摩诃婆罗多 · 章 7.158
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.158.1
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा ।
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥ ७.१५८.१ ॥
看见德鲁帕达的儿子们和昆提菩阇的儿子们,又看见成千上万的罗刹被德罗纳之子杀死。
7.158.2
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥ ७.१५८.२ ॥
坚战、怖军、猛光、普利沙塔之子和育育陀那,都已准备就绪,心意只放在战斗上。
7.158.3
सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे ।
महता शरवर्षेण च्छादयामास भारत ॥ ७.१५८.३ ॥
索摩达陀再次愤怒,见到萨提奇在战场上,便以大箭雨遮蔽了他,婆罗多啊。
7.158.4
ततः समभवद्युद्धमतीव भयवर्धनम् ।
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥ ७.१५८.४ ॥
于是发生了极其增加恐惧的战斗,你方与敌人之间,渴望胜利者之间的惨烈战斗。
7.158.5
तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः ।
दशभिः सात्वतस्यार्थे भीमो विव्याध सायकैः ॥ ७.१५८.५ ॥
看见他逼近,怖军为了萨特瓦塔的后裔,以十支金羽、在石上磨利的箭射穿了他。
7.158.6
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ।
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् ॥ ७.१५८.६ ॥
索摩达陀也以百箭射中那位英雄;但萨提奇——萨特瓦塔的后裔,极为愤怒,向被其诸子围困的他发起进攻。
7.158.7
वृद्धं वृद्धगुणैर्युक्तं ययातिमिव नाहुषम् ।
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः।
शक्त्या चैनं विनिर्भिद्य पुनर्विव्याध सप्तभिः ॥ ७.१५८.७ ॥
他以十支如雷霆般落下的锐利箭射中这位具备老者之德、如那呼沙之子耶陀弟的老人;以长矛刺穿之后,又以七箭射中他。
7.158.8
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् ।
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥ ७.१५८.८ ॥
于是,为了萨提亚基,毗摩森那向索摩达多的头顶投掷了一根新的、坚固的、可怕的铁杵。
7.158.9
सात्वतोऽप्यग्निसङ्काशं मुमोच शरमुत्तमम् ।
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥ ७.१५८.९ ॥
萨陀婆(萨提亚基)也愤怒地在战斗中向索摩达多的胸膛射出一支如火般耀眼、羽翎精美、锐利的上等箭。
7.158.10
युगपत्पेततुर्वीर घोरौ परिघमार्गणौ ।
शरीरे सोमदत्तस्य स पपात महारथः ॥ ७.१५८.१० ॥
英雄啊,那两件可怕的东西——铁杵与箭——同时落下;那位大车将倒在索摩达多的身上,也随之倒下。
7.158.11
व्यामोहिते तुनये बाह्लीकस्तमुपाद्रवत् ।
विसृजञ्छरवर्षाणि कालवर्षीव तोयदः ॥ ७.१५८.११ ॥
然而当他昏迷之时,巴利迦冲向他,如雨季的云般倾泻箭雨。
7.158.12
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः ।
प्रातिपेयं महात्मानं विव्याध रणमूर्धनि ॥ ७.१५८.१२ ॥
于是,为了萨陀婆,毗摩在战阵前线以九箭射中了大德的波罗提别耶(巴利迦)。
7.158.13
प्रातिपेयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि ।
निचखान महाबाहुः पुरन्दर इवाशनिम् ॥ ७.१५८.१३ ॥
普拉提佩耶愤怒地将长矛刺入毗摩的胸膛,如因陀罗投掷霹雳,这位大臂者如此。
7.158.14
स तथाऽभिहतो भीमश्चकम्पे च मुमोह च ।
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥ ७.१५८.१४ ॥
毗摩如此受击,颤抖昏厥;醒来后,这位强者便向他掷出铁杵。
7.158.15
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् ।
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥ ७.१५८.१५ ॥
这支由般度之子掷出的铁杵,削去了巴赫利卡的头颅;他倒在地上,如同被霹雳击中的山王。
7.158.16
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभ ।
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥ ७.१५८.१६ ॥
人中之牛啊!那位英雄巴赫利卡被杀后,你的十个儿子便围攻毗摩——他堪比十车王之子。
7.158.17
नागदत्तो दृढरथो महाबाहुरयोभुजः ।
दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि ॥ ७.१५८.१७ ॥
那伽达多、坚车、大臂的铁臂、坚固、善手、离尘、普拉马提、猛烈者,还有阿努亚依。
7.158.18
तान्दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान् ।
एकमेकं समुद्दिश्य पातयामास मर्मसु ॥ ७.१५८.१८ ॥
毗摩见到他们,勃然大怒;他拿起沉重的兵器,一一瞄准,击中他们的要害。
7.158.19
ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः ।
चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः ॥ ७.१५८.१९ ॥
他们被箭射穿,失去生命与力量,从战车上坠落,如同被狂风折断的树木从山峰上倒下。
7.158.20
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् ।
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥ ७.१५८.२० ॥
怖军以十支铁箭杀死了你的那些儿子,又用箭雨覆盖了迦尔纳所爱的儿子伐里舍那。
7.158.21
ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः ।
जघान भीमं नाराचैस्तमप्यभ्यद्रवद्बली ॥ ७.१५८.२१ ॥
此时迦尔纳那位著名的兄弟名为伐柯罗陀,他以铁箭射击怖军,并强势地冲向他。
7.158.22
ततः सप्तरथान्वीरः श्यालानां तव भारत ।
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥ ७.१५८.२२ ॥
婆罗多的后裔啊,英雄怖军以铁箭杀死了你的七位内兄,即七名战车武士,又碾碎了沙陀占陀罗。
7.158.23
अमर्षयन्तो निहतं शतचन्द्रं महारथम् ।
शकुनेर्भ्रातरो वीरा गवाक्षः शरभो विभुः ॥ ७.१५८.२३ ॥
大车将沙陀占陀罗被杀,沙古尼的英勇兄弟——迦婆叉、沙罗跋和强大的毗睺——愤怒地上前。
7.158.24
सुभगो भानुदत्तश्च शूराः पञ्च महारथाः ।
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥ ७.१५८.२४ ॥
妙善与日授,以及五位英勇的大车武士,冲向怖军,以锐利的箭射击他。
7.158.25
स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः ।
जघान पञ्चभिर्बाणैः पञ्चैवातिरथान्बली ॥ ७.१५८.२५ ॥
他像山岳承受暴雨的冲击一样被铁箭射中,这位强者以五支箭射杀了五位大战车武士。
7.158.26
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥ ७.१५८.२६ ॥
看到那些战死的英雄,众位最优秀的国王都惊慌失措。
7.158.27
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् ।
मिषतः कुम्भयोनेस्तु पुत्राणां तव चानघ ॥ ७.१५८.२७ ॥
于是愤怒的坚战摧毁了你的军队,当时堕瓶所生的德罗纳(Droṇa)正在旁观,而你的儿子们就在眼前,哦,无瑕者。
7.158.28
अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्सशिबीनपि ।
प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः ॥ ७.१५८.२८ ॥
在战斗中,愤怒的坚战把安巴斯塔人、摩罗婆人、勇士、三伽多人以及尸毗人也送往死亡之界。
7.158.29
अभीषाहाञ्छूरसेनान्बाह्लीकान्सवसातिकान् ।
निहत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥ ७.१५८.२९ ॥
国王杀死了阿毗沙诃人、首罗塞那人、巴赫利迦人和婆萨提迦人,使大地变成了血泥。
7.158.30
यौधेयान्मालवान्राजन्मद्रकाणां गणान्युधि ।
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥ ७.१५८.३० ॥
哦,国王,坚战在战斗中以箭将优陀耶人、摩罗婆人以及摩德罗迦诸军中的勇士送往死亡之界。
7.158.31
हताहरत गृह्णीत विध्यत व्यवकृन्तत ।
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥ ७.१५८.३१ ॥
击杀、擒获、带来、刺穿、斩断!于是朝向坚战的战车响起了一片喧嚣。
7.158.32
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् ।
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥ ७.१५८.३२ ॥
德罗纳见坚战驱散军队,在您的儿子催促下,便以箭雨覆盖了他。
7.158.33
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् ।
विव्याध सोऽपि तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥ ७.१५८.३३ ॥
