Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.167

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.167.1

भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् ।
आपतन्तमपासेधत्प्रयाणादिव कुञ्जरम् ॥ ७.१६७.१ ॥

桑贾耶说:大王啊,在战斗中,布利阻挡了车战者中最优秀的谢尼耶(萨提亚基)的冲锋,如同阻止象的前进。

7.167.2

अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः ।
विव्याध हृदये तस्य प्रास्रवत्तस्य शोणितम् ॥ ७.१६७.२ ॥

桑贾耶说:于是愤怒的萨提亚基用五支锐利的箭射穿了他。箭刺入他的胸膛,鲜血从他身上流出。

7.167.3

तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् ।
दशिभिर्निशितैस्तीक्ष्णैरविध्यत भुजान्तरे ॥ ७.१६७.३ ॥

桑贾耶说:同样,考拉瓦在战斗中用十支锐利尖利的箭射入沉醉于战斗狂热的谢尼耶的两臂之间。

7.167.4

तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् ।
क्रोधसंरक्तनयनौ क्रोधाद्विष्फार्य कार्मुके ॥ ७.१६७.४ ॥

桑贾耶说:大王啊,二人怒目通红,以箭猛烈地互相攻击,愤怒地将弓拉满。

7.167.5

तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा ।
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ ७.१६७.५ ॥

桑贾耶说:大王啊,在这两位如阎摩与死神般、愤怒放箭的战士之间,降下了极为可怕的兵器之雨。

7.167.6

तावन्योन्यं शरैः राजन्सञ्छाद्य समवस्थितौ ।
मुहूर्तं चैव तद्युद्धं समरूपमिवाभावत् ॥ ७.१६७.६ ॥

桑贾耶说:大王啊,二人以箭互相遮蔽,面对面站立;那场战斗有片刻仿佛呈现出势均力敌的形态。

7.167.7

ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव ।
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ॥ ७.१६७.७ ॥

大王啊,愤怒的萧尼耶仿佛在笑,在战场上斩断了那位大度的俱卢后裔的弓。

7.167.8

अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः ।
विव्याध हृदये तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१६७.८ ॥

随后,他用九支锐利的箭迅速射穿了弓已被斩断之人的胸膛,并说:“站住,站住!”

7.167.9

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥ ७.१६७.९ ॥

那位使敌人痛苦的人被强大的敌人重创,便另取一弓,回射萨特瓦塔。

7.167.10

स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशाम्पते ।
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥ ७.१६७.१० ॥

他以三支箭射穿萨特瓦塔,民之主啊,又以极锐利的月牙箭仿佛含笑般斩断了他的弓。

7.167.11

छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्च्छितः ।
प्रजहार महावेगां शक्तिं तस्य महोरसि ॥ ७.१६७.११ ॥

大王啊,萧提耶基弓已断,怒不可遏,便将一支速度极大的标枪投向他宽阔的胸膛。

7.167.12

स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् ।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ ७.१६७.१२ ॥

他被长矛刺穿肢体,从最好的战车上跌落,宛如一颗红色、光芒璀璨的流星偶然从天空坠落。

7.167.13

तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः ।
अभ्यधावत वेगेन शैनेयं प्रति संयुगे ॥ ७.१६७.१३ ॥

大车将阿濕婆塔曼见那英雄被杀,便在战斗中疾速冲向舍乃耶。

7.167.14

तिष्ठतिष्ठेति चाभाष्य शैनेयं स नराधिप ।
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥ ७.१६७.१४ ॥

他高呼“站住,站住!”对舍乃耶说,王啊,他以箭的洪流倾注于其上,犹如云彩向须弥山降雨。

7.167.15

तमापतन्तं संरब्धं शैनेयस्य रथं प्रति ।
घटोत्कचोऽब्रवीद्राजन्नाहं मुक्त्वा महारथः ॥ ७.१६७.१५ ॥

王啊,他见其愤怒地冲向舍乃耶的车,大车将迦托特迦说道:“不留下我……”

