Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.161

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.161.1

दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः ।
चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा।
प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः ॥ ७.१६१.१ ॥

杜罗陀那说完后,沉醉于战斗的德罗纳之子便像因陀罗诛杀达伊提亚那样努力杀敌。这位大臂者对你的儿子说了这些话。

7.161.2

सत्यमेतन्महाबाहो यथा वदसि कौरव ।
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे ॥ ७.१६१.२ ॥

大臂的俱卢啊,你说的是真的。般度之子一向都为我和我父亲所珍爱。

7.161.3

तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ।
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ॥ ७.१६१.३ ॥

我们两人对他们也同样亲爱,但不在战场上相向。俱卢之杰啊,亲爱的,我们应舍弃生命,尽力而战,如同无畏者一般。

7.161.4

अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च ।
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ॥ ७.१६१.४ ॥

我、迦尔纳、沙利亚、克里巴和哈迪基亚,诸王之最啊,我们能在一瞬间摧毁般度之子的军队。

7.161.5

ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह ।
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ॥ ७.१६१.५ ॥

若我们不在战场上,他们也能在半瞬间摧毁俱卢的军队。俱卢之杰、大臂者啊。

7.161.6

युध्याम पाण्डवाच्छक्त्या ते चाप्यस्मान्यथाबलम् ।
तेजस्तेजः समासाद्य प्रशमं यातु भारत ॥ ७.१६१.६ ॥

我们以自己的力量与般度之子作战,愿他们也依自身的力量与我们作战。婆罗多啊,愿火遇火而平息。

7.161.7

अशक्त्या तरसा जेतुं पाण्डवानामनीकिनी ।
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ॥ ७.१६१.७ ॥

只要般度之子still活着,你的军队便无力以武力战胜他们。这是我对你说的真话。

7.161.8

आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः ।
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥ ७.१६१.८ ॥

婆罗多的后裔啊,为自身而战的有能之般度之子,为何不摧毁你的军队呢?

7.161.9

त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च कौरव ।
सर्वाभिशङ्की मानी च ततोऽस्मानभिशङ्कसे ॥ ७.१६१.९ ॥

国王啊,考拉瓦啊,你最为贪婪,善于欺诈,对一切人都怀疑,又傲慢;因此你也怀疑我们。

7.161.10

मन्ये त्वं कुत्सितो राजन्पापात्मा पापपूरुषः ।
अन्यानपि स नः क्षुद्र शङ्कसे पापभावितः ॥ ७.१६१.१० ॥

国王啊,我认为你卑劣可鄙,心怀恶念,是个罪人;卑鄙的人啊,你满身罪孽,既怀疑我们,也怀疑别人。

7.161.11

अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः ।
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन।
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् ॥ ७.१६१.११ ॥

为了你,我已舍弃生命、竭尽全力,库鲁之喜啊,我将前往这场战斗;我要与敌人作战,战胜其中最优秀的人。

7.161.12

पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ।
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिन्दम ॥ ७.१६१.१२ ॥

为了你所珍爱的,敌人的降伏者啊,我将在战场上与般遮罗、索摩迦、伽迦耶以及般度之子们作战。

7.161.13

अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा ।
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वशः ॥ ७.१६१.१३ ॥

今日,被我的箭焚烧的般遮罗与苏摩迦人,将如被狮子惊扰的牛群一样四散奔逃。

7.161.14

अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् ।
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ॥ ७.१६१.१४ ॥

今日,法之子国王见到我的勇武,将与苏摩迦人一起认为整个世界都充满了阿湿婆陀摩。

7.161.15

आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः ।
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ॥ ७.१६१.१५ ॥

法之子坚战见到般遮罗人与苏摩迦人在战场上被杀,将陷入厌世的悲痛。

7.161.16

ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत ।
न हि ते वीर मोक्ष्यन्ते मद्बाह्वन्तरमागताः ॥ ७.१६१.१६ ॥

凡在战场上与我交战者,婆罗多之子啊,我必杀之。英雄啊,已入我臂力范围之内者,必不得脱身。

7.161.17

एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव ।
अभ्यवर्तत युद्धाय त्रासयन्सर्वधन्विनः।
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ॥ ७.१६१.१७ ॥

说完这些话,那臂力强大、众生中最优秀的人,为了使你的儿子难敌欢喜,便震慑所有弓箭手,向战斗挺进。

7.161.18

ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः ॥ ७.१६१.१८ ॥

于是,乔답弥之子对般遮罗人与甘伽耶人说道。

7.161.19

प्रहरध्वमितः सर्वे मम गात्रे महारथाः ।
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ॥ ७.१६१.१९ ॥

诸位大车勇士,你们都从这里击打我的身体;坚定地作战,展示你们的武器娴熟。

7.161.20

एवमुक्तास्तु ते सर्वे शस्त्रवृषीरपातयन् ।
द्रौणिं प्रति महाराज जलं जलधरा इव ॥ ७.१६१.२० ॥