德罗纳大怒,以风神之箭射中国王;坚战也以另一箭化解了这神箭。
7.158.34
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे ।
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च।
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥ ७.१५८.३४ ॥
那神箭被毁后,婆罗堕阇之子怒不可遏,欲杀般度之子,便向坚战射出了伐楼那、阎摩、火、特瓦斯达与娑维得利之箭。
7.158.35
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः ।
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥ ७.१५८.३५ ॥
法之子、大臂的坚战毫不畏惧,以自己的箭摧毁了瓮生(德罗纳)已射出和正在射出的那些神箭。
7.158.36
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः ॥ ७.१५८.३६ ॥
然而瓮生(德罗纳)想要兑现自己的誓言,便向前推进。
7.158.37
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ।
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥ ७.१५८.३७ ॥
婆罗多啊,他展示了因陀罗的武器与生主的武器,想杀死法之子,一心为你儿子们的利益而行动。
7.158.38
पतिः कुरूणां गजसिंहगामी ।
विशालवक्षाः पृथुलोहिताक्षः।
प्रादुश्चकारास्त्रमहीनतेजा ।
माहेन्द्रमस्त्रं स जघान तेन ॥ ७.१५८.३८ ॥
库鲁之主,行步如狮象,胸膛宽阔,双眼大而赤红,光辉不减,显出摩亨陀罗之箭,并以之击杀。
7.158.39
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः ।
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥ ७.१५८.३९ ॥
诸箭被抵挡之时,德罗纳满怀愤怒,欲杀坚战,便发出了梵天之箭。
7.158.40
ततो नाज्ञासिषं किञ्चिद्धोरेण तमसाऽऽवृते ।
सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥ ७.१५८.४० ॥
于是我被可怖的黑暗所笼罩,什么也看不见;大地之主啊,一切众生都陷入极大的恐惧。
7.158.41
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ।
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥ ७.१५८.४१ ॥
昆提之子坚战见梵天之箭已举起,大王啊,便以梵天之箭本身将其抵挡。
7.158.42
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ ।
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥ ७.१५८.४२ ॥
于是诸位军中首领赞美那两位人中雄牛——德罗纳与帕尔塔,二位大弓手,精通一切战事。
7.158.43
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् ।
व्यधमत्क्रोधताम्राक्षो वायव्यास्त्रेण भारत ॥ ७.१५८.४३ ॥
于是德罗纳怒目赤红,放过了贡蒂之子,以风神箭驱散了德鲁帕达的军队,婆罗多后裔啊。
7.158.44
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ ७.१५८.४४ ॥
般遮罗人被德罗纳击杀,惊恐逃散,而毗摩森那与伟大的般度之子看着这一切。
7.158.45
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम् ।
महद्ध्यां रथवंशाभ्यां परिगृह्य बलं तदा ॥ ७.१५८.४५ ॥
于是冠者(阿周那)与毗摩突然折返,以两大排战车包围了那支军队。
7.158.46
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः ।
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ ७.१५८.४६ ॥
毗跋苏(阿周那)从右翼,狼腹(毗摩)从左翼,向婆罗堕阁(德罗纳)倾泻了两阵大箭雨。
7.158.47
केकयाः सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।
अन्वगच्छन्महाराज मात्स्याश्च सह सात्वतैः ॥ ७.१५८.४७ ॥
大王啊,甘伽族、娑耶族、强大的般遮罗人,以及摩蹉族与萨陀族一同追随而去。
7.158.48
ततः सा भारती सेना वध्यमाना किरीटिना ।
तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥ ७.१५८.४८ ॥
此时,那支婆罗多军队被冠者(阿周那)击伤,又因黑暗与睡意而再次溃散。
7.158.49
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।
नाशक्यन्त महाराज योधा वारयितुं तदा ॥ ७.१५८.४९ ॥
大王啊,那时德罗纳和您的儿子亲自阻拦,战士们却无法被阻止。