Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.146

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.146.1

तथा गतेषु शूरेषु तेषां मम च सञ्जय ।
किंस्विद्भीमार्जुनौ चैव सात्यकिश्चाकरोत्तदा ॥ ७.१४६.१ ॥

全胜啊,英雄们如此倒下之后,在他们与我方之间,那时毗摩、阿周那和萨谛奇做了什么?

7.146.2

विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः ।
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥ ७.१४६.२ ॥

失去战车的毗摩森那,被迦尔纳的言语如刺般折磨,为愤怒所支配,对阿周那说了这些话。

7.146.3

पुनःपुनस्तूबरक मूढ औदरिकेति च ।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥ ७.१४६.३ ॥

"他一再称我为“图巴拉卡”、“愚人”和“贪食者”,“不善兵器”、“孩童”、“畏惧战斗”——你不要作战。"

7.146.4

इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय ।
एवं वक्ता च मे वध्यस्तेन चोक्तस्तथा ह्यहम् ॥ ७.१४६.४ ॥

"财富征服者啊,你看着的时候,迦尔纳对我如此说。如此说话的人应当被我杀死;而他也如此对我说过。"

7.146.5

एतद्व्रतं महाबाहो त्वया सह कृतं मया ।
तथैतन्मम कौन्तेय यथा तव न संशयः ॥ ७.१४६.५ ॥

"大臂者啊,这誓言我与你一同立下。昆蒂之子啊,它之于我,正如之于你;此事毫无疑问。"

7.146.6

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम ।
यथा भवति तत्सत्यं तथा कुरु धनञ्जय ॥ ७.१४६.६ ॥

"人中之最啊,为了杀他,请记住我这句话。为使它成为真实,财富征服者啊,就照此去做。"

7.146.7

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः ।
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ॥ ७.१४६.७ ॥

无量威力的阿周那听了比阿摩的那番话后,在战场上稍稍靠近,对迦尔纳说道。

7.146.8

कर्णकर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत ।
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि साम्प्रतम् ॥ ७.१४६.८ ॥

迦尔纳,迦尔纳!你这目光虚妄、出身车夫之子、自我夸耀、心怀非法的人,现在听我要对你说的话。

7.146.9

द्वावेवं कर्ण शूराणां रणे दृष्टौ जयाजयौ ।
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥ ७.१४६.९ ॥

迦尔纳啊,在战斗中英雄们所见的只有这两者——胜利与失败;而且,罗陀之子啊,即便因陀罗作战,它们也是无常的。

7.146.10

रणमुत्सृज्य निर्लज्ज गच्छसे च पुनः पुनः ।
माहात्म्यं पश्य भीमस्य कर्म जन्म कुले तथा।
नोक्तवान्परुषं यत्त्वां पलायनपरायणम् ॥ ७.१४६.१० ॥

无耻之徒,你抛弃战斗,一次又一次地逃跑。看看阿摩的伟大、他的行为以及他在家族中的出生;他没有对你说一句严厉的话,而你却专心逃跑。

7.146.11

भूयस्त्वमपि सङ्गम्यं सकृदेव यदृच्छया ।
विरथं कृतवान्वीरं पाण्डवं सूतदायद ॥ ७.१४६.११ ॥

你又偶然地只与他相遇过一次,并使英雄般若的般度之子失去了战车,御者之后啊。

7.146.12

कुलस्य सदृशं चापि राधेय कृतवानसि ।
नैकान्तसिद्धिः सङ्ग्रामे वासवस्यापि विद्यते ॥ ७.१४६.१२ ॥

罗陀之子啊,你所做的正合乎你的家族;在战斗中,即使因陀罗也无法获得必定的成功。

7.146.13

मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः ।
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः ॥ ७.१४६.१३ ॥

渝陀那使你失去战车、感官昏乱、濒临死亡;他知道'你应由我杀死',便将你击败后放你生还。

7.146.14

यदृच्छया रणे भीमं युध्यमानं महाबलम् ।
कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः।
अधर्मस्त्वेष सुमहाननार्यचरितं च तत् ॥ ७.१४६.१४ ॥

