摩诃婆罗多 · 章 7.152
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.152.1
सिन्धुराजे हते तात समरे सव्यसाचिना ।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥ ७.१५२.१ ॥
孩子啊,当信度王在战场上被惯用双手的阿周那所杀,同样布利什罗婆斯也被杀时,那时你的心情如何?
7.152.2
दुर्योधनेन च द्रोणस्तथोक्तः कुरसंसदि ।
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ॥ ७.१५२.२ ॥
当难敌在俱卢议会中如此对德罗纳说了之后,德罗纳又说了什么?山阇耶,请把那告诉我。
7.152.3
निष्टानको महानासीत्सैन्यानां तव भारत ।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥ ७.१५२.३ ॥
婆罗多之子啊,你军中见到信度王和布利什罗婆斯都被杀,便响起了巨大的哀号之声。
7.152.4
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे ।
येन मन्त्रैण निहताः शतशः क्षत्रियर्षभाः ॥ ७.१५२.४ ॥
他们轻视你儿子的全部计谋,正是凭借那计谋,数以百计的刹帝利中的雄杰被杀。
7.152.5
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः ।
मुहूर्तमिव च ध्यात्वा भृशमार्तोऽभ्यभाषत ॥ ७.१५२.५ ॥
德罗纳听到你儿子的那番话,心中烦恼,仿佛沉思了片刻,极为痛苦地开口说道。
7.152.6
दुर्योधन किमेवं मां वाक्शरैरुपकृन्तसि ।
अजय्यं सततं सङ्ख्ये ब्रुवाणं सव्यसाचिनम् ॥ ७.१५२.६ ॥
难敌啊,你为何如此用言语之箭伤我,口中说着在战场上永远不可战胜的阿周那?
7.152.7
एतेनवार्जुनं ज्ञातुमलं कौरव संयुगे ।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥ ७.१५२.७ ॥
俱卢之子啊,在战斗中由此便可知晓阿周那:怜悯者(湿婆)之子……在冠冕者的护佑下,式基丹迪杀死了毗湿摩。
7.152.8
अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः ।
तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥ ७.१५२.८ ॥
见到在战斗中连天神与阿修罗也无法杀死的人被杀,我便知道此事必然如此,婆罗多啊。
7.152.9
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्म हि ।
तस्मिन्निपतिते भीष्मे कं शेषं पर्युपास्महे ॥ ७.१५२.९ ॥
我们曾视为三界中人间第一勇士的毗湿摩既已倒下,那么在剩下的人中,我们还能依靠谁呢?
7.152.10
यान्स्म तान्ग्लहते तात शकुनिः कुरुसंसदि ।
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः। ॥ ७.१५२.१० ॥
亲爱的,沙古尼在俱卢议会中掷的骰子并非骰子;你那锐利、使敌人灼痛的箭,才是骰子。
7.152.11
अक्षांस्तु मन्यसे बाणाञ्छोभमानाञ्छिताञ्शरान् ।
त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः।
तांस्तदाऽऽख्यायमानस्त्वं विदुरेण न बुद्धवान् ॥ ७.१५२.११ ॥
你以为是骰子的那些闪亮锐利的箭,亲爱的,正是般度之子所发的箭,如今正在击倒我们;尽管维杜罗向你讲明,你却不明白。
7.152.12
यास्ता विलपतश्चापि विदुरस्य महात्मनः ।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥ ७.१५२.१२ ॥
那位伟大的维杜罗哀叹却坚定地为你的福祉所说的吉祥之言,你没有听进去。
7.152.13
तदिदं वर्तते घोरमागतं वैशसं महत् ।
तस्यावमानाद्वाक्यस्य दुःशासनकृतेन च ॥ ७.१५२.१३ ॥
这场可怕的大灾难降临了,因为轻视了他的话,也因为难降敌手所为的事情(即难敌之子、Duḥśāsana 所作之事)。
7.152.14
योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम् ।
स्वमतं कुरुते मूढः स शोच्यो नचिरादिव ॥ ७.१५२.१४ ॥
愚者轻视善意真诚朋友的有益之言,而只依自己的意见行事,不久便会成为可怜之人。
7.152.15
यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम् ।
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम् ॥ ७.१५२.१५ ॥
在我们眼前,他们把克利什那(德罗波蒂)带进了那个大会——她出身高贵,并非不配,且遵行一切法。
7.152.16
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत् ।
नोचेत्पापं परे लोके त्वमृच्छेथास्ततोऽधिकम् ॥ ७.१५२.१६ ॥
甘陀利之子啊,那不义的大果报已经落在你身上;否则,在来世你将遭受比这更大的罪。
7.152.17
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह ।
प्राव्राजयस्तदाऽरण्ये रौरवाजिनवाससः ॥ ७.१५२.१७ ॥
还有,你用卑劣手段在赌局中击败了那些般度子,随后将他们驱逐到森林中,身穿罗露鹿皮衣。
7.152.18
पुत्राणामिव चैतेषां धर्ममाचरतां सदा ।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥ ७.१५२.१८ ॥
世上除我以外,谁会背叛这些时常行法、如同我子的人?我本是以婆罗门之言说话的人。
7.152.19
पाण्डवानामयं कोपस्त्वया शकुनिना सह ।
आहृतो धृतराष्ट्रस्य सम्मते कुरु संसदि ॥ ७.१५२.१९ ॥
般度之子的这份愤怒,是你与沙古尼一同招致的,经持国王同意,在俱卢的集会之中。
7.152.20
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः ।
क्षत्तुर्वाक्यमनादृत्य त्वयाऽब्यस्तः पुनः पुनः ॥ ७.१५२.२० ॥
你与难降结合,受迦尔纳鼓动,无视刹多(维杜罗)的劝告,一再地挑动此事。
7.152.21
स हि नः क्रोधवृक्षश्च कृतमूलो महात्मनाम् ।
तस्य पुष्पफले राजन्नुपभुङ्क्ष्व महाबल ॥ ७.१५२.२१ ॥
那愤怒之树已在我们这些大德之人中深深扎根;大王啊,大力者啊,请享用它的花与果吧。
7.152.22
यत्ताः सर्वे पराभूताः पर्यवारयतार्जुनम् ।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥ ७.१५२.२२ ॥
你们虽都准备就绪,却屡遭挫败,依仗信度王,将阿周那团团围住;他在你们之中究竟如何被杀?
