摩诃婆罗多 · 章 7.157
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.157.1
प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा ।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥ ७.१५७.१ ॥
萨提亚基杀死了坐下绝食求死的儿子时,索摩达多极为愤怒,对萨提亚基说了这些话。
7.157.2
क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः ।
तं त्वं सात्वत सन्तज्य दस्युधर्मे कथं रतः ॥ ७.१५७.२ ॥
你抛弃了诸神和大德之人视为至高的刹帝利之法,哦,萨special瓦塔,怎么会沉溺于强盗的行径?
7.157.3
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते ।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥ ७.१५७.३ ॥
一位专注于刹帝利之法的智者,怎么会在战场上击打一个转身背对、可怜、放下武器又乞求的人?
7.157.4
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥ ७.१५७.४ ॥
在瓦利什尼族中,那里著名的大车战士只有两位:大臂的普罗迪尤姆纳,还有你,哦萨特瓦塔,在战斗中。
7.157.5
कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे ।
नृशंसं बत दीनं च तादृशं कृतवानसि ॥ ७.१५७.५ ॥
唉,你怎么能对坐下绝食求死、双臂已被普利塔之子斩断的人,做出如此残忍可耻的行为?
7.157.6
कर्ममस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे ।
अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा ॥ ७.१५७.६ ॥
恶人啊,在战斗中承受你所作恶行的果报吧。愚昧的人啊,今天我要用箭猛力斩下你的头颅。
7.157.7
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च ।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥ ७.१५७.७ ॥
萨特瓦塔啊,我以我的两个儿子、祭祀之果与善行起誓:若在今夜过去之前,我不杀你这自以为英雄之人——
7.157.8
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् ।
न हन्यां नरके घोरे पतेयं वृष्णिपांसन ॥ ७.१५७.८ ॥
若我不杀你——你未受普利塔之子阿周那的护佑,连同你的儿子与弟弟——我将堕入可怕的地狱,毁灭вриш尼族的人啊。
7.157.9
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः ।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥ ७.१५७.९ ॥
说罢,极为愤怒的大力者索摩达塔吹响海螺,发出如狮吼般的咆哮。
7.157.10
ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः ।
सात्यकिर्भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ॥ ७.१५७.१० ॥
于是莲花瓣般眼睛、狮牙般利齿、难以逼近的萨提亚基,极为愤怒地对索摩达塔说道。
7.157.11
कौरवेय न मे त्रासः कथञ्चिदपि विद्यते ।
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन ॥ ७.१५७.११ ॥
哦,俱卢之子,即使与你和其他人交战,我心中也绝无丝毫恐惧。
7.157.12
यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि ।
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव ॥ ७.१५७.१२ ॥
即使你在全军护卫之下与我交战,哦,俱卢之子,我心中也不会因你而生出一丝悲伤。
7.157.13
युद्धसारेण वाक्येन असतां सम्मतेन च ।
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया ॥ ७.१५७.१३ ॥
以战斗的精髓,以恶人的言辞与赞同,我无法被吓倒;我立于刹帝利的行为之中——因为你。
7.157.14
यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप ।
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते ॥ ७.१५७.१४ ॥
人主啊,若你今日有与我交战之意,便无情地以利箭攻击吧;我也攻击你。
7.157.15
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।
शलश्चैव महाराज भ्रातृव्यसनकर्षितः ॥ ७.१५७.१५ ॥
大王啊,你那英勇的儿子、大车士布利史罗婆斯已被杀死,沙利亚也因兄弟的不幸而痛苦不堪。
7.157.16
त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम् ।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः ॥ ७.१५७.१६ ॥
今日我也要将你连同你的儿子和亲属一并杀死;现在在战场上准备好,俱卢之子,你是大车士。
7.157.17
यस्मिन्दानं दमः शौचमहिंसा हीर्धृतिः क्षमा ।
अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥ ७.१५७.१७ ॥
在国王坚战身上,布施、克制、清净、不害、知耻、坚定与忍耐,都永不衰减。
7.157.18
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।
सकर्णसौबलः सङ्ख्ये विनाशमुपयास्यसि ॥ ७.१५७.१८ ॥
借着那以鼓为旗者(阿周那)的威力,你从前已被击倒;你将与迦尔纳和沙恭尼一同在战斗中走向毁灭。
7.157.19
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ॥ ७.१५७.१९ ॥
我以克里希那的双足和我祭祀布施的功德发誓:若我在盛怒中不在战斗中杀你这罪人及你的诸子,
7.157.20
अपयास्यसि चोत्त्यक्त्वा रणं मुक्तो भविष्यसि ॥ ७.१५७.२० ॥
你将弃战而逃,于是便得以解脱。
7.157.21
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ ।
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ॥ ७.१५७.२१ ॥
二人如此互相言语后,怒火中烧、双目赤红的两位人中俊杰,便开始降下箭雨。
7.157.22
ततो रथसहस्रेण नागानामयुतेन च ।
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥ ७.१५७.२२ ॥
于是难敌率千辆战车与万头象,包围了索摩达多,屹立不动。
7.157.23
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः ।
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः।
श्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥ ७.१५७.२३ ॥
诸持兵器者中最优秀的沙古尼,极为愤怒,被子孙与如因陀罗般勇武的兄弟们环绕;你的内弟,大臂的青年,身躯坚硬如金刚。
7.157.24
साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥ ७.१५७.२४ ॥
那位智者的十万余匹战马从四面八方护卫着大弓手索摩达多。
7.157.25
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः ॥ ७.१५७.२५ ॥
在勇士们的保护下,他遮蔽了萨提亚奇;见他被箭矢覆盖,便以弯曲箭杆的箭射去。
7.157.26
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ।
अभ्यरक्षन्महाबाहुः सात्वतं सत्यविक्रमम् ॥ ७.१५७.२६ ॥
愤怒的德里斯塔笃姆那率大军前进;臂力强大的他保护了真正勇猛的萨特瓦塔(萨提亚奇)。
7.157.27
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः ।
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥ ७.१५७.२७ ॥
大王啊,如同被狂风掀起的海洋咆哮,军队的洪流彼此冲击,发出轰鸣。
7.157.28
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः ।
सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम् ॥ ७.१५७.२८ ॥
索摩达多以九支箭射穿萨特瓦塔(萨提亚奇);萨提亚奇也以九箭击中这位俱卢雄牛。
7.157.29
सोऽतिविद्धो बलवता समरे दृढधन्विना ।
रथोपस्थं समासाद्य मुमोह गतचेतनः ॥ ७.१५७.२९ ॥
在战斗中被强大而坚定的弓箭手重创,他来到战车前部,失去知觉而昏厥。
7.157.30
तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः ।
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥ ७.१५७.३० ॥
见他昏乱,御者急忙将英雄、大车战士索摩达多带离战场。
7.157.31
तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम् ।
अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया ॥ ७.१५७.३१ ॥
德罗纳见他昏迷,被尤尤陀那的箭所伤,便想杀死这位雅达瓦英雄,向他冲去。
7.157.32
तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः ।
परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम् ॥ ७.१५७.३२ ॥
他们看见他走来,便以坚战为首,将这位伟大的雅度最优者团团围住,想要保护他。
7.157.33
ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः ।
बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया ॥ ७.१५७.३३ ॥
于是德罗纳与般度之子们开始了战斗,正如往昔波利与诸神为征服三界而战一般。
7.157.34
ततः सायकजालेन पाण्डवानीकमावृणोत् ।
भारद्वाजो महातेजा विव्याध च युधिष्ठिरम् ॥ ७.१५७.३४ ॥
于是光辉巨大的婆罗堕遮之子以箭网笼罩般度军,并射中了坚战。
7.157.35
सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः ।
भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा ॥ ७.१५७.३५ ॥
他以十支箭射中萨提亚基,以二十支箭射中波尔沙塔(德里斯塔敦尤那),以九支箭射中怖军,又以五支箭射中无种。
7.157.36
सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम् ।
द्रौपदेयान्महाबाहुः पञ्चभिः पञ्जभिः शरैः ॥ ७.१५७.३६ ॥
他以八支箭射中偕天,以一百支箭射中湿婆坎丁;这位大臂者又以五支箭分别射中德罗波蒂的诸子。
7.157.37
विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः ।
युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे।
अन्यांश्च सैनिकान्विद्व्वा युधिष्ठिरमुपाद्रवत् ॥ ७.१५७.३७ ॥
他以八支箭射中毗罗吒和摩蹉,以十支箭射中德鲁波陀,以三支箭射中优陀摩尼由,以六支箭射中乌塔摩奥佳斯,在战斗中又击杀其他士兵,然后冲向坚战。
7.157.38
ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः ।
प्राद्रवन्वै भयाद्राजन्सार्तनादा दिशो दश ॥ ७.१५७.३८ ॥
般杜之子的那些士兵被德罗纳击打,大王啊,他们因恐惧而哀号,向十方四散奔逃。
7.157.39
काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फल्गुनः ।
किञ्चिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद्द्रुतम् ॥ ७.१५७.३९ ॥
然而,见那支军队被德罗纳折磨,法尔古那略感愤怒,般度之子迅速向他的老师逼近。
7.157.40
दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे ।
सन्न्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम् ॥ ७.१५७.४० ॥
见德罗纳和可畏的阿周那在战场上向他们冲来,坚战的那支军队又转身退却。
7.157.41
ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः ॥ ७.१५७.४१ ॥
于是,婆罗堕阁之子德罗纳与般度诸子之间的战斗再次爆发。
7.157.42
द्रोणस्तव सुतै राजन्सर्वतः परिवारितः ।
व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः ॥ ७.१५७.४२ ॥
大王啊,德罗纳被你的儿子们从四面包围,他冲散了般度之子的军队,如同火焰吹散一堆棉絮。
7.157.43
तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम् ।
राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम् ॥ ७.१५७.४३ ॥
国王啊,见到德罗纳如燃烧的太阳,光辉如熊熊烈火,以箭为光芒,不停地、极其强烈地。
7.157.44
मण्डलीकृतधन्वानं तपन्तमिव भास्करम् ।
दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत् ॥ ७.१५७.४४ ॥
无人能阻挡他:他将弓拉成圆形,如烈日般灼热,在军中焚烧敌人。
7.157.45
योयो हि प्रमुखे तस्य तस्थौ द्रोणस्य पुरूषः ।
तस्यतस्य शिरश्छित्त्वा ययुर्द्रोणशराः क्षितिम् ॥ ७.१५७.४५ ॥
凡站在德罗纳面前的每一个人都被斩首,德罗纳的箭矢纷纷落向大地。
7.157.46
एवं सा पाण्डवी सेना वध्यमाना महात्मना ।
प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः ॥ ७.१५७.४६ ॥
就这样,潘达瓦军队被这位大德者杀戮,再次惊恐逃散,而萨维亚萨钦(阿周那)在旁观看。
7.157.47
सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत ।
गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति ॥ ७.१५७.४७ ॥