你在战场上偶然使奋战的大力者毗摩罗致战车失去,便出言粗暴;这是极大的不义,是非高贵者所应有的行为。

7.146.15

नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः ।
न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः ॥ ७.१४६.१५ ॥

善人与勇士,人中之牛,战胜敌人之后不过分夸耀,不说恶言,也不非议任何人。

7.146.16

त्वं तु प्राकृतविज्ञानस्तत्तद्वदसि सूतज ।
बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम् ॥ ७.१४६.१६ ॥

御者之子啊,你只有普通的见识;因轻浮而不加思量,你说了许多颠三倒四、不堪入耳的话。

7.146.17

युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम् ।
यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव।
पश्यतां सर्वसैन्यानां केशवस्य ममैव च ॥ ७.१४६.१७ ॥

你对战斗中的、英勇的、勇士的、奉行高贵誓愿的毗摩所说的那些不悦耳的话,并不真实;当一切军队都在看着、在克沙婆和我面前也是如此。

7.146.18

विरथो भीमसेनेन कृतोऽसि बहुशो रणे ।
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः ॥ ७.१४६.१८ ॥

在战场上,毗摩修那多次使你失去战车,然而般度之子从未对你说过一句粗暴的话。

7.146.19

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः ।
परोक्षं यच्च सौभद्रो युष्माभिर्बहुभिर्हतः।
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि ॥ ७.१४६.१९ ॥

因为狼腹(阿周那之弟,怖军)对你说了许多刺耳的话,而你们众人在他不在场时杀害了娑睺达罗,所以你应立即承受这傲慢的果报。

7.146.20

त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ।
तस्माद्वध्योऽसि मे मूढ सभृत्यसुतबान्धवः ॥ ७.१४६.२० ॥

你斩断了他的弓,这是为你自己招致毁灭,恶意之人啊。因此,愚昧者,你与你的仆从、子嗣和亲属都应被我所杀。

7.146.21

कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ।
हन्ताऽस्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे ॥ ७.१४६.२१ ॥

你应完成你所有的事务,大恐惧已降临于你。在你注视之下,我将在战斗中杀死你的伐楼娑犀那。

7.146.22

ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ।
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥ ७.१४६.२२ ॥

其他那些因心智迷惑而来攻击我的国王,我都将杀死;我以真实之名拿起武器。

7.146.23

त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे ।
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥ ७.१४६.२३ ॥

当愚钝的难敌看见你这位无智、极度自负的愚人在战场上倒下时,他将极为悲痛。

7.146.24

अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु ।
महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥ ७.१४६.२४ ॥

当阿周那发誓要杀死迦尔纳之子时,车战武士之间便爆发了巨大而可怖的喧嚣。

7.146.25

तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये ।
मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत् ॥ ७.१४६.२५ ॥

在那场混乱而极其危险的战斗正酣之时,光线昏暗的千光之日(太阳)奔向西方的山峰。

7.146.26

ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् ।
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति ॥ ७.१४६.२६ ॥

此时,国王难敌看见阿周那正赶来杀害信度王,便急忙对罗陀之子迦尔纳说道。

7.146.27

अमानुषाणि कर्माणि कुर्वन्तौ भरतर्षभ ।
सात्यकिं भीमसेनं च यत्तौ तौ दर्शयन्निव ॥ ७.१४६.२७ ॥

婆罗多的雄牛啊,萨提亚基与毗摩森那正在创造非凡的功业,他们竭力奋战,仿佛在展示自己的威力。

7.146.28

अयं स वैकर्तन युद्धकालो ।
विदर्शयस्वात्मबलं महात्मन्।
यथा न वध्येत रणेऽर्जुनेन ।
जयद्रथः कर्ण तथा कुरुष्व ॥ ७.१४६.२८ ॥

