Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.159

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.159.1

उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् ।
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ॥ ७.१५९.१ ॥

杜尔约陀那见般度之子的大军向前推进,认为其不可抵挡,便对迦尔纳说道。

7.159.2

अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल ।
त्रायस्व समरे कर्ण सर्वान्योधान्महारथान् ॥ ७.१५९.२ ॥

爱护朋友的人啊,此时已经到来。迦尔纳,请在战场上保护所有战士和大车武士。

7.159.3

पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः ।
वृतान्समन्तात्सह्क्रुद्धैर्निः श्वसद्भिरिवोरगैः ॥ ७.१५९.३ ॥

被般遮罗、摩差、凯迦耶与般度之子的大车武士从四面八方包围,他们怒气冲冲,像毒蛇一样喷着气。

7.159.4

एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः ।
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥ ७.१५९.४ ॥

这些自以为胜利的般度之子欢呼咆哮,还有许多如因陀罗般的般遮罗战车队。

7.159.5

परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः ।
तमप्याशु पराजित्य ततो हन्ताऽस्मि पाण्डवम् ॥ ७.१५९.५ ॥

即使因陀罗(布兰达罗)来此保护普利塔之子,我也会迅速击败他,然后杀死那位般度之子。

7.159.6

सत्यं ते प्रतिजानामि समाश्वसिहि भारत ।
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥ ७.१५९.६ ॥

婆罗多之王啊,我向你真诚立誓——放心吧。我将杀死般度之子和聚集于此的般遮罗人。

7.159.7

जयं ते प्रतिदास्यामि वासवस्येव पावकिः ।
प्रियं तव मया कार्यमिति जीवामि पार्थिव ॥ ७.१५९.७ ॥

正如火之子曾为婆娑婆(因陀罗)赢得胜利,我也将为你赢得胜利。啊,国王,我活着,只为做你所喜爱之事。

7.159.8

सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः ।
तस्यामोघां विमोक्ष्यामिशक्तिं शक्रविनिर्मितां ॥ ७.१५९.८ ॥

在所有般度子中,法尔古那(阿周那)最为强大。我将把因陀罗所造的那件不败之力投向他。

7.159.9

तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद ।
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥ ७.१५९.९ ॥

啊,大弓手,赐予尊荣者!他被杀之后,他的兄弟们将归你所辖,或者他们将再次前往森林。

7.159.10

मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् ।
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥ ७.१५९.१० ॥

啊,俱卢子孙,只要我还活着,切莫有丝毫忧愁。战场上,我将战胜所有聚集在一起的般度子。

7.159.11

पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् ।
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥ ७.१५९.११ ॥

我将以箭雨把聚集于此的般遮罗、羯迦耶,乃至婆利尼人都射成碎片,然后把这片大地献给你。

7.159.12

एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् ।
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥ ७.१५९.१२ ॥

迦尔纳如此说话时,沙罗堕多之子、大臂者胶鲁普(克利巴)仿佛微笑着,对御者之子说出了这些话。

7.159.13

शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः ।
त्वया नाथेन राधेय वचसा यदि सिध्यति ॥ ७.१५९.१३ ॥

“好极了,好极了,迦尔纳!若仅凭你的一句话便能成就,那么俱卢族的雄牛有你作为庇护者,便真的有了依靠。”

7.159.14

बहुशः कत्थसे कर्ण कौरवस्य समीपतः ।
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा ॥ ७.१५९.१४ ॥

“迦尔纳,你在俱卢面前一再夸口,然而你的勇武却无处可见,连它的成果也看不到。”

7.159.15

समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि ।
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥ ७.१५९.१५ ॥

“御者之子啊,你在战场上多次与般度之子相遇,而你到处都被般度族击败了。”

7.159.16

हियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे ।
तदाऽयुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः ॥ ७.१५९.१६ ॥

“迦尔纳,当持国之子被乾闥婆掳走时,各路军队都在奋战,而你独自从最前线逃走了。”

7.159.17

विराटनगरे चापि समेताः सर्वकौरवाः ।
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥ ७.१५९.१७ ॥

“迦尔纳,在毗罗吒城聚集的所有俱卢人都被般度之子(阿周那)在战斗中击败;你也与你的弟弟一同被击败。”

7.159.18

एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे ।
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥ ७.१५९.१८ ॥

“你在战场上连单独一个法尔古那(阿周那)都抵挡不住,怎敢去战胜包括克里希纳在内的所有般度之子?”