婆罗多的后裔啊,夜间见军队被德罗纳彻底击溃,胜利者阿周那对戈文达说:“驱车前往德罗纳的战车。”
7.157.48
ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान् ।
चोदयामास दाशार्हो हयान्द्रोणरथं प्रति ॥ ७.१५७.४८ ॥
于是达舍尔哈的后裔(克里希那)驱策马匹,它们的光泽如白银、牛奶、茉莉与明月,朝德罗纳的战车奔去。
7.157.49
भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम् ।
स्वसारथिमुवाचेदं द्रोणानीकाय मां वह ॥ ७.१५७.४९ ॥
婆罗多之子怖军也看到法尔古那(阿周那)向德罗纳而去,便对御者说:"把我带到德罗纳的军队那里去。"
7.157.50
सोऽपि तस्य वचः श्रुत्वा विशोकोऽवहयद्वयान् ।
पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम ॥ ७.१५७.५० ॥
他听了这话,心中无忧,驱策马匹紧随诚实的胜者阿周那之后,婆罗多中的最好者啊。
7.157.51
तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ ।
पाञ्चालाः सृञ्जया मात्स्याश्चेदिकारूशकोसलाः।
अन्वगच्छन्महाराज केकयाश्च महारथाः ॥ ७.१५७.५१ ॥
大王啊,看到那两位兄弟奋力冲向德罗纳的军队,般遮罗、鲜闍耶、摩蹉、遮提、迦鲁沙与憍萨罗诸王,以及大车战士凯迦耶人,都紧随其后。
7.157.52
ततो राजन्नभूद्वोरः सङ्ग्रामो रोमहर्षणः ॥ ७.१५७.५२ ॥
大王啊,于是爆发了一场激烈的战斗,令人毛骨悚然。
7.157.53
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः ।
महद्भ्यां रथबृन्दाभ्यां बलं जगृहतुस्तव ॥ ७.१५७.५३ ॥
毗跋蹉(阿周那)夺取了右翼,狼腹(怖军)夺取了左翼,各率一支庞大的战车部队,就这样扼住了你的军队。
7.157.54
तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ ।
धृष्टद्युम्नोऽभ्ययाद्राजन्सात्यकिश्च महाबलः ॥ ७.१५७.५४ ॥
大王啊,看到那两位人中虎豹——婆罗多之子怖军和财富征服者,持盾者(德恃金)前进,强大的萨提亚基也一同前进。
7.157.55
चण्डवाताभिपन्नानामुदधीनामिव स्वनः ।
आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नतां ॥ ७.१५७.५५ ॥
大王啊,那时的喧声如同被猛烈狂风所袭的大海,各路军队的洪流彼此冲击。
7.157.56
सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे ।
द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥ ७.१५७.५६ ॥
大王啊,因怒于苏摩达蒂之死,见萨蒂亚基在战场上,德罗纳之子决意杀戮,冲向他;那如同黑色山峰般的人从天空降下一场树木的暴雨。
7.157.57
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति ।
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ॥ ७.१५७.५७ ॥
见他冲向萨蒂亚基的战车,极为愤怒的怖军之子拦住了那个敌人。
7.157.58
कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम् ।
महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम् ॥ ७.१५७.५८ ॥
登上一辆巨大的铁制战车,极其可怖,以熊皮覆盖,各部之间相隔三十那尔瓦。
7.157.59
विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम् ।
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः ॥ ७.१५७.५९ ॥
装备着分散的机械与甲胄,咆哮如大片乌云,由形如大象的挽兽所驾,不是马,也不是象。
7.157.60
विक्षिप्तपक्षचरणविवृताक्षेण कूजता ।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम् ॥ ७.१५७.६० ॥
双翼与双足张开,双目圆睁,鸣叫不已,在高高竿顶的旗帜上,以鹫王为饰。
7.157.61
लोहितार्द्रपताकं तु आन्त्रमालाविभूषितम् ।
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥ ७.१५७.६१ ॥
登上一辆巨大的战车,旗帜被血浸透,装饰着肠子的花环,配有八轮。
7.157.62
शूलमुद्गरधारिण्या शैलपादपहस्तया ।
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥ ७.१५७.६२ ॥
被一支由面目可怖的罗刹组成的阿克绍伊尼军团所包围,他们持矛执棍,手中握着山峰与树木。
7.157.63
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः ।
युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥ ७.१५७.६३ ॥
见他高举大弓,诸王惊惧,如同在劫末之时手持权杖的死神。
7.157.64
ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम् ।
दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम् ॥ ७.१५७.६४ ॥
此时,他如山峰一般,形貌可怖,令人恐惧,口中獠牙狰狞,耳如尖桩,颌骨巨大。
7.157.65
ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम् ।
महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम् ॥ ७.१५७.६५ ॥
头发竖立,双目扭曲,面容炽烈,腹部凹陷,咽喉如巨大深渊,头发被王冠遮盖。
7.157.66
त्रासनं सर्वभूतानां व्यात्ताननभिवान्तकम् ।
वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम् ॥ ७.१५७.६६ ॥
见他光焰熊熊而来,如张口的死神,令一切众生恐惧,令敌人惊乱。
7.157.67
तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम् ।
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥ ७.१५७.६७ ॥
看到手持大弓的罗刹之王迦陀迦支,你儿子的军队因恐惧而痛苦,骚动起来,如同被风搅动漩涡、掀起高浪的恒河。
7.157.68
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ ७.१५७.६८ ॥
被迦陀迦支发出的狮吼吓坏,大象尿了出来,人们极其痛苦。
7.157.69
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ ॥ ७.१५७.६९ ॥
于是四面八方降下了极大的石雨,由在黄昏时分力量倍增的罗刹们抛向大地。
7.157.70
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः ।
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टसास्तथा ॥ ७.१५७.७० ॥
铁轮、布舒南迪箭、长矛与标枪、三叉戟、沙塔格尼和帕提沙剑也不断落下。