听罢此言,他们全都向德罗纳之子倾泻武器之雨,大王啊,犹如乌云降下甘霖。

7.161.21

तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् ।
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो ॥ ७.१६१.२१ ॥

德罗纳之子以箭射杀他们,击溃十位勇士,主啊,就在般度之子与猛光面前。

7.161.22

ते हन्यमानाः समरे पाञ्चालाः सोमकास्तथा ।
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ॥ ७.१६१.२२ ॥

那些在战斗中被打击的般遮罗与苏摩迦人,抛下德罗纳之子于战场,向十方逃散。

7.161.23

तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् ।
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्रणे ॥ ७.१६१.२३ ॥

大王啊,猛光看见那些勇猛的般遮罗与苏摩迦人逃散,便在战场上冲向德罗纳之子。

7.161.24

ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् ।
वृतः शतेन शूराणां रथानामनिवर्तिनाम् ॥ ७.१६१.२४ ॥

于是,他被百辆饰以黄金、如水云般轰鸣、不退缩的勇士战车所围绕,向前推进。

7.161.25

पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः ।
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ॥ ७.१६१.२५ ॥

般遮罗王之子、大车士德律什塔迅那见战士倒下,便对德罗纳之子说了这番话。

7.161.26

आचार्यपुत्र भद्रं ते किमन्यैर्निहतैस्तव ।
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे।
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ॥ ७.१६१.२६ ॥

师尊之子,愿你平安。杀戮他人对你有何益处?若你在战斗中勇敢,便与我一同前来。我现在就要杀你;现在站到我面前来。

7.161.27

ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् ।
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ॥ ७.१६१.२७ ॥

于是威勇的德律什塔迅那以锐利的穿心之箭射中了师尊之子,婆罗多族的雄牛啊。

7.161.28

ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः ।
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः।
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ॥ ७.१६१.२८ ॥

那些排成一行、疾飞的箭,金羽闪亮,锋尖明亮,刺入德罗纳之子,穿透他全身,犹如渴求蜜的狂蜂投入花开的树中。

7.161.29

सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः ।
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत ॥ ७.१६१.२९ ॥

他被重重刺中,怒火大炽,犹如被踩踏的毒蛇;骄傲的德罗纳之子毫不慌乱,手持箭矢,开口说道。

7.161.30

धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय ।
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ ७.१६१.३० ॥

持军啊,站稳片刻等候吧,直到我用利箭把你送往阎摩之境。

7.161.31

द्रौणिरेवमथाभाष्य पार्षतं परवीरहा ।
छादयामास बाणौघैः समन्ताल्लुघुहस्तवत् ॥ ७.१६१.३१ ॥

德罗纳之子说完这番话,这位杀死敌方英雄的人,便用密集的箭雨从四面八方遮蔽了般遮那之子,动作轻捷如手到擒来。

7.161.32

स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः ।
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ॥ ७.१६१.३२ ॥

般遮国王之子在战中被德罗纳之子逼迫,陶醉于战斗的狂热,便用严厉的话语斥责德罗纳之子。

7.161.33

न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च ।
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ॥ ७.१६१.३३ ॥

你不知道我的誓言,也不知道德罗纳出身婆罗门。我杀了德罗纳之后,定会杀你,你这恶意之人。

7.161.34

ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे ॥ ७.१६१.३४ ॥

因此,今天只要德罗纳在战场上活着,我就不杀你。

7.161.35

इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते ।
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे।
नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम् ॥ ७.१६१.३५ ॥

但这个夜晚来得没有黎明,你这恶意之人。杀了你父亲之后,我也要在战中把你送往亡灵之界。此事已在我心中定下。

7.161.36

यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च ।
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ॥ ७.१६१.३६ ॥

你对普利塔之子的仇恨,以及对俱卢族的忠诚,请稳稳地显示出来;你不会从我手中活着脱身。

7.161.37

यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः ।
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः ॥ ७.१६१.३७ ॥

舍弃婆罗门身份而沉迷于刹帝利之法的再生者,应被全世界所杀,正如你这卑劣之人。

7.161.38

इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः ।
क्रोधमाहारयत्तीव्रं तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१६१.३८ ॥

普利沙塔之子以严厉之言相加,那位最上的再生者便燃起猛烈的怒火,喊道:“站住,站住!”

