Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.160

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.160.1

तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।
खङ्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥ ७.१६०.१ ॥

德罗纳之子见御者之子粗暴地辱骂舅父,便举起剑,迅速向他扑去。

7.160.2

ततः परमसङ्क्रुद्धः सिंहो मत्तमिव द्विपम् ।
प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात् ॥ ७.१६०.२ ॥

于是德罗纳之子大怒,如狮子扑向发狂的大象,在俱卢王的注视下,向迦尔纳冲去。

7.160.3

यदर्युनगुणांस्तथ्यान्कीर्तयानं नराधम ।
शूरं द्वेषात्सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम् ॥ ७.१६०.३ ॥

卑劣之人啊,恶意之徒!你出于仇恨责骂你那位英勇的舅父,他正在称赞阿周那真实的美德。

7.160.4

विकत्थमानः शौर्येण सर्वलोकधनुर्धरम् ।
दर्पोत्सेधगृहीतोऽद्य न कञ्चिद्गणयन्मृधे ॥ ७.१६०.४ ॥

你夸耀自己的勇武,自认为是三界第一的弓箭手,今日被傲慢所控制,在战场上谁也不放在眼里。

7.160.5

क्व ते वीर्यं क्व चास्त्राणि यं त्वां निर्जित्य संयुगे ।
गाण्डीवधन्वा हतवान्प्रेक्षतस्ते जयद्रथम् ॥ ७.१६०.५ ॥

当持甘狄拔弓的阿周那在战斗中击败你,并在你眼前杀死胜车者时,你的威力在哪里?你的兵器又在哪里?

7.160.6

येन साक्षान्महादेवो योधितः समरे पुरा ।
तमिच्छसि वृथा जेतुं सूताधम मनोरथैः ॥ ७.१६०.६ ॥

往昔曾与大天神摩诃提婆亲自交战之人,卑劣的御者啊,你却想仅凭妄想徒然地战胜他。

7.160.7

यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम् ।
जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः ॥ ७.१६०.७ ॥

与克利须那同在、乃持械者中之最者,即便天神与阿修罗连同因陀罗联合,也无法战胜。

7.160.8

लोकैकवीरमजितमर्जुनं सूत संयुगे ।
किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपैः ॥ ७.१६०.८ ॥

御者之子啊,世上独一无二的英雄、不可战胜的阿周那,即便你与这些地上的君主在一起,在战斗中又如何能战胜他,恶念之人啊?

7.160.9

कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते
सञ्जय उवाच। ॥ ७.१६०.९ ॥

看着,迦尔纳!恶念之人,现在站住吧,人中最卑贱者!今日我要将你的头从身体上斩下,恶意之人。 全知者说道。

7.160.10

तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम् ।
न्यवारयन्महातेजाः कृपश्च द्विपदां वरः ॥ ७.१६०.१० ॥

他迅猛冲上前来,国王难敌亲自制止了他,而大光辉的克里帕,人中之最,也阻拦了他。

7.160.11

शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः ।
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥ ७.१६०.११ ॥

这位勇士,在战场上自夸,心怀恶念,是再生者中最卑贱的。让他来面对我的威力吧;库鲁人中最优秀的人啊,放开他。

7.160.12

तैवतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ ७.१६०.१२ ॥

御者之子、恶念之人啊,你这番话我们姑且宽恕。你这膨胀的傲慢,将被法尔古那(阿周那)摧毁。

7.160.13

अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।
कोपः खलु न कर्तव्यः सूतपुत्रं कथञ्चन ॥ ७.१६०.१३ ॥

阿湿婆陀摩啊,请息怒。施敬者啊,你应当宽恕。绝不可对御者之子发怒。

7.160.14

त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले ।
महत्कार्यं समासक्तं प्रसीद द्विजसत्तम ॥ ७.१६०.१४ ॥

大事系于你、迦尔纳、克里帕、德罗纳、摩德罗王以及苏巴拉之子沙恭尼。请息怒吧,再生者中最优秀的人。

7.160.15

एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः ।
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥ ७.१६०.१५ ॥

婆罗门啊,这些般度之子都渴望与罗陀之子迦尔纳交战,从四面八方挑战着,迎面而来。

7.160.16

प्रसाद्यमानस्तु ततो राज्ञा द्रौणिर्महामनाः ।
प्रससाद महाराज क्रोधवेगसमन्वितः ॥ ७.१६०.१६ ॥