7.157.71
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥ ७.१५७.७१ ॥
看到那场猛烈而极其可怖的战斗,诸王、你的儿子们和迦尔纳痛苦万分,向四面八方逃散。
7.157.72
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे ।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्भिताम् ॥ ७.१५७.७२ ॥
那里只有德罗纳之子,以武器之力自负而骄傲,他并不惊慌,用箭摧毁了迦陀迦支所造的幻术。
7.157.73
विहतायां तु मायायाममर्षी स घटोत्कचः ।
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन्।
भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः ॥ ७.१५७.७३ ॥
幻术被破之后,不能忍耐的迦托迦奇射出可怕的箭;它们如同被愤怒激得昏迷的毒蛇钻入蚁垤一般,迅速射入阿湿婆塔曼。
7.157.74
ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम् ।
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥ ७.१५७.७४ ॥
那些箭身沾满鲜血,刺穿了舍罗陀瓦蒂之子(克里巴),迅速没入大地;箭羽是金色的,箭头在石上磨利。
7.157.75
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् ।
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥ ७.१५७.७५ ॥
然而阿湿婆塔曼愤怒了,手法敏捷而勇猛,以十支箭射穿了极为愤怒的迦托迦奇。
7.157.76
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु ।
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥ ७.१५७.७६ ॥
德罗纳之子在他的要害处给予重创,迦托迦奇极为痛苦,便抓起一个有十万辐条的圆盘。
7.157.77
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् ।
अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया ॥ ७.१५७.७७ ॥
那个边缘锋利如剃刀、光辉如初升朝阳、镶饰着宝石与金刚石的圆盘,巴伊玛塞尼(迦托迦奇)欲杀阿湿婆塔曼,将其掷出。
7.157.78
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः ।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥ ७.१५७.७८ ॥
那圆盘疾速飞去,却被德罗纳之子的箭矢改变了方向,如同不幸之人的心愿一般落空,坠落于地。
7.157.79
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् ।
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ ७.१५७.७९ ॥
此时,迦陀迦查见飞轮被击落,迅速以箭矢遮蔽德隆尼,如罗睺遮蔽太阳。
7.157.80
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः ।
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ ७.१५७.८० ॥
迦陀迦查光辉的儿子,如同碎裂的黑膏堆,拦住了前进的德隆尼,如山王阻挡风。
7.157.81
पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा ।
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः ॥ ७.१५७.८१ ॥
毗摩先之孙以黑色节节的箭矢闪耀,如同须弥山被云雨之流所笼罩。
7.157.82
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥ ७.१५७.८२ ॥
然而阿湿婆陀摩不为所动,其勇猛堪比楼陀罗、优般陀罗与因陀罗,以一箭斩断了黑节战士的旗帜。
7.157.83
द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ ७.१५७.८३ ॥
两箭射倒两名御者,三箭射断其三节之弓,一箭将其断裂;四箭射杀四匹马。
7.157.84
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् ।
विशिखेन सतीक्ष्णेन खङ्गमस्य द्विधाऽकरोत् ॥ ७.१५७.८४ ॥
那无车战士手中高举、饰有金点的剑,他以一支利箭将其劈为两段。
7.157.85
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना ।
भ्राम्योत्क्षिप्ताशरैःसापि द्रौणिनाभ्याहताऽपतत् ॥ ७.१५७.८५ ॥
大王啊,希迪巴之子迅速掷出的金饰铁杵,也被德罗纳之子以箭击中,坠落在地。
7.157.86
ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्। ॥ ७.१५७.८६ ॥
随后他跃入空中,像黑色的暴风云一样咆哮。
7.157.87
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि ।
मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः ॥ ७.१५७.८७ ॥
随后德罗纳之子以箭射穿了在空中施展幻术的迦托迦之子,如太阳以光线照射一般。
7.157.88
सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते ।
महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः ॥ ७.१५७.८८ ॥
他降下来,站在饰金的战车上,宛如一座降临大地、极其凶猛而辉煌的黑眼膏山。
7.157.89
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् ।
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥ ७.१५७.८९ ॥
德罗纳之子杀死了那位身披铁甲、如山般的英雄,即毗摩之孙(迦托迦之子),正如大自在天杀死安陀迦一般。
7.157.90
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् ।
द्रौणेः सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः ॥ ७.१५७.९० ॥
随后,他看见被阿输陀摩所杀的那位大力之子,怒得双唇颤抖,走近德罗纳之子。
7.157.91
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् ।
दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम् ॥ ७.१५७.९१ ॥
他镇定无畏地对焚烧般楼陀军队、如冲天烈火般的英雄,即沙羅陀婆蒂之子,说了这些话。
7.157.92
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥ ७.१५७.९२ ॥
站住,站住!德罗纳之子,只要我还活着,你就走不了。今日我将杀你,如火神之子杀死鹤山一般。
7.157.93
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।
न हि पुत्रेण हैडिम्ब पिता न्याय्यः प्रबाधितुम् ॥ ७.१५७.९३ ॥
去吧,孩子,与其他人一起战斗,你这神一般的勇士。希迪姆跋之子啊,儿子加害父亲是不应当的。
7.157.94
कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि ।