威迦尔坦之子啊,这正是交战之时。伟大的人啊,请展现你自己的力量,使信度王不致在战斗中被阿周那杀死。迦尔纳啊,就照此去做吧。

7.146.29

अल्पावशेषो दिवसो हि साम्प्रतं ।
निवारयेहाद्य रिपुं शरौघैः।
दिनक्षयं प्राप्य नरप्रवीर ।
ध्रुवो हि नः कर्ण जयो भविष्यति ॥ ७.१४६.२९ ॥

如今白昼所剩无几。人中之雄啊,今日就在此以箭雨阻住敌人。待白昼将尽,迦尔纳啊,我们的胜利必将确定。

7.146.30

सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति ।
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥ ७.१४६.३० ॥

当信度王(信度之王)被守护,太阳将要西沉之时,誓言虚假的贡蒂之子(阿周那)将投入火中。

7.146.31

अनर्जुनायां च भुवि मुहूर्तमपि मानद ।
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥ ७.१४६.३१ ॥

尊者啊,阿周那不在的大地上,他的兄弟和随从连片刻也不敢活下去。

7.146.32

पाण्डवेषु विनष्टेषु सशैलवनकाननाम् ।
वसुन्धरामिमां कर्ण भोक्ष्यामो महतकण्टकाम् ॥ ७.१४६.३२ ॥

迦尔纳啊,待般度之子被灭之后,我们将享有这大地,连同其山岳、森林与园林,大棘刺已被除去。

7.146.33

दैवेनोपहतः पार्थो विपरीतश्च मानद ।
कार्याकार्यमजानानः प्रतिज्ञां कृतवान्रणे ॥ ७.१४६.३३ ॥

尊者啊,般度子阿周那被命运所击,心志迷乱,不知何当为、何不当为,在战中立下了誓言。

7.146.34

नूनमात्मविनाशाय पाण्डवेन किरीटिना ।
मिथ्याप्रतिज्ञैव कृता जयद्रथवधं प्रति ॥ ७.१४६.३४ ॥

无疑,般度子戴冠者(阿周那)为了自己的毁灭,才对诛杀胜车立下了虚假的誓言。

7.146.35

कथं जीवति दुर्धर्षे त्वपि राधेय फल्गुनः ।
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ॥ ७.१४६.३५ ॥

无敌的罗陀之子啊,阿周那若尚在人世,怎能在太阳未落之前杀死信度王?

7.146.36

रक्षितं मद्रराजेन कृपेण च महात्मना ।
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ॥ ७.१४६.३६ ॥

在战阵前沿,既有摩德罗王与大德克利巴护卫胜车,财富征服者怎能杀死他?

7.146.37

द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च ।
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥ ७.१४६.३७ ॥

既有德罗纳之子、我与难降所护卫,受命运驱使的比跋苏(阿周那)如何能抵达信度王?

7.146.38

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः ।
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥ ७.१४६.३८ ॥

众多英雄在战斗,太阳正在西沉。尊者啊,我怀疑般度之子(阿周那)根本无法抵达胜车(jayadratha)。

7.146.39

स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः ।
द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च।
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥ ७.१४६.३९ ॥

你啊迦尔纳,与我及其他英勇的大车战士,与德罗纳之子、摩德罗王和克里帕一起,以最大努力在战斗中与般度之子(阿周那)作战吧。

7.146.40

एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष ।
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥ ७.१४६.४० ॥

你的儿子这样对他说后,罗陀之子(迦尔纳)对最优秀的俱卢王子难敌说了这番话。

7.146.41

दृढलक्ष्येण वीरेण भीमसेनेन धन्विना ।
भृशं भिन्नतनुः सङ्ख्ये शरजालैरनेकशः ॥ ७.१४६.४१ ॥

英雄、箭法精准的弓手婆罗多(bhīmasena,怖军),以箭网在战斗中多次大量贯穿了我的身体。

7.146.42

स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद ।
नाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य महेषुभिः।
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम ॥ ७.१४६.४२ ॥

