战勇士、数百位刹帝利中的雄牛,都被那一位射手击败;他渴望往生,并使法王欢喜。
7.145.60
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः ।
जितवान्सर्वसैन्यानि तावकानि हसन्निव ॥ ७.१४५.६० ॥
萨谛奇在勇力上与两位克利须那相等,是敌人的焚烧者,他仿佛含笑般战胜了你方的一切军队。
7.145.61
कृष्णो वाऽपि भवेल्लोके पार्थो बाऽपि धनुर्धरः ।
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते ॥ ७.१४५.६१ ॥
世间或许有黑天,或许有善射的帕特,或许有夏伊涅耶;人中之虎啊,第四者是不存在的。
7.145.62
अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः ।
विरथं कृतवान्कर्णं वासुदेवसमो युधि।
दारुकेण समायुक्तः स्वबाहुबलदर्पितः ॥ ७.१४५.६२ ॥
登上毗湿奴神(黑天)那不可战胜的战车,萨提亚基在战斗中与黑天相等,使迦尔纳失去战车;与达鲁卡同行,以自己臂力为傲。
7.145.63
कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः ।
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्।
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥ ७.१४५.६३ ॥
那使敌人痛苦的萨提亚基,是否登上了另一辆战车?我想听听,因为你擅长言辞。我认为那是难以忍受的;桑贾耶,请告诉我。
7.145.64
शृणु राजन्यथावृत्तं रथमन्यं महामतिः ।
दारुकस्यानुजस्तूर्णं कल्पनाविदिकल्पितम् ॥ ७.१४५.६४ ॥
大王请听,事情是这样发生的:达鲁卡的弟弟,大智之人,精通构想之术,迅速打造了另一辆战车。
7.145.65
आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम् ।
तारासहस्रखचितं सिंहध्वजपताकिनम् ॥ ७.१४५.६५ ॥
车辕以铁片和金片包裹,镶嵌千颗星辰,饰有狮子旗与旌旗。
7.145.66
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः ।
सैन्धवैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥ ७.१४५.६६ ॥
以疾如风的骏马驾驭,配有金制器具与饰具,以如月般明亮的信度良马拉车,奔驰时超越一切声响。
7.145.67
चित्रकाञ्चनसन्नाहैर्वाजिमुख्यैर्विशाम्पते ।
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥ ७.१४५.६७ ॥
人主啊,那辆车由披着彩色金甲的良马牵引,铃声如网般喧响,矛与投枪的闪光如电。
7.145.68
युक्तं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः ।
रथं सम्पादयामास मेघगम्भीरनिःस्वनम् ॥ ७.१४५.६८ ॥
他令人准备好那辆车,配备了军用物资和许多武器与器具,其声音深沉如云。
7.145.69
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥ ७.१४५.६९ ॥
Śaineya(Sātyaki)登上那辆车,冲向你的军队;Dāruka也随心所欲地前往Keśava身边。
7.145.70
कर्णस्यापि रथं राजञ्शङ्खगोक्षीरपाण्डुरैः ।
चित्रकाञ्चनसन्नाहैः सदश्वैर्वेगवत्तरैः ॥ ७.१४५.७० ॥
啊,国王,迦尔纳的车也由优良的马牵引,马白如海螺与牛奶,披着彩色金甲,速度更快。
7.145.71
हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम् ।
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्।
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ॥ ७.१४५.७१ ॥
他们牵来了那辆上好的车,车上饰有金色的带子与旗帜,机关布置妥当,有良好的御者,并备有许多武器与器具;迦尔纳也登上此车,冲向敌人。
7.145.72
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
भूयश्चापि निबोधेमं तवापन्नयजं क्षयम् ॥ ७.१४५.७२ ॥
你所问的一切我都已告诉你了。请再听听这场你那一方祭祀陷入灾难的毁灭。
7.145.73
एकत्रिंशत्तव सुता भीमसेनेन पातिताः ।
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् ॥ ७.१४५.७३ ॥
你的三十一个儿子被毗摩赛那击倒,杜尔穆卡站在他们前面,他总是以奇妙的方式作战。
7.145.74
शतशो निहताः शूराः सात्वतेनार्जुनेन च ।
भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत।
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ ७.१४५.७४ ॥
英雄们成百地被萨特瓦塔(克里希那)和阿周那杀死,毗湿摩和跋伽达被置于前列。婆罗多,国王啊,这场毁灭正是由于你的恶谋而如此发生。