7.159.19

अब्रुवन्कर्ण युध्यस्व कत्थसे बहु सूतज ।
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ॥ ७.१५९.१९ ॥

他们说:迦尔纳啊,战斗吧!御者之子,你夸口太多了。以勇武而受赞誉者,不言而行;这才是善人的誓愿。

7.159.20

गर्जित्वा सूतपुत्र त्वं शारदाभ्र इवाजलः ।
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥ ७.१५९.२० ॥

迦尔纳啊,御者之子,你咆哮之后却显得毫无成果,像秋天没有雨水的云;而国王并不明白这一点。

7.159.21

तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि ।
आरात्पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः ॥ ७.१५९.२१ ॥

罗陀之子啊,只要你还没看见般度之子(阿周那),就尽管咆哮吧;因为一旦远远望见阿周那,你再咆哮便很难得了。

7.159.22

त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि ।
पार्थसायकविंद्धस्य दुर्लभं गर्जितं तव ॥ ७.१५९.२२ ॥

你还未触及法尔古那(阿周那)的那些箭,就在咆哮;一旦被般度之子的箭射中,你的咆哮便很难得了。

7.159.23

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः ।
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः।
तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत् ॥ ७.१५९.२३ ॥

刹帝利以臂力为勇,婆罗门以言语为勇;法尔古那以弓为勇,迦尔纳以愿望为勇。谁能抗击那连楼陀罗也使之欢喜的般度之子?

7.159.24

एवं संरुषितस्तेन तदा शारद्वतेन ह ।
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥ ७.१५९.२४ ॥

被沙罗陀瓦之子(克利巴)如此激怒的迦尔纳,战士中的最优者,于是对克利巴说了这些话。

7.159.25

शूरा गर्जन्ति सततं प्रावृषीव वलाहकाः ।
फलं चाशु प्रयच्छन्ति बीजमुप्तमनूषरे ॥ ७.१५९.२५ ॥

勇士们像雨季的云一样不断咆哮;播种在肥沃土地上的种子很快便会结果。

7.159.26

दोषमत्र न पश्यामि शूराणां रणमूर्धनि ।
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥ ७.१५९.२६ ॥

我不认为那些站在战阵前列、一边自夸一边承担战争重担的勇士有何过错。

7.159.27

यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति ।
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ॥ ७.१५९.२७ ॥

人心中决意承担的任何重担,天命必定会前来相助。

7.159.28

व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् ।
हत्वा पाण्डुसुतानाजौ सकृष्णान्सहसात्वतान्।
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥ ७.१५९.२८ ॥

以我自己的决心为第二助力,心中承担此重任,我高声宣告要在战场上连同黑天与萨特瓦特人一起杀死般度之子;婆罗门啊,我如此咆哮,于你有何损失?

7.159.29

वृथा शूरा न गर्जन्ति सजला इव तोयदाः ।
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥ ७.१५९.२९ ॥

勇士不会徒然咆哮,正如满载雨水的云;智者只有知晓自身的力量后才会咆哮。

7.159.30

सोऽहमद्य रणे यत्तौ सहितौ कृष्मपाण्डवौ ।
उत्सहामि रणे जेतुं ततो गर्जामि गौतम ॥ ७.१५९.३० ॥

因此今日我能在战场上战胜已经集结待战的黑天与般度五子,所以我高声咆哮,乔答摩啊。

7.159.31

पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगान् ।
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान्।
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥ ७.१५९.३१ ॥

婆罗门啊,看吧,这是我怒吼的果实:在战场上杀死般度之子,连同黑天、萨托多族及其随从,我将把没有荆棘的大地献给难敌。

7.159.32

मनोरथप्रलापा मे न ग्राह्यास्तव सूतज ॥ ७.१५९.३२ ॥

御者之子啊,你那些妄想的胡言乱语,我不应当听信。

7.159.33

सदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ।
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ ॥ ७.१५९.३३ ॥

迦尔纳啊,你总是辱骂两位黑天以及般度之子法王。在那两位精通战斗的人所在之处,胜利并非必然。

7.159.34

देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ।
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥ ७.१५९.३४ ॥

即使面对诸神、乾闼婆、夜叉、人类、蛇与罗刹的披甲大军,黑天与般度之子在战场上也是不可战胜的。

7.159.35

ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः ।
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ॥ ७.१५९.३५ ॥