我想着必须坚定站立,所以现在仍立于战场,尊者啊。虽被大箭所伤,我的肢体丝毫不动。我将依自己的力量为你作战,我的生命属于你。

7.146.43

तत्तथा प्रयतिष्येऽहं परं शक्त्या…सुयोधन ।
यथा पाण्डवमुख्योऽसौ न हनिष्याति सैन्धवम् ॥ ७.१४६.४३ ॥

苏耀陀那啊,我将竭尽全力如此行事,使般度之子中的首领不杀死信度王。

7.146.44

न हि मे युध्यमानस्य सायकानस्यतः शितान् ।
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ॥ ७.१४६.४४ ॥

只要我战斗并射出锋利的箭,英雄左右开弓的檀那闍耶就无法抵达信度王。

7.146.45

यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा ।
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥ ७.१४६.४५ ॥

忠诚且常怀善意者应当做的事,我将去做,俱卢的后裔啊;胜利系于天命。

7.146.46

सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे ।
त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः ॥ ७.१४६.४६ ॥

今日在战场上,为了信度王,为了你所珍爱之人,大王,我将作出最大的努力;胜利系于天命。

7.146.47

अद्य योत्स्येऽर्जुमहं पौरुषं स्वं व्यपाश्रितः ।
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥ ७.१४६.४७ ॥

今日我将与阿周那交战,依靠自己的勇气,为了你,人中之虎啊;胜利系于天命。

7.146.48

अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः ।
पश्यन्तु सर्वसैन्यानि दारुणं रोमहर्षणम् ॥ ७.१४६.४८ ॥

今日,俱卢中的最优者啊,愿所有军队看见我与帕尔塔之间的这场可怕、令人毛骨悚然的战斗。

7.146.49

कर्णकौरवयोरेवं रणे संभाषमाणयोः ।
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥ ७.१४६.४९ ॥

当迦尔纳与俱卢族人在战场上如此交谈之时,阿周那以利箭击杀了你的军队。

7.146.50

चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम् ॥ ७.१४६.५० ॥

他以利箭斩杀了从不后退的勇士们。

7.146.51

भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ।
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः ॥ ७.१४६.५१ ॥

在战场上,大臂的阿周那以利箭斩断了如铁杵、如象鼻的手臂,以及头颅。

7.146.52

हस्तिहस्तान्द्विपस्कन्धान्रथाक्षांश्च समन्ततः ।
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् ॥ ७.१४६.५२ ॥

四面八方,他斩断了象鼻、象肩、车轴、满身鲜血的骑兵,以及手持矛与投枪的战士。

7.146.53

क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ।
हयान्वारणमुख्यांश्च पदातींश्च समन्ततः।
ध्वजांश्छत्राणि चापानि चामराणि शिरांसि च ॥ ७.१४६.५३ ॥

比博醯苏以刀刃状箭将每一个人劈为两段或三段;四面八方,他斩杀了马匹、象王、步兵,以及旗帜、华盖、弓、牦牛尾拂,还有头颅。

7.146.54

कक्षमग्निरिवोद्धूतः प्रादहत्तव वाहिनीम् ।
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥ ७.१४६.५४ ॥

如同干草中燃起的烈火,普利塔之子焚烧了你的军队,很快便让大地被鲜血覆盖。

7.146.55

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली ।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ ७.१४६.५५ ॥

他杀死了你军中大部分勇士,那位强大、不可抵挡、真正勇猛的人走近了信度王(胜车)。

7.146.56

बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः ।
प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥ ७.१४६.५६ ॥

在怖军和萨多婆(黑天)的守护下,不可厌的阿周那闪耀着,婆罗多族之最,如同熊熊燃烧的祭火。

7.146.57

तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीरसंमताः ।
नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः ॥ ७.१४६.५७ ॥