大王啊,国王安抚他时,充满愤怒之力的德罗纳之子,这位大度的人才随之息怒。

7.160.17

ततः कृपोऽप्युवाचेदमाचार्यः सुमहामनाः ।
सौम्यस्वभावाद्राजनेन्द्र क्षिप्रमागतमार्दवः ॥ ७.१६०.१७ ॥

于是导师克里帕也极其大度,凭着温和的本性说了这番话。国王啊,人中之主,他很快便变得温和了。

7.160.18

तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ ७.१६०.१८ ॥

御者之子啊,恶念之人,我们宽恕你的过错。阿周那将摧毁你这般膨胀的傲慢。

7.160.19

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।
आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः ॥ ७.१६०.१९ ॥

大王,于是名声显赫的般度之子与般遮罗人一同从四面八方逼来,向迦尔纳发出威吓。

7.160.20

कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् ।
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव।
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥ ७.१६०.२० ॥

车战勇士中最优秀、威力强大的迦尔纳也举起弓,光彩照人地站稳,依靠自己臂膀的力量,被诸位俱卢族的首领环绕,如同被天神众簇拥的因陀罗。

7.160.21

ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः ।
भीषणं सुमहाराज सिंहनादविराजितम् ॥ ७.१६०.२१ ॥

大王,于是迦尔纳与般度之子之间爆发了一场可怖的大战,狮吼之声响彻四方。

7.160.22

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥ ७.१६०.२२ ॥

大王,名声显赫的般度之子与般遮罗人见到大臂的迦尔纳,便高声咆哮起来。

7.160.23

अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे ।
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥ ७.१६०.२३ ॥

这就是迦尔纳?什么迦尔纳?迦尔纳,站在这大战之中。与我们一同作战吧,你这恶心的卑劣之人!

7.160.24

अन्ये तु दृष्ट्वा राधेयं क्रोधरक्रेक्षणाऽब्रुवन् ।
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः।
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता। ॥ ७.१६०.२४ ॥

其他人见到罗陀之子迦尔纳,怒目通红,便说:“杀了这个狂妄、愚蠢的御者之子吧!他活着对任何人都毫无益处。让所有如虎的国王都来杀了他!”

7.160.25

अत्यन्तवैरी पार्थानां सततं पापपूरुषः ।
एष मूलमनर्थानां दुर्योधनमते स्थितः ॥ ७.१६०.२५ ॥

他是般度之子的极大仇敌,是一个时常作恶之人;他坚持杜尔约陀的主张,是一切灾祸的根源。

7.160.26

घ्नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ।
महता शरवर्षेण च्छादयन्तो महारथाः।
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥ ७.१६०.२६ ॥

他们喊道:“杀了他!”刹帝利们一齐冲上前去;在般度之子的驱使下,大车勇士们以密集的箭雨遮蔽他,前去杀死御者之子。

7.160.27

तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् ।
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥ ७.१६०.२७ ॥

看到所有大车勇士这样冲来,御者之子既不慌乱,也没有感到恐惧。

7.160.28

दृष्ट्वा सागस्कल्पं तमुद्धूतं सैन्यसागरम् ।
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ॥ ७.१६०.२८ ॥

看到那如海洋般翻腾的军队之海,想要取悦您的儿子们,这位在战斗中从未被征服的御者之子……

7.160.29

सायकौधेन बलवान्क्षिप्रकारी महाबलः ।
वारयामास तत्सैन्यं समन्ताद्भरतर्पभ ॥ ७.१६०.२९ ॥

这位强壮、行动迅速、力量强大的御者之子,以箭的洪流从四面阻挡住那支军队。啊,婆罗多族的雄牛!