他敬重婆罗门,言语诚实,克制自己,尊崇师长与神明,常以法为乐,尤其精通武器。

7.159.36

धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ।
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः ॥ ७.१५९.३६ ॥

法之子坚忍阿诺叶修,懂得感恩;他的兄弟们也都强大,在一切兵器上都下过苦功。

7.159.37

गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ।
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुर्ताः प्रहारिणः ॥ ७.१५९.३७ ॥

忠于师长之职,智慧,恒守正法,声名显赫,为亲属,具因陀罗之勇力,忠诚而善于击打的战士。

7.159.38

धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ।
चन्द्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः ॥ ७.१५९.३८ ॥

德里斯塔登延、西坎迪、道尔穆希、阇那美阇耶、月军、楼陀罗军、名法、德鲁瓦与达罗。

7.159.39

वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः ।
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् ॥ ७.१५९.३९ ॥

婆苏月、达摩月、狮月、苏提阇那,以及德鲁波达之子们,还有精通大武器的德鲁波达。

7.159.40

येषामर्थाय संयत्तो मत्स्यराजः सहानुजः ।
शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः ॥ ७.१५९.४० ॥

为之而备战的摩well王与其幼弟们:沙塔尼卡、苏耶达塔、舍鲁塔尼卡与舍鲁塔德瓦查。

7.159.41

बलानीको जयानीको जयाश्वो रथवाहनः ।
चन्द्रोदयः समरथो विराटभ्रातरः शुभाः ॥ ७.१५९.४१ ॥

力军、胜军、胜马(御车者)、月升、善战——毗罗吒的吉祥兄弟们。

7.159.42

यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥ ७.१५९.४२ ॥

双生子、德罗波蒂之子们,以及罗刹迦托特迦恰——为之而战者,无有毁灭。

7.159.43

एते चान्ये च बहवो गणाः पाण्डुसुतस्य वै ॥ ७.१५९.४३ ॥

这些以及众多其他军队的确都属于般度之子。

7.159.44

कामं खलु जगत्सर्वं सदेवासुरमानुषम् ।
सयक्षराक्षसगणं सभूतभुजगद्विपम्।
निःशेषमस्त्रवीर्येण कुर्वाते भीमफल्गुनौ ॥ ७.१५९.४४ ॥

毗摩与法尔古那凭借武器之力,定能将整个世界连同诸神、阿修罗、人类、夜叉与罗刹之众,连同众生、蛇与象,彻底毁灭。

7.159.45

युधिष्ठिरश्च पृथिवीं निर्दहेद्धोरचक्षुषा ॥ ७.१५९.४५ ॥

坚战也能以他可怖的目光焚烧大地。

7.159.46

अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ।
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥ ७.१५९.४६ ॥

为了他们,无限力量的沙乌里(克里希那)已披甲备战——迦尔纳啊,你怎敢在战场上战胜这些敌人?

7.159.47

महानपनयस्त्वेष नित्यं हि तव सूतज ।
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ॥ ७.१५९.४७ ॥

御者之子啊,你总敢在战场上与沙乌里交战,这是你的大错。

7.159.48

एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ ।
अब्रवीच्च तदा कर्णो गुरं शारद्वतं कृपम् ॥ ७.१५९.४८ ॥

如此被称呼之后,罗陀之子迦尔纳笑着,婆罗多中的雄牛啊,随即对他的老师沙罗堕婆之子俱缚说道。

7.159.49

सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः ।
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥ ७.१५९.४९ ॥

婆罗门啊,你关于般度五子所说的话是真实的;这些以及许多其他美德确实属于般度之子。

7.159.50

अजय्याश्च रणे पार्था देवैरपि सवासवैः ।
सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः ॥ ७.१५९.५० ॥

在战场上,普利塔之子即使是帝释天及诸神,以及达伊提、夜叉、乾闼婆、毕舍遮、蛇神和罗刹,也无法战胜。

7.159.51

तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ।
मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज।
एतया निहनिष्यामि सव्यसाचिनमाहवे ॥ ७.१५९.५१ ॥

尽管如此,我将以因陀罗所赐之枪战胜普利塔之子。婆罗门啊,这支因帝释所赐之枪从不落空。我将以此枪在战场上杀死左手神射手(阿周那)。

7.159.52

हते तु पाण्डवे कृष्णे भ्रातरश्चास्य सोदराः ।
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ॥ ७.१५९.५२ ॥