看见他如此挺立,你方受尊敬的英雄、大弓箭手、人中之牛,无法容忍这位般度之子。

7.146.58

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्। ॥ ७.१४६.५८ ॥

难敌与迦尔纳,然后是跋修犀那与摩德罗王(沙利耶)。

7.146.59

सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् ।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः ॥ ७.१४६.५९ ॥

他们为了信度王而披甲待发,包围了在战车道上舞动、伴随弓弦铮鸣的戴冠者(阿周那)。

7.146.60

सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः ।
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥ ७.१४६.६० ॥

面对精于战阵的普利塔之子(阿周那),所有善战者无所畏惧地转身迎战,仿佛面对张开大口的死神。

7.146.61

सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ ।
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे ॥ ७.१४६.६१ ॥

信度王留在身后,欲杀之的阿周那与阿修多(黑天)在太阳变红时,不愿日落。

7.146.62

ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान् ।
मुमुचुःसूर्यरश्म्याभाञ्छतशः फल्गुनं प्रति ॥ ७.१४६.६२ ॥

他们以如蛇身盘绕般的臂膀拉弯弓弦,向法尔古那射出数百支如日光般明亮的箭。

7.146.63

ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः ।
द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान्रथान् ॥ ७.१४६.६३ ॥

于是,在战中傲然的戴冠者(阿周那)将他们射来的箭每一支斩成两段、三段或八段,并射击那些战车。

7.146.64

सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः ।
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयन् ॥ ७.१४६.६४ ॥

大王啊,那位旗帜上有狮尾的沙罗堕婆之子,展示自己的勇力,阻拦了阿周那。

7.146.65

स विद्वा दशभिः पार्थं वासुदेवं च सप्तभिः ।
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन् ॥ ७.१४६.६५ ॥

他以十箭射中普利塔之子,以七箭射中婆苏提婆(黑天),然后站在战车道上,守护信度王。

7.146.66

अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः ।
महता रथवंशेन सर्वतः प्रत्यवारयन् ॥ ७.१४६.६६ ॥

于是,俱卢族中最杰出的所有大战车武士,以庞大的战车阵从四面八方阻住了他。

7.146.67

विष्फारयन्तश्चापानि विसृजन्तश्च सायकान् ।
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥ ७.१४६.६७ ॥

他们拉满弓弦、射出箭矢,依照你儿子的命令保护信度王。

7.146.68

ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत ।
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥ ७.१४६.६८ ॥

于是英雄般的般度之子的臂力显现出来,箭矢的无穷与甘狄拔弓的威力也显露了。

7.146.69

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।
एकैकं दशभिर्बाणैः सर्वानेव समार्पयत् ॥ ७.१४६.६९ ॥

他以兵器挡住兵器,用十支箭射中每一人——德罗尼之子(马嘶)、沙罗陀婆多(俱卢)等人,全部射中。

7.146.70

तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः ।
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥ ७.१४६.७० ॥

德罗尼之子以二十五箭射他,毗利舍那以七箭,难敌以二十箭,迦尔纳与沙利耶各以三箭射他。

7.146.71

त एनमभिगर्जन्तो विध्यन्तश्च पुनःपुनः ।
विधुन्वन्तश्च चापानि सर्वतः प्रत्यवारयन् ॥ ७.१४६.७१ ॥

他们向他怒吼,反复射他,挥动弓弦,从四面八方阻挡他。

7.146.72

श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते ।
सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः ॥ ७.१४६.७२ ॥

他们迅速在四周结成紧密的战车圈,那些大车战士急切地期盼日落。

7.146.73

त एनमभिनर्दन्तौ विधुन्वाना धनूंषि च ।
सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः ॥ ७.१४६.७३ ॥

他们向他咆哮,挥动弓弦,以锋利的箭矢倾注于他,如同云朵向山岳倾注雨水。

7.146.74

ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् ।
धनञ्जयस्य गात्रे तु शूराः परिघबाहवः ॥ ७.१४६.७४ ॥