7.160.30

ततस्तु शरवर्षेण पार्थिवास्तमवारयन् ।
धनुम्पि ते विधुन्वानाः शतशोऽथ सहस्रशः।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥ ७.१६०.३० ॥

于是诸王以箭雨阻挡他;成百上千的人挥动着弓,与罗陀之子交战,正如阿修罗群与因陀罗交战一般。

7.160.31

शरवर्पं तु तत्कर्णः पार्थिवैः समुदीरितम् ।
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥ ७.१६०.३१ ॥

然而迦尔纳以大箭雨从四面八方驱散了诸王射出的箭雨,啊,主人。

7.160.32

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् ।
यथा देवासुरे युद्धे शक्रस्य सह दानैवः ॥ ७.१६०.३२ ॥

他们之间爆发了那场战斗,各方都想以牙还牙,如同天神与阿修罗之战中因陀罗与檀那婆作战一般。

7.160.33

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् ।
यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि ॥ ७.१६०.३३ ॥

在那里我们目睹了御者之子奇妙的敏捷,即使其他人从四面八方努力,也无法在战斗中触及他。

7.160.34

निवार्य च शरौघांस्तान्पार्थिवानां महारथः ।
युगेष्वीषासु च्छत्रेषु ध्वजेषु च हयेषु च।
आत्मनामाङ्कितान्घोरान्राधेयः प्राहिणोच्छरान् ॥ ७.१६०.३४ ॥

迦尔纳阻挡了诸王那些箭流,这位大车战士罗陀之子发出刻有自己名字的可怕箭矢,射向车轭、车辕、华盖、旗帜与马匹。

7.160.35

ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः ।
बभ्रुमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥ ७.१६०.३५ ॥

于是,那些被迦尔纳折磨、惊慌失措的国王,像被寒冷折磨的牛一样,四处乱窜。

7.160.36

हयानां वध्यमानानां गजानां रथिनां तथा ।
तत्रतत्राभ्यवेक्षाम सङ्घान्कर्णेन ताडितान् ॥ ७.१६०.३६ ॥

我们到处看见被迦尔纳击伤杀死的马匹、象群与车战士的队伍。

7.160.37

शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः ।
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥ ७.१६०.३७ ॥

大王啊,四面八方都被落下的头颅与臂膀铺满了整个大地,那些从不退缩的勇士的头颅与臂膀。

7.160.38

हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः ।
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥ ७.१६०.३८ ॥

死者、正被杀者与呻吟者遍布各处,战场变得恐怖,如同阎摩之城。

7.160.39

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् ।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ ७.१६०.३९ ॥

此时国王难敌见到迦尔纳的勇武,走近马增,说了这些话。

7.160.40

युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः ॥ ७.१६०.४० ॥

那迦尔纳正在战场上作战,被所有国王披上铠甲。

7.160.41

पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥ ७.१६०.४१ ॥

看这支被迦尔纳的箭矢所苦、四散奔逃的军队,就像被迦尔底开耶摧毁的阿修罗大军。

7.160.42

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता ।
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥ ७.१६०.४२ ॥

见此军队被智者迦尔纳在战场上击败,毗跋蹉(阿周那)怀着杀死御者之子的意念向前进发。

7.160.43

तद्यथा प्रेक्षमाणानां सूतपुत्रं महारथम् ।
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयतां ॥ ७.१६०.४३ ॥

应当制定这样的策略,使般遮罗之人在他们注视之下,般度之子不会在战斗中杀死这位御者之子大车将。

7.160.44

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः ।
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया।
आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव ॥ ७.१६०.४४ ॥

于是德罗纳之子、克里帕、沙利耶以及大车将希尔第基雅前去迎战般度之子,欲保护御者之子,正如因陀罗见到贡蒂之子来临时,便迎向阿修罗军队。

7.160.45

बीभत्सुरपि राजेन्द्र पाञ्चालैरभिसंवृतः ।
प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः ॥ ७.१६०.४५ ॥

君王之主啊,被般遮罗人围绕的毗跋蹉也于是向迦尔纳迎去,正如百祭之因陀罗迎向弗栗多。

7.160.46

संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् ।
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥ ७.१६०.४६ ॥

御者啊,见到如时间、终结者与阎摩般愤怒的法尔古那,维卡尔塔那之子迦尔纳如何迎战,他又作出了怎样的回应?

7.160.47

यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः ।
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम् ॥ ७.१६०.४७ ॥

那位始终与般度之子争胜的大车将,渴望在战斗中极其惨烈地战胜毗跋蹉。

7.160.48

स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् ।
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥ ७.१६०.४८ ॥

当那位永远的死敌突然出现在他面前时,御者啊,维卡尔塔那之子迦尔纳作出了怎样的回应,又如何迎战?

