摩诃婆罗多 · 章 7.155
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.155.1
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली ।
उक्ता दुर्योधनं मन्दं मम शास्त्रातिगं सुतम् ॥ ७.१५५.१ ॥
那时,愤怒而强大的师尊进入了般度五子之中;他曾对我那违背经典的愚蠢之子难敌说过话。
7.155.2
प्रविश्य विचरन्तं च रथे शूरमवस्थितम् ।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥ ७.१५५.२ ॥
般度之子们进入战场后,如何包围了站在战车上来回驰骋的英雄、大弓手德罗纳?
7.155.3
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे ।
के चोत्तरमरक्षन्त निघ्नतः शास्त्रवान्बहून् ॥ ७.१५५.३ ॥
在大战中,谁守护了师尊的右翼?又是谁守护了那位善用兵器、正在击杀众多敌人的人的左翼?
7.155.4
के चास्य पृष्ठतोऽन्वासन्वीरा वीरस्य योधिनः ।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः ॥ ७.१५५.४ ॥
谁是跟随在这位英雄身后的英勇战士?又是谁,作为他的敌人,站在他的前方的战车武士?
7.155.5
मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम् ।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा ॥ ७.१५५.५ ॥
我想他们被不合时节的酷寒所侵袭;他们颤抖着,如同冬季里的牛群发抖。
7.155.6
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः ।
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः ॥ ७.१५५.६ ॥
那位大弓手,不可战胜,是所有持械者中最优秀的,他进入般遮罗人之中,在战车的道路上如舞蹈般来回驰骋。
7.155.7
निर्दहन्सर्वसैन्यानि पाञ्चालानां रथर्षभः ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ ७.१५५.७ ॥
焚烧般尽般遮罗之全军的车将之牛,如愤怒的彗星,他是如何遭遇死亡的?
7.155.8
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च ।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥ ७.१५५.८ ॥
傍晚,杀死信度王后,与国王会合,阿周那与大弓手萨提亚基直奔德罗纳而去。
7.155.9
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः ।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम् ॥ ७.१५५.९ ॥
同样,坚战与般度之子毘湿摩西那迅速率领两支独立的军队,直奔德罗纳而去。
7.155.10
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः ।
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः।
मात्स्याः साल्वाः ससेनाश्च द्रोणमेव ययुर्युधि ॥ ७.१५५.१० ॥
同样,智慧的那库拉、不可战胜的萨哈德瓦、德里史塔笃姆那、舍塔尼迦、毘罗吒与甘伽耶人,以及摩蹉人与萨尔瓦人率军,在战斗中直奔德罗纳而去。
7.155.11
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः ।
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥ ७.१५५.११ ॥
国王德鲁帕达亦受般遮罗人护卫,大王啊,他是德里史塔笃姆那之父,径直向德罗纳推进。
7.155.12
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः ।
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम् ॥ ७.१५५.१२ ॥
德罗波蒂的诸子、大弓手以及罗刹迦托特迦,率军折返,转向那位大光明的德罗纳。
7.155.13
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः ।
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥ ७.१५५.१३ ॥
普罗跋陀罗与般遮罗的六千名攻击勇士,以施康丁居前,转而直指德罗纳本人。
7.155.14
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः ।
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥ ७.१५५.१४ ॥
同样,般度诸子的其他人中之虎、大战车勇士们也一同返回,直指婆罗门中最优秀的德罗纳。
7.155.15
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ ।
बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥ ७.१५५.१५ ॥
婆罗多之牛啊!当那些英雄前往战斗之后,降临了一个可怕的夜晚,增添了怯懦者的恐惧。
7.155.16
योधानामशिवा रौद्रा राजन्नन्तकगामिनी ।
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥ ७.१५५.१६ ॥
国王啊!那时那夜对战士们而言是不祥、凶猛、通往死亡之夜,终结了象、马与人的生命。
7.155.17
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः ।
न्यवेदयन्भयं घोरं सज्वालकबलैर्मुखैः ॥ ७.१५५.१७ ॥
在那可怕的夜里,四面嚎叫的豺狼以燃烧的口吻宣告着可怕的恐惧。
7.155.18
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् ।
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः ॥ ७.१५५.१८ ॥
猫头鹰也出现了,预示着巨大的恐惧;尤其在俱卢军中,它们极为可怖。
7.155.19
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् ।
भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥ ७.१५५.१९ ॥
王中之王啊,于是两军之中响起巨大的喧声,大鼓(bherī)的轰鸣与 mṛdaṅga 鼓的咚咚声交织。
7.155.20