若般度之子黑天被杀,其亲兄弟在没有阿周那的情况下,也绝不能享有大地。

7.159.53

तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा ।
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम् ॥ ७.१५९.५३ ॥

瞿昙啊,当他们全部被消灭后,这片连同海洋的大地将不费吹灰之力地留在俱卢之主的掌控之中。

7.159.54

सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः ।
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥ ७.१५९.५४ ॥

在此,凭借良策,一切目的都能成就,这毫无疑问。正因知道此事,瞿昙啊,我才吼叫。

7.159.55

त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे ।
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥ ७.१५९.५५ ॥

你是婆罗门,年老,甚至不堪战斗,又对般度之子怀有情谊;因迷惑而轻慢我。

7.159.56

यद्येवं वक्ष्यसे भूयो ममाप्रियमिह द्विज ।
ततस्ते खङ्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥ ७.१५९.५६ ॥

若你再如此对我说不悦之言,婆罗门啊,那么,恶意之人啊,我将举剑割断你的舌头。

7.159.57

यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे ।
भीषयन्सर्वसैन्यानि कौरवेयांश्च दुर्मते ॥ ७.१५९.५७ ॥

你还想在战斗中赞美般度五子,恐吓所有军队和俱卢族人,恶意的婆罗门啊。

7.159.58

अत्रापि शृणु मे वाक्यं यथावद्ब्रुवतो द्विज ।
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः ॥ ७.१५९.५८ ॥

此处也请听我的话,我如实说来,婆罗门啊:难敌、德罗纳、沙恭尼、杜尔穆卡、阇耶。

7.159.59

दुःशासनो वृषसेनो मद्राजस्त्वमेव च ।
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥ ७.१५९.५९ ॥

难降、骏臂、摩德罗国王,还有你自己,索摩达多、布利,德罗纳之子,以及毗温舍提。

7.159.60

तिष्ठेयुर्दंशिता यत्रा सर्वे युद्धविशारदाः ।
जयेदेतान्नरः को नु शक्रतुल्यबलोऽप्यरिः ॥ ७.१५९.६० ॥

这些善战披甲之人若坚守于此,谁能胜过他们?即便敌人的力量与因陀罗相等?

7.159.61

शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः ।
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥ ७.१५९.६१ ॥

英勇者、精通武艺、强大、渴望天界、通晓法义且善于战斗的人,在战场上甚至能杀死诸神。

7.159.62

एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः ।
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥ ७.१५९.६२ ॥

渴望杀死般度之子,为俱卢之子求取胜利,披甲备战,他们将在战场上坚守。

7.159.63

दैवायत्तमहं मन्ये जयं सुबलिनामपि ।
यत्र भीष्मो महाबाहुः शेते शरशताचितः ॥ ७.१५९.६३ ॥

我认为即使是最强大者的胜利也取决于天命,因为大臂的毗湿摩被数百支箭覆盖而躺卧于此。

7.159.64

विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः ।
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः ॥ ७.१५९.६४ ॥

毗迦尔那、citrasena、跋利迦,然后是胜车、大耳、胜、水护与善右。

7.159.65

शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् ।
एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥ ७.१५९.६५ ॥

沙利耶是车战者中最优秀的,勇猛的薄伽陀多也是,这些人与其他诸王即使是诸神也难以战胜。

7.159.66

निहताः समरे शूराः पाण्डवैर्बलवत्तराः ।
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥ ७.१५९.६६ ॥

这些极其强大的勇士在战场上被般度之子所杀!最卑劣的人啊,你认为这除了天命的安排还能是什么?

7.159.67

यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज ।
तेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥ ७.१५९.६७ ॥

婆罗门啊,你不断赞美的那些杜尤判那之敌的英雄,也已被成百上千地杀死。

7.159.68

क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह ।
प्रभावं नात्र पाश्यामि पाण्डवानां कथञ्चन ॥ ७.१५९.६८ ॥

与般度之子一同,俱卢族的全部军队正在被消灭;在此我无论如何也看不到般度之子的威力。

7.159.69

यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम ।
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे।
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥ ७.१५९.६९ ॥

卑劣的婆罗门啊,你总认为他们强大;为了杜尤判那的利益,我将尽我所能在战斗中与他们交锋;胜利系于天命。