7.160.49

आयान्तं पाण्डव दृष्ट्वा गजं प्रतिगजो यथा ।
असम्भ्रान्तो रणे कर्णः प्रत्युदीयाद्धनञ्जयम् ॥ ७.१६०.४९ ॥

见阿周那迎面而来,如同一头象迎战另一头象,战场上毫不慌乱的迦尔纳迎向达那闍耶。

7.160.50

तमापतन्तं वेगेन वैकर्तनमजिह्मगैः ।
छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः ॥ ७.१६०.५० ॥

阿周那以笔直无误的箭矢覆盖了疾驰而来的伐迦尔唐那(迦尔纳);迦尔纳则反过来以箭矢覆盖胜利者(阿周那)。

7.160.51

स कर्णं शरजालेन च्छादयामास पाण्डवः ।
ततः कर्णः सुसंरब्धः शरैस्त्रिभिरविध्यत ॥ ७.१६०.५१ ॥

那位般度之子以箭网覆盖了迦尔纳。随后极为愤怒的迦尔纳以三支箭射中了他。

7.160.52

तस्य तल्लाघवं पार्थो नामृष्यत महाबलः ॥ ७.१६०.५२ ॥

力大无穷的阿周那无法容忍迦尔纳的这份敏捷。

7.160.53

तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ।
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः ॥ ७.१६०.५३ ॥

令敌人痛苦的阿周那,向御者之子射出三百支经石磨砺、锋尖闪亮、笔直无误的箭。

7.160.54

विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ।
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव ॥ ७.१६०.५४ ॥

他愤怒、勇猛而强壮,以一支那罗迦箭射穿迦尔纳的左臂末端,仿佛在含笑。

7.160.55

तस्य विद्धस्य बाणेन कराच्चापं पपात ह ॥ ७.१६०.५५ ॥

他被箭射中,弓从手中落下。

7.160.56

पुनरादाय तच्चापं निमेषार्धान्महाबलः ।
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥ ७.१६०.५६ ॥

这位大力者重新拿起那张弓,在半瞬之间用箭雨遮蔽了法尔谷那,犹如手艺精湛之人。

7.160.57

शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत ।
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ॥ ७.१६०.५७ ॥

婆罗多啊,御者之子射出的那场箭雨,阿周那以箭雨将其驱散,几乎面带微笑。

7.160.58

तौ परस्परमासाद्य शरवर्षेण पार्थिव ।
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥ ७.१६०.५८ ॥

国王啊,那两位大弓手面对面相遇,各自想要报复对方的行动,便以箭雨互相遮蔽。

7.160.59

तदद्भुतं महद्युद्धं कर्णपाण्डवयोर्मृधे ।
क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव ॥ ७.१६०.५९ ॥

迦尔纳与般度之子在战场上的那场奇妙大战,犹如两头野象因一头母象而愤怒相斗。

7.160.60

ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् ।
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयाऽन्वितः ॥ ७.१६०.६० ॥

于是大弓手般度之子,见迦尔纳的威勇,急速在他的弓把处斩断了那张弓。

7.160.61

अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् ।
सारथेश्च शिसः कायादहरच्छत्रुतापनः ॥ ७.१६०.६१ ॥

他以月牙箭把四匹马送往阎摩之居,又从躯体上斩下御者的头颅——这位令敌人痛苦之人。

7.160.62

अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् ।
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥ ७.१६०.६२ ॥

于是,其弓已断、马与御者皆死,般度之子帕尔特以四支箭射穿了他。

7.160.63

हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः ।
आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥ ७.१६०.६३ ॥

这位人中雄牛从马已死的战车上迅速跃下,饱受箭伤之苦,立即登上了克利巴的战车。

7.160.64

स नुन्नोऽर्जुनबाणौघैराचितः शल्यको यथा ।
जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत् ॥ ७.१६०.६४ ॥

他被阿周那的箭流逼迫,身上插满箭矢,犹如豪猪,为求活命,登上了克利巴的战车。

7.160.65

राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ ।
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥ ७.१६०.६५ ॥