7.167.16

तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
एष त्वां निहनिष्यामि महिषं मृगराडिव ॥ ७.१६७.१६ ॥

“站住,站住!德罗纳之子,只要我活着,你就走不了。犹如狮子杀死水牛,我现在就要杀死你。”

7.167.17

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ।
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः परवीरहा।
द्रोणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ ७.१६७.१७ ॥

“今日我要在这战场上消除你的战意。”说罢,这罗刹双目因愤怒而赤红,乃是杀敌英雄之人,怒气冲冲地扑向德罗纳之子,犹如狮子扑向象王。

7.167.18

रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः ।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ ७.१६७.१८ ॥

迦托特迦以如车轴般粗的箭,向车将中的雄牛德罗纳之子倾泻箭雨,犹如云彩倾下大雨。

7.167.19

शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः ।
शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥ ७.१६७.१९ ॥

然而德罗纳之子在战场上以如毒蛇般的箭迅速射断了向他倾泻而来的箭雨,面带微笑。

7.167.20

ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः ।
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दमम् ॥ ७.१६७.२० ॥

随即,他以数百支锋利、穿透要害、迅疾的箭,覆盖了罗刹之王、制敌者瓶头迦。

7.167.21

स शरैराचितस्तेन राक्षसो रणमूर्धनि ।
व्यकाशत महाराज श्वाविच्छललतो यथा ॥ ७.१६७.२१ ॥

大王,那罗刹被他的箭覆盖,在战阵前沿闪耀,犹如豪猪被带刺的藤蔓覆盖而发亮。

7.167.22

ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् ।
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिप्रभैः ॥ ७.१६७.२२ ॥

于是怒火填胸的勇猛的婆罗多之子(毗摩之子),以如霹雳般闪耀的猛烈箭矢,斩断了德罗纳之子的箭。

7.167.23

क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः ।
वराहकर्णैर्नालीकैर्विकर्णैश्चाभ्यवीवृषत् ॥ ७.१६७.२३ ॥

他以剃刀头、半月头、铁制、蜂形、野猪耳、芦苇形和无耳之箭向他倾泻箭雨。

7.167.24

तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् ।
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥ ७.१६७.२४ ॥

德罗纳之子虽然愤怒,却感官稳定,他看见那无与伦比的兵器之雨从上方落下,其声如霹雳。

7.167.25

सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः ।
व्यधमत्सुमहातेजा महाभ्राणीव मारुतः ॥ ७.१६७.२५ ॥

光辉伟大的德罗纳之子以附有神圣武器咒语的可怖箭矢,驱散了那难以承受的箭雨,犹如风吹散巨大的云团。

7.167.26

ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ।
घोररूपो महाराज योधानां हर्षवर्धनः ॥ ७.१६७.२६ ॥

此时天空中的箭矢之战仿佛成了另一场战斗,大王啊!它形状可怖,增添了战士们的欢喜。

7.167.27

ततोऽस्त्रसन्धर्षकृतैर्विस्फुलिङ्गैः समन्ततः ।
वमौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥ ७.१६७.२७ ॥

此时,兵器相撞四面迸发的火星,使夜幕降临时的天空仿佛布满了萤火虫。

7.167.28

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥ ७.१६७.२८ ॥

德罗纳之子以无数箭矢遮蔽四方,为了你的儿子们所珍爱的利益,向那罗刹倾泻箭雨。

7.167.29

ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव ॥ ७.१६७.२९ ॥

此时德罗纳之子与罗刹在战场上开始交战;夜至中分时战斗愈发激烈,犹如因陀罗与补罗诃罗陀之战。

7.167.30

ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे ।
जघानोरसि सङ्क्रुद्धः कालज्वलनसन्निभैः ॥ ७.१६७.३० ॥

此时愤怒的瑿多迦在战斗中以十支如劫火般的箭射中德罗纳之子的胸膛。

7.167.31

स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः ।
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ॥ ७.१६७.३१ ॥