大王,那些臂如铁棒的勇士,在那里将神圣的大神兵施展在财富征服者(阿周那)身上。

7.146.75

निवार्य ताञ्शरव्रातैर्दिव्यान्यस्त्राणि दर्शयन् ।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ ७.१४६.७५ ॥

他以箭雨阻挡他们,显示神圣的兵器,使你的军队大多战士阵亡,这位强大、不可抵挡、真正勇武的人抵达了信度王(胜车)。

7.146.76

तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः ।
मिषतो भीमसेनस्य सात्वतस्य च भारत ॥ ७.१४६.७६ ॥

大王,在战斗中,迦尔纳以迅捷的箭矢阻住了他,当时怖军与萨谛奇正在旁观,婆罗多啊。

7.146.77

तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्राणाजिरे ।
सूतपूत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥ ७.१४६.७७ ॥

大臂的般度之子(阿周那)在战场上当着全军的面,以十支箭回击那御者之子。

7.146.78

सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष ।
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥ ७.१४६.७८ ॥

萨谛奇以三箭射中迦尔纳,尊者啊;怖军也以三箭;阿周那又以七箭。

7.146.79

तान्कर्णः प्रतिविव्याध षष्ट्याषष्ट्या महारथः ।
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥ ७.१४६.७९ ॥

大车战士迦尔纳以每人六十支箭还击他们。啊,国王,迦尔纳的那场战斗是与众多敌人进行的。

7.146.80

तत्राद्भूतमपश्याम सूतपुत्रस्य मारिष ।
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्थवारयत् ॥ ७.१४६.८० ॥

尊者啊,我们在那里见到了御者之子的奇迹:他独自一人、怒火满胸,在战斗中挡住了帕尔塔的三辆战车。

7.146.81

फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे ।
सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥ ७.१४६.८१ ॥

然而大臂的法尔古那在战斗中以一百支箭射中了维卡尔塔那之子迦尔纳,全部命中他的要害。

7.146.82

रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् ।
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ॥ ७.१४६.८२ ॥

浑身浴血的威武御者之子,这位英雄以五十支箭还击法尔古那。

7.146.83

तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ।
तस्य पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे।
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ॥ ७.१४६.८३ ॥

阿周那见到他的敏捷,在战斗中无法忍受。帕尔塔斩断他的弓,以九支箭迅速射中他的胸膛——那位英雄,财富征服者。

7.146.84

अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् ।
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम् ॥ ७.१४६.८४ ॥

于是,威武的御者之子拿起另一把弓,以八千支箭遮蔽了般度之子。

7.146.85

तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम् ।
व्यधमत्सायकैः पार्थः शलभानिव मारुतः ॥ ७.१४६.८५ ॥

普利塔之子帕尔塔以自己的箭矢驱散了从迦尔纳弓中升起的那场无与伦比的箭雨,如同风吹散蝗虫。

7.146.86

छादयामास च तदा सायकैरर्जुनो रणे ।
पश्यतां सर्पयोधानां दर्शयन्पाणिलाघवम् ॥ ७.१४६.८६ ॥

此时阿周那在战场上以箭矢将其遮蔽,并在蛇族战士注视下展示了手的敏捷。

7.146.87

वधार्थं चास्य समरे सायकं सूर्यवर्चसम् ।
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ॥ ७.१४६.८७ ॥

在战场上,为了杀死他,财富征服者以急切之势在那紧迫的时刻射出一支如太阳般灿烂的箭。

7.146.88

अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ।
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्।
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भूवि ॥ ७.१४६.८८ ॥

阿奢婆摩、克里帕,以及信度王本人都冲向他;德罗纳之子以锐利的半月形箭头斩断了迅速飞来的那支箭,被斩断的箭坠落于地。

7.146.89

कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ।
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ ७.१४६.८९ ॥

消灭敌人的迦尔纳也以数千支箭遮蔽了法尔古纳,渴望以牙还牙。

7.146.90

तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ ।
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः ॥ ७.१४६.९० ॥