见羅陀之子迦尔纳被击败,婆罗多族的雄牛啊,你的军士被持财者的箭所逼,向十方奔逃。

7.160.66

द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप ।
निवर्तयामास तदा वाक्यमेतदुवाच ह ॥ ७.१६०.६६ ॥

见他们奔逃,国王难敌,人主啊,于是令他们返回,并说了这些话。

7.160.67

अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः ।
एष पार्थवधायाहं स्वयं गच्छामि संयुगे।
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥ ७.१६०.६७ ॥

勇士们,不要急躁;站稳,刹帝利中的雄牛们。我将亲自上阵去杀死普利塔之子。我将连同般遮罗人和苏摩迦人一起杀死般度诸子。

7.160.68

अद्य मे युध्यमानस्य सह गाण्डीवधन्वना ।
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥ ७.१६०.६८ ॥

今日我与执持甘狄拔弓者交战之时,般度诸子将见到我的威力,如同劫末之时的时间之力。

7.160.69

अद्य मद्बाणजालानि विमुक्तानि सहस्रशः ।
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥ ७.१६०.६९ ॥

今日战场上,战士们将看到我成千上万的箭网被放出,如同绵延的蝗群。

7.160.70

अद्य बाणमयं वर्षं सृजतो मम धन्विनः ।
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥ ७.१६०.७० ॥

今日我这弓箭手降下箭雨之时,战场上的士兵将看到,如同炎夏尽头的雨云。

7.160.71

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः ।
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥ ७.१६०.७१ ॥

今日我将以弯曲节部的箭在战场上战胜普利塔之子。勇士们,在战斗中坚守,抛弃对般度(Phalguna)的恐惧。

7.160.72

न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति ।
यथा वेलां समासाद्य सागरो मकरालयः ॥ ७.१६०.७२ ॥

的确,遭遇我的威力,般度不会抵挡得住,就如同抵达海岸的大海——海怪的居所。

7.160.73

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः ।
फल्गुनं प्रतिदुर्धर्षः क्रोधात्संरक्तलोचनः ॥ ७.१६०.७३ ॥

说完这话,国王在大军环绕下出发了,因愤怒而双目通红,难以抵挡法尔古那。

7.160.74

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा ।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ ७.१६०.७४ ॥

看到那位大臂者离去,沙罗陀婆多(克里巴)便走近阿湿婆陀摩,说了这些话。

7.160.75

एष राजा महाबाहुरमर्षी क्रोधमूर्च्छितः ।
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥ ७.१६०.७५ ॥

这位大臂之王不耐烦,被愤怒所迷惑,效仿飞蛾的行为,想要与法尔古那作战。

7.160.76

यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः ।
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥ ७.१६०.७६ ॥

在我们注视之时,为免这位人中之虎在与普利塔之子相遇时丧命,且拦住俱卢族之王。

7.160.77

यावत्फल्गुनबाणानां गोचरं नाद्य गच्छति ।
कौरवः पार्थिवो वीरस्तावद्वारय संयुगे ॥ ७.१६०.७७ ॥

在这位俱卢族英雄之王今日未进入阿周那箭矢的射程之前,在战斗中拦住他。

7.160.78

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः ।
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥ ७.१६०.७८ ॥

在国王未被普利塔之子那如蛇般的可怕箭矢化为灰烬之前,让他退出战斗吧。

7.160.79

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद ।
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥ ७.१६०.७९ ॥

尊者啊,我们仍站立在此,国王却独自前去与帕尔塔交战,他又无人相助,我看来这是不妥的。

7.160.80

दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना ।
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥ ७.१६०.८० ॥

我认为,与戴冠的帕尔塔交战的考拉瓦,其性命难以保全,就像大象与老虎搏斗一样。

7.160.81

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः ।
दुर्योधनमिदं वाक्यं त्वरितः समभाषत ॥ ७.१६०.८१ ॥

其舅如此说后,德罗纳之子,持兵者中最优秀者,急忙对难敌说出了这番话。

7.160.82

मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि ।
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥ ७.१६०.८२ ॥

只要我还活着,甘陀利之子啊,你不应当赴战,考拉瓦啊,不要轻视始终关心你的我。

7.160.83

न हि सम्भ्रमः कार्यः पार्थस्य विजयं प्रति ।
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥ ७.१६०.८३ ॥