那罗刹的长箭射中了大力的德罗尼之子,他在战场上像被风吹动的树一样摇晃。

7.167.32

स मोहं समरे प्राप्तो ध्वजयष्टिं समाश्रितः ॥ ७.१६७.३२ ॥

他在战场上昏厥过去,靠着旗杆支撑。

7.167.33

ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप ।
हतं स्म मेनिरे सर्वे द्रोणसूनुं जनाधिपाः ॥ ७.१६७.३३ ॥

那时,人主啊,你的全军发出哀号,所有的王都以为德罗纳之子已被杀死。

7.167.34

तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे ।
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ ७.१६७.३४ ॥

panchala 与 sṛñjaya 见阿输婆塔曼在战中如此,便发出狮吼。

7.167.35

प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः ।
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥ ७.१६७.३५ ॥

于是大力的阿输婆塔曼恢复知觉,以左手紧握弓,成为折磨敌人的人。

7.167.36

मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ ७.१६७.३६ ॥

他将弓拉至耳边,射出一支如阎摩之杖般可怖的上等箭,迅速瞄准了迦托特迦。

7.167.37

स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः ।
विवेश वसुधामुग्रः सपुङ्खः पृथिवीपते ॥ ७.१६७.३७ ॥

那支上好的箭射穿了罗刹的心脏,带着羽翎,猛烈地钻入大地,哦,大地之主。

7.167.38

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
राक्षसेन्द्रः पुबलवान्द्रौणिना रणशालिना ॥ ७.१६७.३८ ॥

大王啊,那罗刹之王虽然强大,却被善战的德罗纳之子重创,坐在了战车的座位上。

7.167.39

दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात् ।
द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्येत्वरान्वितः ॥ ७.१६७.३९ ॥

看到希迪姆巴之子在战场上昏迷,他的御者惊慌失措,急忙将他从战场上带走,远离德罗纳之子。

7.167.40

तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् ।
ननाद सुमहानादं द्रोणपुत्रो महारथः ॥ ७.१६७.४० ॥

就这样,德罗纳之子这位大战车武士在战斗中射伤了罗刹之王迦陀迦那,发出巨大的吼声。

7.167.41

पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत ।
वपुषाऽतिप्रजज्वाल मध्याह्न इव भास्करः ॥ ७.१६७.४१ ॥

婆罗多啊,他受到你的儿子们和所有战士的尊敬,身体光芒万丈,犹如正午的太阳。

7.167.42

भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति ।
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥ ७.१६७.४२ ॥

然而,国王难敌亲自用锐利的箭反击正与婆罗堕遮(德罗纳)战车交战的怖军。

7.167.43

तं भीमसेनो दशभिः शरैर्विव्याध मारिष ।
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥ ७.१६७.४३ ॥

毗摩先那以十箭射中他,尊者啊;难敌也以二十箭回射。

7.167.44

तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे ।
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ॥ ७.१६७.४४ ॥

二人被箭矢遮蔽,在战场上不再可见,如同天空中的月亮与太阳被云网遮蔽。

7.167.45

अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः ।
पञ्चभिर्भरतश्रेष्ठ तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१६७.४५ ॥

于是国王难敌以五箭射中毗摩,婆罗多中最优秀者啊,并说:“站住,站住!”

7.167.46

तस्य भीमो धनुश्छित्त्वा ध्वजं च दशभिः शरैः ।
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥ ७.१६७.४६ ॥

毗摩斩断他的弓与旗,以十箭射中俱卢中最优秀者,又以九十支弯节之箭射之。

7.167.47

ततो दुर्योधनः क्रुद्धो भनुरन्यन्महत्तरम् ।
गृहीत्वा भरतश्रेष्ठो भीमसेनं शितैः शरैः।
अपीडयद्रणमुखे पश्यतां सर्वधन्विनाम् ॥ ७.१६७.४७ ॥

于是愤怒的难敌拿起另一把更大的弓,婆罗多中最优秀者啊,在战阵前以利箭逼迫毗摩先那,众弓手皆在观看。

7.167.48

तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् ।
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ७.१६७.४८ ॥