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥ ७.१५७.९४ ॥
诚然,希迪姆跋之子,我对你并无怒意。但充满愤怒的生灵,甚至可能杀害自己。
7.157.95
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।
अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥ ७.१५७.९५ ॥
听到这些话,怒目通红、满怀丧子之痛的毗摩森之子走近阿输婆摩,开口说道。
7.157.96
किमहं कातरो द्रौणे पृथग्जन इवाहवे ।
यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव ॥ ७.१५७.९६ ॥
德罗纳之子啊,难道我在战场上像普通人一样怯懦吗?你竟用言语来恐吓我。你这番话是虚妄的。
7.157.97
भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले ।
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ॥ ७.१५७.९७ ॥
我确实生于俱卢族广大的家族,由毗摩所生,是在战场上从不退缩的般度五子之子。
7.157.98
रक्षसामधिराजोऽहं दशग्रीवसमो बले ।
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ॥ ७.१५७.९८ ॥
我是罗刹之王,力量与十首王相等。站住,站住!德罗纳之子,你不会活着离开我。
7.157.99
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ ७.१५७.९९ ॥
今日我将在战场上消除你的战斗之心。
7.157.100
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः ।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ ७.१५७.१०० ॥
说罢,那位怒目赤红、力量极大的罗刹愤然扑向德罗纳之子,犹如狮子扑向象王。
7.157.101
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः ।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ ७.१५७.१०१ ॥
灰特特迦以如车轴般粗大的箭矢,向车士中的雄牛——德罗尼之子倾泻,犹如乌云化作阵雨。
7.157.102
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।
ततोन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ॥ ७.१५७.१०२ ॥
德罗尼之子以自己的箭,在半空中便将那尚未抵达他身前的箭雨射断;于是天空中仿佛又展开了一场箭矢的战斗。
7.157.103
अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ ।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥ ७.१५७.१०३ ॥
此时,兵器相撞迸出的火花照亮天空,宛如黄昏之初被萤火虫点缀。
7.157.104
निशाम्य निहतां मायां द्रौणिना रणमानिना ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ ७.१५७.१०४ ॥
德劳尼以好战之傲气摧毁了他的幻术,乔托迦见状,隐身之后又施展了一次幻术。
7.157.105
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ ७.१५७.१०५ ॥
他化为一座极高大的山,山峰上树木密布,山中流淌着由三叉戟、标枪、剑和棍棒化成的水流。
7.157.106
तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे ॥ ७.१५७.१०६ ॥
德劳尼见那山如同黑色的安闍那山,纵然众多兵器纷纷落下,他也未曾动摇。
7.157.107
ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत् ।
स ते नास्त्रैण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत ॥ ७.१५७.१०७ ॥
德劳尼仿佛嬉笑般放出金刚兵器,那山中之王被它击中,很快便毁灭了。
7.157.108
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥ ७.१५७.१०८ ॥
随后他化作一朵深蓝色的云,天空中现出彩虹,并以极其猛烈的石雨在战场上遮蔽了德劳尼。
7.157.109
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥ ७.१५७.१०९ ॥
于是精通兵器者中的最优者、德罗纳之子,将风神箭搭上弓弦,驱散了升起的乌云。
7.157.110
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः ।
शतं रथसहस्राणां जघान द्विपदां वरः ॥ ७.१५७.११० ॥
德罗纳之子以箭群遮蔽四方,身为人中之最,击杀了成百上千的战车。
7.157.111
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् ।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ ७.१५७.१११ ॥
他看见迦托迦再次乘车而来,手持长弓,毫不慌乱,被众多罗刹簇拥,
7.157.112
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः ।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥ ७.१५७.११२ ॥
如狮虎一般,有如狂象般的勇猛,骑象者、乘车者与骑马者皆在其中。
7.157.113
विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह ।
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः ॥ ७.१५७.११३ ॥
与希迪姆巴的随从偕行,他们面目、头颅与脖颈都扭曲变形,还有补罗私提人、夜叉、多摩人,以及有因陀罗般勇猛的战士。
7.157.114
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥ ७.१५७.११४ ॥
战士们手持各式兵器,身披各色铠甲、饰以华美装饰,力量强大,发出可怖的吼声,双眼因愤怒而圆睁。
7.157.115
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥ ७.१५७.११५ ॥
于是,在赴战的、因好战而狂醉的罗刹之中,德罗纳之子见你的儿子忧郁,便说道。
7.157.116
तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया ।
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥ ७.१५७.११६ ॥
杜尔约达那啊,你现在要坚定,不该慌乱。与这些兄弟和如因陀罗般勇猛的英雄国王同在吧。
7.157.117
निहनिष्याम्यमित्रांस्त न तवास्ति पराजयः ।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥ ७.१५७.११७ ॥
我将杀尽敌人;你不会败亡。我向你真实地许诺;去安慰军队吧。
7.157.118
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥ ७.१५७.११८ ॥
我不以为奇:你的伟大之心对我们有至高的忠诚,乔达摩之子啊。
7.157.119
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।