这两位大战车武士,人中雄狮,如公牛般咆哮,以直飞的箭矢遮蔽了天空。

7.146.91

अदृश्यौ च शरौथैस्तौ निघ्न्तावितरेतरम् ।
कर्ण पार्थोऽस्ति तिष्ठत्वं कर्णोऽहं तिष्ठ फल्गुन्न ॥ ७.१४६.९१ ॥

二人被箭雨遮蔽,互相攻击,同时喊道:「迦尔纳,这是贝图(阿周那),站住!我是迦尔纳,站住,法尔古那!」

7.146.92

इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तु परस्परम् ।
विध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च ॥ ७.१४६.९२ ॥

二人以言语之刺相互威胁,在战场上彼此射中——奇妙、迅捷而又极其娴熟。

7.146.93

प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ।
प्रशस्यामानौ समरे सिद्धचारणपन्नगैः ॥ ७.१४६.९३ ॥

在所有战士的聚会中,二人成为值得观看之人,在战场上受到悉陀、遮那与龙蛇的赞美。

7.146.94

अयुध्येतां महाराज परस्परवधैषिणौ ।
ततो दुर्योधनो राजंस्तावकानभ्यभाषत ॥ ७.१४६.९४ ॥

大王啊,二人彼此渴望对方死亡,继续战斗。然后,大王,难敌对你的部下说道。

7.146.95

यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ।
निवर्तिष्यति राधेयो न वाऽजित्वाऽद्य फल्गुनं ॥ ७.१४६.९५ ॥

「要小心保护罗陀之子!若不在战场上杀死阿周那,罗陀之子不会返回;若今日不战胜法尔古那,他也不会返回。」

7.146.96

एतस्मिन्न्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् ।
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्।
अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः ॥ ७.१४६.९६ ॥

大王啊,与此同时,白马者(阿周那)见到迦尔纳的勇猛,拉弓至耳,以四支箭将迦尔纳的四匹马送往死亡之界。

7.146.97

सारथिं चास्य भल्लेन रथनीडादपातयत् ।
छादयामास स शरैस्तव पुत्रस्य पश्यतः ॥ ७.१४६.९७ ॥

他又用一支钵刺箭将其御者从车座上射落,而你的儿子在一旁看着,他用箭雨遮蔽了(迦尔纳)。

7.146.98

सञ्छाद्यमानः समरे हताश्वो हतसारथिः ।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ ७.१४६.९८ ॥

在战斗中被箭雨覆盖,马匹被杀,御者被杀,被箭网迷惑,他不知道该怎么办。

7.146.99

तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा ।
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥ ७.१४६.९९ ॥

大王啊,看见他这样失去了战车,阿湿婆sthaman便让他登上自己的战车,再次与阿周那交战。

7.146.100

मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः ।
आवव्रेऽर्जुनमार्गं च शरजालेन भारत ॥ ७.१४६.१०० ॥

摩德罗国王用三十支箭射中了昆提之子,婆罗多啊,他又用箭网遮蔽了阿周那的道路。

7.146.101

शारद्वतस्तु विंशत्यं वासुदेवं समार्पयत् ।
धनञ्जयं द्वादशभिराजघान शिलीमुखैः
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः ।
पृथक्पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ ॥ ७.१४६.१०१ ॥

Kṛpa(沙罗陀婆之子)用二十支箭射中了婆薮提婆,用十二支尸利穆箭射中了财胜。信度王用四支、伐栗舍犀那用七支,大王啊,分别射中了黑天与般度之子。

7.146.102

तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः ।
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः ।
शारद्वतं च विंशत्या विद्व्वा पार्थो ननाद ह ॥ ७.१४६.१०२ ॥

同样,昆提之子达南遮耶也还击them。以六十四箭射德罗纳之子,以一百箭射摩德罗王,以十箭射信度王,以三箭射跋洛犀那,以二十箭射沙罗堕多,阿周那大吼一声。

7.146.103

ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः ।
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ॥ ७.१४६.१०३ ॥

