Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.151

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.151.1

सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः ।
अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये ॥ ७.१५१.१ ॥

大王啊,信度王被杀之后,您的儿子难敌面带泪痕,忧伤沮丧,对战胜敌人毫无斗志。

7.151.2

दुर्मना निःश्वसन्दुष्टो भग्नदंष्ट्र इवोरगः ।
आगस्कृत्सर्वलोकस्य पुत्रस्तेऽर्तिं परामगात् ॥ ७.१५१.२ ॥

心中沮丧,叹息不已,烦乱不安,如同断了毒牙的毒蛇,您那得罪了整个世界的儿子陷入了极大的痛苦。

7.151.3

दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत् ।
जिष्णुना भीमसेनेन सात्वतेन च संयुगे ॥ ७.१५१.३ ॥

眼见自己的军队在战场上遭受阿周那、怖军和萨埵婆多(黑天)造成的那场可怕而巨大的屠杀,

7.151.4

स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः ।
अमन्यतार्जुनसमो न योद्धा भुवि विद्यते ॥ ७.१५१.४ ॥

他面色苍白,形容憔悴,悲伤沮丧,双眼被泪水模糊,心想世上再没有能与阿周那相比的勇士。

7.151.5

न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च ।
पार्थस्य सम्मखे स्थातुं पर्याप्ता इति मारिष ॥ ७.१५१.५ ॥

尊者啊,德罗纳、罗陀之子迦尔纳、马沙曼、俱利波,没有一人有能力在般度之子(阿周那)面前站立。

7.151.6

निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् ।
अवधीत्सैन्धवं सङ्ख्ये न च कश्चिदवारयत् ॥ ७.१५१.६ ॥

般度之子在战场上击败了我所有的大车勇士,在战斗中杀死了信度王,无人阻挡他。

7.151.7

सर्वथा हतमेवेदं कौरवाणां महद्बलम् ।
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः ॥ ७.१५१.७ ॥

俱卢的大军已被彻底摧毁,即便因陀罗(Purandara)亲自前来,也无法护佑它。

7.151.8

यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः ।
स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ॥ ७.१५१.८ ॥

那位曾被倚仗、在战场上发动兵器之战的迦尔纳,在战斗中被击败;胜车(Jayadratha)也被杀死。

7.151.9

परुषाणि सभामध्ये प्रोक्तवान्यो हि पाण्डवान् ।
स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ॥ ७.१५१.९ ॥

在朝堂之上向般度诸子说出粗暴之言的迦尔纳,在战斗中被击败;信度王也被打倒。

7.151.10

यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् ।
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥ ७.१५१.१० ॥

我曾因倚仗其勇力而把乞求和平的阿周陀(黑天)视如草芥——那迦尔纳在战斗中被击败。

7.151.11

एवं क्लान्तमना राजन्नुपायाद्रोणमीक्षितुम् ।
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥ ७.१५१.११ ॥

国王啊,你的儿子心力交瘁地前去拜见德罗纳。婆罗多之牛啊,他在整个世界眼中都是罪人。

7.151.12

ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् ।
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥ ७.१५१.१२ ॥

于是他讲述了俱卢族那场大灾难的全部经过——敌人获胜,以及持国之子们的沉没。

7.151.13

पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत् ।
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥ ७.१५१.१३ ॥

看那些加冕的国王与老师所遭受的大屠杀,而将英雄、我的祖父毗湿摩置于前列。

7.151.14

तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः ।
पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते ॥ ७.१५१.१४ ॥

杀了他之后,这贪婪的湿婆坎丁心满意足,与全体般遮罗人一道向军队的前锋推进。

7.151.15

अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना ।
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ ७.१५१.१५ ॥

另有一人,你那不可战胜的弟子萨维亚萨钦(阿周那),杀尽七个阿克绍希尼之军,也杀死了国王胜车。

7.151.16

अस्मद्विजयकामानां सुहृदामुपकारिणाम् ।
गन्ताऽस्मि कथमानृण्यं गतानां यमसादनम् ॥ ७.१५१.१६ ॥

那些愿我们胜利、曾经相助的朋友已前往阎摩之居所,我将如何偿还对他们的恩情呢?

7.151.17

ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः ।
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥ ७.१५१.१७ ॥

那些为我而努力夺取大地的地上之王,舍弃了大地的权势,如今却躺卧在大地之上。

7.151.18

सोऽहं कापुरुषः क-त्वा मित्राणां क्षयमीदृशम् ।
अश्वमेधसहस्रेण पावितुं न समुत्सहे ॥ ७.१५१.१८ ॥

我是懦夫;造成了朋友如此的毁灭,我甚至不敢以千次马祭来使自己清净。

7.151.19

मम लुब्धस्य पापस्य तथा धर्मापचायिनः ।
व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥ ७.१५१.१९ ॥

因我这贪婪、罪恶、违背法度之人,那些怀着求胜之心奋力作战者,已前往毗婆娑多(阎摩)之域。

7.151.20

कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः ।
विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥ ७.१५१.२० ॥

我这行为堕落、背叛朋友之人,为何大地不能裂开为我留出一条缝隙,在诸王的集会中?