वृतं रथसहस्रेण हयानां रणशोभिनाम् ॥ ७.१५७.११९ ॥
对阿湿婆塔曼如此说后,他又对萨乌巴拉(沙恭尼)说道;他被千辆战车和装饰战场的马匹所环绕。
7.157.120
षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम् ।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥ ७.१५७.१२० ॥
你率六万辆战车去迎战财主(阿周那)。迦尔纳、毗湿沙那、克里帕和尼罗也同样前往。
7.157.121
उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः ।
दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः ॥ ७.१५७.१२१ ॥
北方的克利塔瓦尔曼、普鲁弥陀罗、苏塔帕那、度沙萨那、尼昆跋,以及勇猛的昆达别底。
7.157.122
पूरञ्जयो दृढरथः पताकी हेमकम्पनः ।
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ॥ ७.१५७.१२२ ॥
普兰阇耶、坚车、旗手、金颤、沙利亚、阿茹尼、因陀罗军,以及珊阇耶、胜利和胜者。
7.157.123
कमलाक्षः परक्राथी जयवर्मा सुदर्शनः ।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥ ७.१५७.१२३ ॥
莲目、敌之摧者、胜甲与善见,这些人将率六阿由多步兵跟随你。
7.157.124
जहि भीमं यमौ चोभौ धर्मराजं च मातुल ।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥ ७.१५७.१२४ ॥
舅父啊,请杀死怖军、双生的两位阎摩之子,以及法王,如同天主因陀罗杀阿修罗。我的胜利之望寄托在你身上。
7.157.125
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ ७.१५७.१२५ ॥
舅父啊,请杀死被德罗纳之子的箭矢重创、身躯残破的昆提之子,如同火神之子杀阿修罗。
7.157.126
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥ ७.१५७.१२६ ॥
你的儿子这样吩咐后,苏跋罗之子沙恭尼急速前去,国王啊,想要取悦你的儿子们,并焚烧般度五子。
7.157.127
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव ॥ ७.१५७.१२७ ॥
于是夜间,德罗纳之子与罗刹之间爆发了激烈的战斗,犹如因陀罗与钵罗诃罗陀之战。
7.157.128
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।
जघानोरसि सङ्क्रुद्धौ विषाग्निप्रतिमैर्दृढैः ॥ ७.१५७.१२८ ॥
于是愤怒的迦托特迦恰以十支如毒火般坚硬的箭射中了憍达弥之子的胸膛。
7.157.129
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥ ७.१५७.१२९ ॥
他被比摩之子射来的那些箭深深击中,在战车中央摇晃,如同被风吹动的树木。
7.157.130
भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम् ।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ ७.१५७.१३० ॥
随后迦托特迦恰以一支合掌箭迅速斩断了德罗纳之子手中光芒耀眼的弓。
7.157.131
ततोऽन्यद्द्रौणिरादय धनुर्भारसहं महत् ।
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ ७.१५७.१३१ ॥
于是德罗纳之子另取一张能承受重力的大弓,犹如乌云倾泻水流,倾泻下锐利的箭雨。
7.157.132
ततः शारद्वतीपुत्रः प्रेषयामास भारत ।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरं प्रति ॥ ७.१५७.१३२ ॥
婆罗多啊,于是叔罗迦伐底之子向那位在空中行走者射出金羽、能杀敌、行于空中的箭。
7.157.133
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ ७.१५७.१३३ ॥
那些被箭矢折磨的宽胸罗刹之群,就像被狮子惊扰的发狂象群一样闪耀。
7.157.134
विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान् ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ ७.१५७.१३४ ॥
他用箭将罗刹连同他们的马匹、御者、战车和象群一并驱散,尊贵的火神便焚烧了他们,就像在劫末火焚烧众生一样。
7.157.135
स दग्ध्वाऽक्षौहिणीं बामैर्नैर्ऋतीं रुरुचे नृप ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ ७.१५७.१३५ ॥
大王!他用箭焚毁了罗刹的一支阿刹ohini军,光芒四射,正如天上的大自在神焚毁三城时光辉耀眼。
7.157.136
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥ ७.१५७.१३६ ॥
如同在劫末焚烧一切众生的猛烈火神婆苏,诸胜者中最优秀的德罗纳之子,焚烧了你的敌人而光辉耀眼。
7.157.137
ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम् ।
द्रौणिं हतेति महतीं चोदयामास तां चमूम् ॥ ७.१५७.१३७ ॥
于是愤怒的迦陀迦支对行事可怖的罗刹们说:“杀死德罗纳之子!”并驱策那支庞大的军队。
7.157.138
घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः ।
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः ॥ ७.१५७.१३८ ॥
那些罗刹接受了迦陀迦支的命令,獠牙闪亮,大口,形貌可怖,令人恐惧,便向前冲去。
7.157.139
व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम् ।
सिंहनादेन महता नादयन्तो वसुन्धराम् ॥ ७.१५७.१३९ ॥
他们张着大口,吐着可怖的舌头,因愤怒而双目通红,以狮子般的巨吼震动大地。
7.157.140
हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः ।
शक्तीः शतघ्नीः परिघानशनीः शूलपट्टशान् ॥ ७.१५७.१४० ॥
他们手持各种兵器,扑向德罗纳之子要将他杀死:长矛、百杀、铁杵、霹雳、三叉戟与剑。
7.157.141
खङ्गान्गदाभिण्डिपालान्मुसलानि परश्वथान् ।
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान् ॥ ७.१५७.१४१ ॥
剑、锤、投枪、棍棒、战斧、长矛、弯刀、标枪、带钩长矛与颤动之箭,皆已磨利。
7.157.142
स्थूलान्भुशुण्ड्यश्मगदास्थूणान्कार्ष्ण्यायसांस्तथा ।
मुद्गराँश्च महाघोरान्समरे शत्रुदारणान् ॥ ७.१५७.१४२ ॥
沉重的菩舒恭迪、石棍、黑铁柱与铁锤,极为可怖,于战中劈裂敌人。
7.157.143
द्रौणिमूर्धन्यसन्त्रस्ता राक्षसा भीमविक्रमाः ।
चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः ॥ ७.१५७.१४३ ॥
罗刹们毫不畏惧,以极大的勇猛,双目因愤怒而通红,向德罗纳之子的头上投掷了成百上千的兵器。
7.157.144
तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि ।