他们想要破坏萨维亚萨钦的誓言,你的人马聚集一处,迅速冲向达南遮耶。

7.146.104

अथार्जुनः सर्वतो वारुणास्त्रं ।
प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्।
तं प्रत्युदीयः कुरुवः पाण्डुपुत्रं ।
रथैर्महार्हैः शरवर्षं सृजन्तः ॥ ७.१४६.१०४ ॥

于是阿周那四面展开婆楼那神之箭,使持国王之子们恐惧。俱卢人迎向般度之子,乘着贵重战车,倾泻箭雨。

7.146.105

ततस्तु तस्मिंस्तुमले समुत्थिते ।
सुदारुणे भारतमोहनीये।
नो मुह्यत प्राप्य स राजपुत्रः ।
किरीटमाली व्यसृजच्छरौघान् ॥ ७.१४६.१०५ ॥

当那场极为可怖、令婆罗多族迷惑的喧嚣升起时,那位戴冠的王子并未迷惑,他放出了箭的洪流。

7.146.106

वधप्रेप्सुः सव्यसाची कुरूणां ।
स्मरन्क्लेशान्द्वादशवर्षवृत्तान्।
गाण्डीवमुक्तैरिषुभिर्महात्मा ।
सर्वा दिशो व्यावृणोदप्रमेयः ॥ ७.१४६.१०६ ॥

萨维亚萨钦希望杀尽俱卢人,追想十二年所受的苦难,这位伟大而不可测量的英雄以从甘狄拔弓射出的箭遮蔽了所有方向。

7.146.107

प्रदीप्तोल्कमभवच्चान्तरिक्षं ।
मृतेषु देहेष्वपतन्वयांसि।
यत्पिङ्गलज्येन किरीटमाली ।
क्रुद्धो रिपूनाजगवेन हन्ति ॥ ७.१४६.१०७ ॥

天空充满燃烧的流星,禽鸟落在死者的尸体上,因为那头戴冠冕、弓弦呈金黄色的英雄怒气冲冲,以阿闍婆弓击杀敌人。

7.146.108

ततः किरीटि महता महायशाः ।
शरासनेनास्य शराननीकजित्।
हयप्रवेकोत्तमनागघूर्णिता… ।
न्कुरुप्रवीरानिषुभिर्व्यापातयत् ॥ ७.१४६.१०८ ॥

于是,极负盛名的王冠者以他的大弓和能征服军队的箭……使俱卢英雄们被战马、骑士和优良的象群搅乱而遭到杀戮。

7.146.111

गदाश्च गुर्वीः परिघानयस्मया… ।
नसींश्च शक्तीश्च रणे नराधिपाः।
महान्ति शस्त्राणि च भीमदर्शनाः ।
प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः ॥ ७.१४६.१११ ॥

沉重的铁棍、铁……杵、长矛与投枪,还有,诸王啊,在战场上,那些庞大而令人恐惧的兵器,他们抓起它们,突然向普利塔之子扑去。

7.146.112

ततो युगान्ताभ्रसमस्वनं मह… ।
न्महेन्द्रचापप्रतिमं च गाण्डिवम्।
चकर्ष दोर्भ्यों विहसन्भृशं ययौ ।
दहंस्त्वहीयान्यमराष्ट्रवर्धनः ॥ ७.१४६.११२ ॥

于是,以如劫末云层般的轰鸣,伟大的……他双臂拉开如因陀罗之弓的甘狄拔弓,大笑不止,燃烧着前进;他正是增益阎摩王国的那位至高者。

7.146.113

स तानुदीर्णान्सरथान्सवारणा… ।
न्पदातिसङ्घांश्च महाधनुर्धरः।
विपन्नसर्वायुधजीवितान्रणे ।
चकार वीरो यमराष्ट्रवर्धनान् ॥ ७.१४६.११३ ॥

这位英雄,大弓手,使那些携战车与象群冲上前来的人、步兵的人群,以及在战场上武器与生命尽失的人,都成了增益阎摩王国的人。