不必为帕尔塔的胜利而惊慌;我将阻挡帕尔塔。苏耶陀那啊,你留下吧。

7.160.84

आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम् ॥ ७.१६०.८४ ॥

老师像保护自己的儿子一样保护般度之子;而你啊,最优秀的再生者,也总是对他们漠不关心。

7.160.85

मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि ।
धर्मराजप्नियार्थं वा द्रौपद्या वा न विद्म तत् ॥ ७.१६०.८५ ॥

无论是因为我的厄运,还是因为你在战斗中的勇武减弱,或为了取悦法王,或为了德劳帕蒂——我们不知道是哪一个。

7.160.86

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः ।
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥ ७.१६०.८६ ॥

我这贪婪之人该受诅咒!因我之故,所有值得享福、无人能敌的亲族正承受着极大的痛苦。

7.160.87

को हि शस्त्रविदां मुख्यो महेश्वरसमो युधि ।
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥ ७.१६०.८७ ॥

在精通武器者中,在战斗中与摩诃首婆相等的人,若非乔答弥之子,谁又能够摧毁敌人?

7.160.88

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् ।
तवास्त्रगोचरे शक्ताः स्थातुं देवा न दानवाः ॥ ७.१६०.८८ ॥

阿室嚩特他摩啊,请发慈悲,消灭这些与我为敌的人!在你武器的射程之内,天神和阿修罗都无法站立。

7.160.89

पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् ।
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥ ७.१६०.८९ ॥

德罗纳啊,请与他们的随从一起杀死般遮罗人和苏摩迦人!我们受你保护,将杀死其余的人。

7.160.90

एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः ।
मम सैन्येषु सङ्क्रुद्धा विचरन्ति दवाग्निवत् ॥ ७.१६०.९० ॥

婆罗门啊,这些苏摩迦人和著名的般遮罗人怒火中烧,像森林大火一样在我的军队中肆虐。

7.160.91

तान्वारय महाबाहो केकयांश्च नरोत्तम ।
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥ ७.१६०.९१ ॥

大臂者、人中之杰啊,也请阻挡柯迦耶人;他们受着冠者(阿周那)的庇护,将会先行把一切彻底摧毁。

7.160.92

अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम ।
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष ॥ ७.१६०.९२ ॥

马嘶啊,快去吧,制敌者啊。无论先后,这件事都是你的职责,尊贵的人。

7.160.93

त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ।
करिष्यसि जगत्सर्वमपाञ्चालं किलोद्यतः ॥ ७.१६०.९३ ॥

大臂者啊,你生来就是为了杀戮般遮罗人。你决意要让整个世界再没有般遮罗人。

7.160.94

एवं सिद्धाऽब्रुवन्वाचो भविष्यति च तत्तथा ।
तस्मात्त्वं पुरुषव्याघ्र पाञ्चालाञ्जहि सानुगान् ॥ ७.१६०.९४ ॥

成就者们如此说过,事情也必将如此。因此,人中之虎啊,请连同其随从一起杀死般遮罗人。

7.160.95

न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः ।
किमु पार्थाः सपाञ्चालाः सत्यमेतद्ब्रवीमि ते ॥ ७.१६०.९५ ॥

在你的兵器射程之内,连带着因陀罗的诸神都无法站立,更何况是普利塔之子与般遮罗人呢?这是真话,我对你说。

7.160.96

न त्वां समर्थाः सङ्ग्रामे पाण्डवाः सह सोमकैः ।
बलाद्योधयितुं वीर सत्यमेतद्ब्रवीमि ते ॥ ७.१६०.९६ ॥

勇士啊,般度诸子与索摩迦人合力,也无法在战斗中以力量与你交战。这是真话,我对你说。

7.160.97

गच्छगच्छ महाबाहो न नः कालात्ययो भवेत् ।
इयं हि द्रवते सेना पार्तसायकपीडिता ॥ ७.१६०.९७ ॥

去吧,去吧,大臂者!莫让我们误了时机。这支被般遮子之箭所困的军队正在逃跑。

7.160.98

शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा ।
निग्रहे पाण्डुपुत्राणां पाञ्चालानां च मानद ॥ ७.१६०.९८ ॥

大臂者啊,你有能力以自身的神圣光辉,制服般度之子与般遮罗人,赐予尊荣者啊。