पतमानं समीक्ष्याऽथ योधास्ते व्यथिताऽभवन् ॥ ७.१५७.१४४ ॥
眼见那一场巨大的兵器之雨倾注在德罗纳之子的头上,那些勇士心中忧惧不安。
7.157.145
द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम् ।
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः ॥ ७.१५७.१४५ ॥
然而德罗纳之子勇猛地以如雷电般、在石上磨利的箭,摧毁了那可怖升起的箭雨。
7.157.146
ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुङ्खैर्महामनाः ।
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ ७.१५७.१४६ ॥
于是这位心胸广大的德罗纳之子,迅速以其他金羽的箭,经神圣兵器加持的箭,击杀了罗刹。
7.157.147
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ ७.१५७.१४७ ॥
那群宽胸的罗刹,被那些箭所折磨,看起来像一群被狮子追逐、惊乱散乱的发狂大象。
7.157.148
ते राक्षसाः सुसङ्क्रुद्धा द्रोणपुत्रेण ताडिताः ।
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलः ॥ ७.१५७.१४८ ॥
那些被德罗纳之子击伤的罗刹,极为愤怒,力量强大,想要杀死他,便向德罗纳之子冲去。
7.157.149
तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ ७.१५७.१४९ ॥
在那里,德罗纳之子展现了这奇异的勇力,啊,婆罗多,这是在一切众生中他人所不能做到的。
7.157.150
यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित् ।
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः ॥ ७.१५७.१५० ॥
德罗纳之子独自一人,精通大神兵,在瞬间以燃烧的箭焚毁了罗刹军,而罗刹王在一旁观看。
7.157.151
स हत्वा राक्षसानीकं रराज द्रौणिराहवे ।
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥ ७.१५७.१५१ ॥
他杀尽罗刹大军,德罗纳之子在战场上光彩夺目,如同劫末毁灭之火照耀众生。
7.157.152
तं दहन्तमनीकानि शरैराशीविषोपमैः ।
तेषु राजसहस्रेषु पाण्डवेयेषु भारत ॥ ७.१५७.१५२ ॥
他以如毒蛇般的箭焚烧诸军,婆罗多啊,在那千位国王与般度之子之中……
7.157.153
नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे ।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥ ७.१५७.१५३ ॥
战场上无人能正视德罗纳之子,唯有英雄迦托迦之,那位大力罗刹王。
7.157.154
स पुनर्भरतश्रेष्ठ क्रोधादुद्धान्तलोचनः ।
तलं तलेन संहत्य सन्दश्य दशनच्छदम् ॥ ७.१५७.१५४ ॥
婆罗多之最啊,他又因愤怒双目圆睁,掌击掌,咬住嘴唇……
7.157.155
स्व सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ।
स ययौ घोररूपेण सुपताकेन भास्वता ॥ ७.१५७.१५५ ॥
他愤怒地对御者说:“载我去德罗纳之子那里。”他乘着形貌可怖、饰有美丽旗帜而闪耀的战车前行。
7.157.156
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ।
स विनद्य महानादं सिंहवद्भीमविक्रमः ॥ ७.१५७.१५६ ॥
再次与德罗纳之子单挑,灭敌者如狮子般发出巨吼,以可怖的勇武向前。
7.157.157
चिक्षेपाविद्ध्य सङ्ग्रामे द्रोणपुत्राय राक्षसः ।
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम् ॥ ७.१५७.१५७ ॥
在战斗中,罗刹挥舞之后,向德罗纳之子投出一道可怕的雷电,它有八个铃铛,为天神所造。
7.157.158
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवप्लुप्लुवे ॥ ७.१५७.१५८ ॥
德罗纳之子将弓放在战车上,跃下车去抓住它,并将其掷回那人身上;他从战车上跳下。
7.157.159
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा ॥ ७.१५७.१५९ ॥
这道光辉极盛、极为可怖的雷电,将战车连同马匹、御者和旗帜焚为灰烬,然后劈开大地,进入地下。
7.157.160
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।
यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ॥ ७.१५७.१६० ॥
众生见德罗纳之子此举,皆赞叹他,因为他跃下并抓住了湿婆所造的那件可怕兵器。
7.157.161
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप ।
धनुर्घोरं समादाय महदिन्द्रायुधोपमम्।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥ ७.१५७.१६१ ॥
于是,大王,比玛森之子走到德里什塔尤姆那的战车旁,取了一张如因陀罗神兵般巨大而可怖的弓,再次将锐利的箭射向德罗纳之子宽阔的胸膛。
7.157.162
धृष्टद्युम्नस्त्वसम्भ्रान्तो मुमोचाशीविषोपमान् ।
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥ ७.१५७.१६२ ॥
然而德里什塔尤姆那毫不慌乱,将如毒蛇般、带金羽的箭射入德罗纳之子的胸膛。
7.157.163
ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः ।
तावप्यग्निशिखप्रख्यैर्जुघ्नतुस्तस्य मार्गणान् ॥ ७.१५७.१६३ ॥
于是德罗纳之子射出千万支那罗迦箭,他二人也以如火焰般的箭矢击中了他的箭。
7.157.164
अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः ।
योधानं प्रीतिजननं द्रौणेश्च भरतर्षभ ॥ ७.१५७.१६४ ॥
婆罗多族之雄,在那两位如狮的人之间爆发了极为猛烈的大战,令战士欢喜,也令德罗纳之子欢喜。
7.157.165
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः ।
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत् ॥ ७.१५७.१६५ ॥
于是毗摩以千辆战车、三百头象和六千匹马来到了那个地方。
7.157.166
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः ॥ ७.१५७.१६६ ॥
于是德罗纳之子,心地正直、勇力无须费力,与毗摩之子罗刹及德律斯塔द्युम्न及其随从交战。
7.157.167
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ ७.१५७.१६७ ॥
德罗纳之子在那里展现了最为奇妙的勇力,婆罗多啊,这是一切众生中别人都无法做到的。
7.157.168
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥ ७.१५७.१६८ ॥
在一瞬之间,他以利箭射倒了一个阿克绍诃尼的罗刹军队,连同马匹、御者、战车和象。