7.151.21

योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् ।
शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥ ७.१५१.२१ ॥

我未能救下祖父毗湿摩,他躺在诸王之中,身体沾满鲜血,在战斗中被杀。

7.151.22

तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् ।
किं वक्ष्यति हि दुर्धर्षः समेत्य परलोकजित् ॥ ७.१५१.२२ ॥

当我在彼界与那征服彼界的不可战胜者相遇时,他将如何对我这卑劣、不义、背叛朋友之人说话?

7.151.23

जलसन्धं महेष्वासं पश्य सात्यकिना हतम् ।
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥ ७.१५१.२३ ॥

看那大弓手、被萨特亚基所杀的阇罗桑陀!那位为我而奋起的英勇大车将,舍弃了生命。

7.151.24

काम्भोजं निहतं दृष्ट्वा तथालम्बुसमेव च ।
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥ ७.१५१.२४ ॥

眼见甘波阇被杀,阿兰布沙亦然,还有许多其他朋友也遭杀害,如今我这活着还有何意义?

7.151.25

व्यायच्छन्तो हताः शूरा मदर्थे ये पराङ्मुखाः ।
यतमानाः परं शक्त्या विजेतुमहितान्मम ॥ ७.१५१.२५ ॥

为我竭尽全力作战、从不退缩、努力战胜我的敌人而倒下的英雄们。

7.151.26

तेषां गत्वाऽहमानृण्यमद्य शक्त्या परन्तप ।
तर्पयिष्यामि तानेव जलेन यमुनामनु ॥ ७.१५१.२६ ॥

摧毁敌人者啊,今日我将凭自己的力量去偿还他们的恩债,并沿着雅穆纳河为那些人献上水祭。

7.151.27

सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर ।
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥ ७.१५१.२७ ॥

持武器者中的最优秀者啊,我对你真诚地立誓;我以我的祭祀布施、勇力,乃至我的儿子们起誓。

7.151.28

निहत्य तान्रमे सर्वान्पाञ्चालान्पाण्डवैः सह ।
सान्तिं लब्धाऽस्मि तेषां वा रणे गन्ता सलोकताम् ॥ ७.१५१.२८ ॥

与般度之子一起杀尽所有般遮罗人后,我将欢喜;或者我在战场上战死,前往他们的世界并获得安宁。

7.151.29

सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः ।
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना ॥ ७.१५१.२९ ॥

我也将前往那些为我在战斗中与奎利丁(阿周那)作战而倒下的人中雄牛们所去的地方。

7.151.30

न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः ।
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥ ७.१५१.३० ॥

大臂者啊,我的盟友们如今已无支持,不再愿意保护我;他们认为福祉在般度之子一边,而不在我们这边。

7.151.31

स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे ।
भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि ॥ ७.१५१.३१ ॥

信守诺言者自己已在战斗中注定了死亡,而你因是阿周那的弟子而怠慢。

7.151.32

अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः ।
कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ॥ ७.१५१.३२ ॥

因此,所有希望我方获胜的人都已被杀;如今我只看见想为我方求胜的迦尔纳。

7.151.33

यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः ।
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥ ७.१५१.३३ ॥

愚钝之人若未真正了解朋友,便为某位朋友的利益而任用他,那么他的目的就会落空。

7.151.34

तादृग्रूपं कृतमिदं मम कार्यं सुहृत्तमैः ।
मोहाल्लुब्धस्य पापस्य जिह्मस्य धनमीहतः ॥ ७.१५१.३४ ॥

我的这件事就是如此,由我最亲近的朋友出于迷惑而做成,为了一个贪婪、有罪、狡诈、追求财富的人。

7.151.35

यौ मे युद्धस्य कृत्यस्य जिह्माचारैः समीयतुः ।
हतो जयद्रथश्चैव सौमदत्तिश्च विर्यवान्।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ७.१५१.३५ ॥

与我共同参与战事、行为狡诈的那两人——胜车与索摩达多的勇猛之子——已被杀;阿毗沙诃、舒罗森、尸毗与婆萨提也都被杀。

7.151.36

सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः ।
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना ॥ ७.१५१.३६ ॥

今日我将去那些为我在战斗中奋战、被戴冠者杀死的人中雄牛所在之处。

7.151.37

न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् ।
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥ ७.१५१.३७ ॥

没有他们这些人中的雄牛,我活着便毫无意义。老师,请允许我们去对抗般度之子。