毗摩摧毁了从难敌弓中射出的那些箭,以二十五支小箭射中俱卢。

7.167.49

दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष ।
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥ ७.१६७.४९ ॥

然而难敌大怒,哦,陛下,他以剃刀头箭斩断了怖军的弓,并以十箭反击。

7.167.50

अथान्यद्धनुरादाय भीमसेनो महाबलः ।
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥ ७.१६७.५० ॥

于是大力的怖军取另一张弓,迅速以七支利箭射中国王。

7.167.51

तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् ।
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥ ७.१६७.५१ ॥

他迅速斩断了那张弓,如同手法轻巧之人;第二、第三、第四、第五张弓也都如此。

7.167.52

आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् ।
तव पुत्रो महाराज जितकाशी मदोत्कटः ॥ ७.१६७.५२ ॥

怖军每拿起一张弓,大王啊,你的儿子就斩断一张,他因骄傲而狂妄,自认为已经获胜。

7.167.53

स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ।
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥ ७.१६७.५३ ॥

当弓一再这样被折断时,他在战斗中投出一支名为“萨尔瓦-帕腊舍婆”的华美长矛。

7.167.54

मृत्योरिव स्वसारं हि दीप्तां वह्निशिखामिव ।
सीमन्तमिव कुर्वन्तीं नभसोऽग्निसमप्रभाम् ॥ ७.१६७.५४ ॥

它如同死神的妹妹,如同燃烧的火焰,装饰着天空的发际,光辉如同烈火。

7.167.55

अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः ।
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ॥ ७.१६७.५५ ॥

俱卢者在矛未及临身之前将其斩为三段,而众人与伟大的毗摩正看着。

7.167.56

ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् ।
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥ ७.१६७.५६ ॥

大王啊,毗摩随即挥动沉重而光芒耀眼的铁杵,猛力掷向难敌的战车。

7.167.57

ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे ।
सारथिं च गदा गुर्वी ममर्दास्य रथं पुनः ॥ ७.१६७.५७ ॥

那沉重的铁杵忽然在阵中碾碎了你儿子的马匹与御者,接着又碾碎了他的战车。

7.167.58

पुत्रस्तु तव राजेन्द्र भीमाद्भीतः प्रणश्य च ।
आरुरोह रथं चान्यं नन्दकस्य महात्मनः ॥ ७.१६७.५८ ॥

然而,王中之王啊,你的儿子被毗摩吓得逃走,登上了伟大的难陀迦的另一辆战车。

7.167.59

ततो भीमो हतं मत्वा तव पुत्रं महारथम् ।
सिंहनादं महच्चक्रे तर्जयन्निशि कौरवान् ॥ ७.१६७.५९ ॥

于是毗摩以为你那位大车战勇士之子已被杀死,在夜里发出巨大的狮子吼,恐吓俱卢众。

7.167.60

तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् ।
ततोऽतिचुक्रुशुः सर्वे ते हाहेति समन्ततः ॥ ७.१६७.६० ॥

你的士兵们也以为国王已被杀死,于是他们四面八方都大声哭喊:“哎呀!哎呀!”

7.167.61

तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् ।
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥ ७.१६७.६१ ॥

听到所有惊恐战士的呼喊,以及,大王,伟大的毗摩所那的吼声,

7.167.62

ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् ।
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥ ७.१६७.६२ ॥

于是国王坚战以为苏耶达那已被杀死,迅速向普利塔之子狼腹所在之处前进。

7.167.63

पाञ्चलाः केकया मात्स्याः सृञ्जयाश्च विशाम्पते ।
सर्वोद्योगेनाभिजग्मुद्रोणमेव युयुत्सया ॥ ७.१६७.६३ ॥

众生之主啊,般遮罗、迦迭耶、摩茨耶与srñjaya以全力、渴望作战,直扑德罗纳。

7.167.64

तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह ।
घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥ ७.१६७.६४ ॥

在那可怕的黑暗中,德罗纳与敌人之间爆发了一场极其惨烈的战斗,他们彼此相互击杀。