7.152.23
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति ।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥ ७.१५२.२३ ॥
当你、迦尔纳、克里帕、沙利亚和阿湿缚他玛都还活着的时候,信度王是如何死去的,哦,俱卢之裔?
7.152.24
युध्यन्तः सर्वराजानस्तेजस्विन उपासते ।
सिन्धुराजं परित्रातुं वो मध्ये कथं हतः ॥ ७.१५२.२४ ॥
所有奋战的英勇诸王都在近旁守护信度王,他却在你们之中被杀,这是如何发生的?
7.152.25
मय्येव हि विशेषेण तथा दुर्योधन त्वयि ।
आशंसत परित्राणमर्जुनात्स महीपतिः ॥ ७.१५२.२५ ॥
因为那位君主特别寄望于我和你,难敌,希望免于阿周那的攻击。
7.152.26
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् ।
न किञ्चिदनुपश्यामि जीवितस्थानमात्मनः ॥ ७.१५२.२६ ॥
既然他未能从法尔古那(阿周那)处获得救护,我便看不到自己还有何处可以存活。
7.152.27
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य संयुगे ।
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥ ७.१५२.२७ ॥
我看到自己在战斗中如同被德里什塔德尤姆纳压垮般沉没,未能与他及尸犍丁一同杀尽般遮罗人。
7.152.28
तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि ।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥ ७.१५२.२८ ॥
既然如此,我正被痛苦灼烧,你为何只用言语之箭割伤我?婆罗多,你既无力保护信度王。
7.152.29
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः ।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥ ७.१५२.२९ ॥
你既然在战场上看不到那位信守诺言、行事不倦的毗湿摩的金色旗帜,又怎能期望获胜?
7.152.30
मध्ये महारथानां किं शेषं तत्र मन्यसे ।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥ ७.१५२.३० ॥
在众大车将之中,你以为那里还剩下什么?连布利什拉瓦斯也已被杀,你以为那里还剩下什么?
7.152.31
कृप एव च दुर्धर्षो यदि जीवति पार्थिव ।
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥ ७.१५२.३१ ॥
君王啊,若不可战胜的克里帕尚在,我敬重他,他没有走信度王的道路。
7.152.32
यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै ।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ॥ ७.१५२.३२ ॥
考罗婆啊,我在那里看见毗湿摩被杀,而你在旁观看,你的幼弟难近夺行了艰难的事业。
7.152.33
अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ।
न ते वसुन्धराऽस्तीति तदाहं चिन्तये नृप ॥ ७.१५२.३३ ॥
君王啊,在战场上,即便是与因陀罗同在的诸神也几乎无法杀死的人,我想你的大地已不再属于你。
7.152.34
इमानि पाण्डवानां च सृज्जयानां च भारत ।
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत ॥ ७.१५२.३४ ॥
婆罗多啊,般度之子和娑闍耶人的这些军队今天一同向我冲来,婆罗多啊。
7.152.35
नाहत्वा सर्वपाञ्चलान्कवचस्य विमोक्षणम् ।
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव ॥ ७.१५२.३५ ॥
不杀尽所有般遮罗人,我不会卸下铠甲;持国之子啊,我将在战场上为你做有益之事。
7.152.36
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे ।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥ ७.१५२.३६ ॥
君王啊,你应告诉我的儿子阿湿婆寒摩:在战斗中保护自己性命时,不可放走索摩迦人。
7.152.37
यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय ।
आनृशंस्ये दमे सत्ये चार्जवे च स्थिरो भव ॥ ७.१५२.३७ ॥
遵守父亲教导你的话。在仁慈、克制、真实与正直中坚定不移。
7.152.38
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् ।
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः ॥ ७.१५२.३८ ॥
精通法、利、欲,又不伤害法与利。反复记住:要做以法为先的事。
7.152.39
चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः ।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥ ७.१५२.३९ ॥
以目光与心意令婆罗门欢喜,并依自己的能力尊敬他们。不可做令他们不快之事,因为他们如火焰之舌。
7.152.40
एष त्वहमनीकानि प्रविशाम्यरिसूदन ।
रणाय महते राजंस्त्वया वाक्शरपीडितः ॥ ७.१५२.४० ॥
灭敌者啊,我现在进入军中,国王啊,为了这场大战,因你如箭般的言语而受伤。
7.152.41
त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय ।
रात्रावपि च योद्धव्याः संरब्धाः कुरुसृञ्जयाः ॥ ७.१५२.४१ ॥
你啊,难敌,若你有能力,就守护军队。即便夜间,怒火中烧的俱卢与斯林遮人也须作战。
7.152.42
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्वसृञ्जयान् ।
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥ ७.१५२.४२ ॥
说完这话,德罗纳便向般度族与斯林遮人进发,夺去刹帝利的光辉,如太阳夺去星辰的光芒。