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः ।
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥ ७.१५५.२० ॥
象群的吼叫、马匹的嘶鸣与蹄声交织,四面八方顿时一片喧嚣。
7.155.21
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् ।
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥ ७.१५५.२१ ॥
于是,大王啊,黄昏时分,德罗纳与斯林遮耶人之间四面展开了极其可怖的战斗。
7.155.22
तमसा चावृते लोके न प्राज्ञायत किञ्चन ।
सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥ ७.१५५.२२ ॥
世界被黑暗笼罩,什么也辨认不出;军队扬起的尘土四面升腾,遮蔽了一切。
7.155.23
नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥ ७.१५५.२३ ॥
人、马、象的鲜血混杂在一起;我们因昏乱而被遮蔽,看不见大地的尘土。
7.155.24
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते ।
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥ ७.१५५.२४ ॥
夜里,如同山上燃烧的竹林,坠落的兵器发出可怖的噼啪之声。
7.155.25
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा ।
फेत्कारैर्हेषितैः शब्दैः सर्वमैवाकुलं बभौ ॥ ७.१५५.२५ ॥
鼓声、大鼓声、jharjhara 与 paṭaha 的轰鸣,加上呼喊与嘶鸣,一切都显得骚乱不安。
7.155.26
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते ।
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥ ७.१५५.२६ ॥
大王啊,夜幕初临,黑暗笼罩,无论己方还是敌方都无法辨认;一切仿佛陷入疯狂。
7.155.27
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम् ।
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽनशत् ॥ ७.१५५.२७ ॥
诸王之主啊,地上的尘土被鲜血压住,金饰的铠甲与装饰使黑暗弥漫开来。
7.155.28
ततः सा भारती सेना मणिहेमविभूषिता ।
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥ ७.१५५.२८ ॥
婆罗多之雄啊,那支以宝石与黄金装饰的婆罗多军队,在夜里看上去就像缀满星辰的天空。
7.155.29
गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला ।
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥ ७.१५५.२९ ॥
充满豺狼的嗥叫,布满长矛与旗帜,回荡着象群的吼声,可怖异常,夹杂着嘶嘶声与呼号。
7.155.30
तत्राभवन्महाशब्दस्तुमुलो रोमहर्षणः ।
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः ॥ ७.१५५.३० ॥
那里升起一阵巨大而喧嚣的声响,令人毛骨悚然,充满四面八方,如同因陀罗的雷霆轰鸣。
7.155.31
सा निशीथे महाराज सेनाऽदृश्यत भारती ।
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥ ७.१५५.३१ ॥
大王啊,午夜时分,那支婆罗多军队显现了,被臂钏、耳环、项链和兵器照得通明。
7.155.32
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ ७.१५५.३२ ॥
那里,装饰着赡部金的象与车在夜里显现,宛如闪电伴随的云。
7.155.33
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः ।
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥ ७.१५५.३३ ॥
矛、枪、棍、箭、杵、长矛与剑纷纷飞出,闪耀如火。
7.155.34
दुर्योधनपुरोवातां रथनागवलाहकाम् ।
वादित्रघोषस्तनितां चापविद्युद्व्वजैर्वृताम् ॥ ७.१५५.३४ ॥
杜尔约达那在前如风,车象如云,乐器之声如雷,弓、闪电与旗帜环绕。
7.155.35
द्रोणपाण्डवपर्जन्यां खङ्गशक्तिगदाशनिम् ।
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम् ॥ ७.१५५.३५ ॥
德罗纳与般度诸子如雨云,刀、枪、棍如雷电,箭雨与神兵如风,充满落下兵器的炽热。
7.155.36
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लुवाम् ।
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः ॥ ७.१५५.३६ ॥
那条可怖、惊人、凶猛、夺命、不可渡越且极其可怕的河流中,渴望战斗的勇士们踏了进去。
7.155.37
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते ।
भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ ७.१५५.३७ ॥
在那可怕的夜幕降临之时,大声喧嚣回荡,使怯懦者恐惧,使英雄者欢喜增长。
7.155.38
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रुवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥ ७.१५५.३८ ॥
在那极为可怕、凶险的夜战进行之时,愤怒的般度子孙与萨郎阁耶人一同向德罗纳猛冲而去。
7.155.39
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः ।
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥ ७.१५५.३९ ॥
大王啊,凡从前线退回的大车武士,他都使他们全部转身败走;有的则被他送往阎摩的居所。
7.155.40
तानि नागसहस्राणि रथानामयुतानि च ।
पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे ॥ ७.१५५.४० ॥
夜幕初临之时,德罗纳独自以铁箭穿透了那数千头象、数万辆战车、数百万步卒与骑兵之众,乃至数亿之众。