7.157.169
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च ।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥ ७.१५७.१६९ ॥
当毗摩森那、希丁巴之子瓶首、般杜之子猛光、双生子、法之子坚战、胜军与无灭(黑天)注视之时。
7.157.170
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः ।
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः ॥ ७.१५७.१७० ॥
被直飞的铁箭深深射中,大象倒在地上,犹如带着山峰的群山。
7.157.171
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः ।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ ७.१५७.१७१ ॥
断裂的象鼻与四处颤动的肢体遍布大地,大地闪耀,仿佛布满爬行的蛇群。
7.157.172
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ ।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥ ७.१५७.१७२ ॥
大地因抛落的金柄王伞而闪耀,犹如劫末日月升起、星辰遍布的天空。
7.157.173
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ।
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥ ७.१५७.१७३ ॥
肿胀的旗帜如蛙,宽阔的大鼓如龟,成行的伞盖如天鹅,身披如泡沫般的牦牛尾拂尘花环。
7.157.174
कङ्कगृघ्रमहाग्राहां नैकायुधझषाकुलाम् ।
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम् ॥ ७.१५७.१७४ ॥
充满了形如鹤与秃鹫的大鳄鱼,形如各种兵器的鱼群,形如宽阔大象的岩石,以及形如死马的摩伽罗海兽。
7.157.175
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ।
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम् ॥ ७.१५७.१७५ ॥
那条河流,由战车抛起巨大的堤岸,树木因旗帜而显得美丽,充满箭矢般的鱼,极其可怖,有矛、枪、剑与蛇。
7.157.176
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ।
केशशैवलकल्माषां भीरूणां कश्मलावहाम् ॥ ७.१५७.१७६ ॥
充满骨髓与血肉的巨大泥淖,无头躯体如漂流的小船,发丝如水藻与黑草,使怯懦者昏厥。
7.157.177
नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् ।
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम् ॥ ७.१५७.१७७ ॥
由众多良象、战马与战士的尸身毁灭而生,以巨大的血流而极其可怖,德罗纳之子使那条河流动起来。
7.157.178
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ।
प्रयान्तीं सुमहाघोरां यमराष्ट्रमहोदधिम् ॥ ७.१५७.१७८ ॥
回荡着战士痛苦呼号的声响,充满血浪,奔向阎摩国度的大海,极其可怖。
7.157.179
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत् ।
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् ॥ ७.१५७.१७९ ॥
德罗纳之子以箭杀死罗刹后,击伤了希狄姆巴之子(迦托特迦查);又因极度愤怒,也攻击了狼腹(怖军)和般遮罗之子(猛光)。
7.157.180
स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः ।
जघान सुरथं नाम द्रुपदस्य सुतं विभुः ॥ ७.१५७.१८० ॥
那位大力的德罗纳之子,以铁箭齐发刺伤了般度子,并杀死了名为苏罗陀的德鲁帕达之子。
7.157.181
पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे ।
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ॥ ७.१५७.१८१ ॥
他又在战斗中杀死了德鲁帕达之子设睹伽耶、巴拉尼迦、阇耶尼迦和阇耶什婆。
7.157.182
श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम् ।
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम् ॥ ७.१५७.१८२ ॥
德罗纳之子又把国王室鲁陀阿婆送往阎摩之处,以三支及其他锋利、羽翎优美的箭射中了这位戴金花环的人。
7.157.183
जघान स पृषध्रं च चन्द्रसेनं च मारिष ।
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान् ॥ ७.१५७.१८३ ॥
他又杀死了普里沙陀罗和月军,哦尊者;在鞠提薄阇的诸子中,他以每人十箭杀了十人。
7.157.184
अस्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् ।
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ ७.१५७.१८४ ॥
阿湿婆多摩大怒,搭上一支猛烈、直飞的上好箭,将弓拉至耳边,对准瓶首迅速射出那支如阎摩之杖般可怖的箭。
7.157.185
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः ।
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥ ७.१५७.१८५ ॥
那支大箭刺穿了那罗刹的心脏,连同箭羽迅速没入大地,哦大地之主。
7.157.186
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः ।
द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम् ॥ ७.१५७.१८६ ॥
大车将德稠猛得知他已被杀倒下,哦诸王之王,便将那辆上好的战车从德罗纳之子面前撤走。
7.157.187
ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप ।
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह।
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत ॥ ७.१५७.१८७ ॥
于是尤迪斯提伽罗的军队连同转身退却的国王,在战斗中被击败,大王;英雄德罗纳之子发出吼声。婆罗多啊,一切众生和你的儿子们都尊敬他。
7.157.188
अथ शरशतभिन्नकृत्तदेहै… ।
र्हतपतितैः क्षणदाचरैः समन्तात्।
निधनमुपगतैर्मही कृताऽभू… ।
द्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा ॥ ७.१५७.१८८ ॥
于是大地,被数百支箭射穿和砍断的身体,被击倒倒地,从四面被夜间游走者杀死……变得……如山峰般难以通行,极其可怖。
7.157.189
तं सिद्धगन्धर्वपिशाचसङ्घा ।
नागाः सुपर्णाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च द्रौणि… ।
मपूजयन्नप्सरसः सुराश्च ॥ ७.१५७.१८९ ॥
悉陀、乾闼婆、毕舍遮之众,诸龙、金翅鸟、祖先、飞鸟、罗刹之众和鬼神之众……德罗纳之子……众天女和诸天都尊敬他。