7.161.39

निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत ।
छादयामास च शरैर्निःश्वसन्पन्नगो यथा ॥ ७.१६१.३९ ॥

他仿佛用双眼燃烧般望着普利沙塔之子,并以箭矢遮蔽了他,如同喷气的毒蛇。

7.161.40

स च्छाद्यमानः समरे द्रौणिना राजसत्तम ।
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ॥ ७.१६१.४० ॥

王中之最啊!那位车战之最,在战场上被德罗纳之子遮蔽,又被所有般遮罗军队包围……

7.161.41

नाकम्पत महाबाहुः स्ववीर्यं समुपाश्रितः ।
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ॥ ७.१६१.४१ ॥

那大臂者倚仗自己的威力,毫不动摇;他向阿湿婆塔摩射出种种箭矢。

7.161.42

तौ पुनः सन्न्यवर्तेतां प्राणद्यूतपणे रणे ।
निपीडयन्तौ बाणौघैः परस्परममर्षिणौ।
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥ ७.१६१.४२ ॥

在那以性命为赌注的战斗中,两人再次返回,以箭雨相互逼迫,毫不退让;这两位大弓箭手四面八方地射出箭雨。

7.161.43

द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् ।
दृष्ट्वा सम्पूजयामासुः सिद्धचारणवादिकाः ॥ ७.१६१.४३ ॥

德罗纳之子与般遮罗之战,形貌可怖惊人;见到此战,悉陀、遮罗那等天界歌者都赞叹它。

7.161.44

शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा ।
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ॥ ७.१६१.४४ ॥

以箭流充满天空与四方,二人不可见地交战,以箭造成巨大的黑暗。

7.161.45

नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ ।
परस्परवधे यत्तौ सर्वभूतभयङ्करौ ॥ ७.१६१.४५ ॥

二人仿佛在战场上跳舞,弓弦绕成圆圈,各自欲置对方于死地,令一切众生恐惧。

7.161.46

अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च ।
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ॥ ७.१६१.४६ ॥

两位大臂勇士奋战得令人惊叹,迅捷而娴熟,在战场上受到千万名首领武士的敬重。

7.161.47

तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव ।
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ॥ ७.१६१.४७ ॥

见二人在战场上奋起,如林中两头野象,两军之中都爆发出喧天的欢呼。

7.161.48

सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च सैनिकाः ।
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ॥ ७.१६१.४८ ॥

士兵们发出如狮吼般的呼喊,吹响海螺;成百上千的乐器一齐奏响。

7.161.49

तस्मिंस्तु तुमुले युद्धे भीरुणां भयवर्धने ।
मुहूर्तमपि तद्युद्धं समरूपं तदाऽभवत् ॥ ७.१६१.४९ ॥

在那场令怯懦者更加恐惧的混乱战斗中,片刻之间,战斗呈现出势均力敌的局面。

7.161.50

ततो द्रौणिर्महाराज पार्षतस्य महात्मनः ।
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी।
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ॥ ७.१६१.५० ॥

大王啊,德罗纳之子击毁了伟大的般遮罗之子的旗帜、弓、华盖,两名侧车御者、御者和四匹马,随后在战场上向他猛冲过去。

7.161.51

पाञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः ।
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ॥ ७.१६१.५१ ॥

那位心志无量的勇士以弯曲节头的箭,将所有般遮罗人成百上千地驱散。

7.161.52

ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ ।
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ॥ ७.१६१.५२ ॥

婆罗多族之雄啊,般度军队看到德罗纳之子在战斗中如因陀罗般的伟大功绩,便感到痛苦。

7.161.53

शतेन च शतं हत्वा पाञ्चालानां महारथः ।
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ॥ ७.१६१.५३ ॥

那位大车士以百支箭射杀了一百名般遮罗战士,又以三支利箭射杀了三位大车士。

7.161.54

द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः ।
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ॥ ७.१६१.५४ ॥

德律波遮之子与法尔古那眼看着,德罗纳之子歼灭了大多驻守在那里的般遮罗人。

7.161.55

ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः ।
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ॥ ७.१६१.५५ ॥

那些在战斗中与悉罗耶人一同被杀的般遮罗人,舍弃了德罗纳之子,车驾与旗帜散乱地逃去了。

7.161.56

स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः ।
ननाद सुमहानादं तपान्ते जलदो यथा ॥ ७.१६१.५६ ॥

德罗纳之子这位大车将在战场上击败敌人后,发出巨大的吼声,如同炎夏末尾的云团。

7.161.57

स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत ।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ ७.१६१.५७ ॥

杀死众多英雄之后,马嘶婆摩闪耀光芒,如同劫末之火将一切众生化为灰烬时的光辉。

7.161.58

सम्पूज्यमानो युधि कौरवेयै… ।
र्निर्जित्य सङ्ख्येऽरिगणान्सहस्रशः।
व्यरोचत द्रोणसुतः प्रतापवा… ।
न्यथा सुरेन्द्रोऽरिगणान्निहत्य वै ॥ ७.१६१.५८ ॥

在战斗中受到俱卢人的尊崇……在战场上以千计击败敌群,德罗纳之子熠熠生辉;威猛的……仿佛天神之王因子杀敌众而闪耀。